Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 439
________________ मम्मति० काम , ० २६ २९१ द्वादशाङ्गोक्तामलतत्वावगणनाविधायिनो न ते यथार्थतस्वमवगच्छन्ति, अन्यथावादिनिकवादिवदिति तात्पर्यार्थः ॥ २६ ॥ एतावता प्रबन्धेनाऽनेकान्तवाद एव सद्युक्त्या सिद्धिकोटिं नीतः, तथाहि-ज्ञानात्मनोर्घटरूपायोश्च न तावदेकान्तमेदः, तथा सति हिमवद्विन्ध्याचलयोरिव सम्बन्धाऽयोगत आत्मनोऽझत्वं घटादेश्च नीरूपत्वादि प्रसज्येत, भिन्नत्वाविशेषाद्वाऽऽकाशादावपि सचेतनत्वं रूपादिमवं च भवेत् । ननु नैवं भवेत् , यतः सर्वथा मिन्नयोरप्यव्यवहितयोर्घटभूतलयो. संयोगस्येवायुतसिद्धयो नात्मनोर्घटरूपायोश्चापि समवायसम्बन्ध इति तेनात्मनि ज्ञानस्य घटे च रूपादेस्सदावादिति चेत् , मैवम् , यतो न सम्बन्धिनोरसम्बद्धस्सम्बन्धी विशिष्ट बुद्धिमाधातुं क्षमा, तथा सत्यात्मज्ञानयोरिवाकाशज्ञानयोरपि समवायसम्बन्धो विशिष्टबुद्धि विदध्यात् , अतस्सम्बद्धस्सम्बन्धी विशिष्टबुद्धिं जनयतीत्यम्युपगन्तव्यम् , अथ समवाय. सम्बन्धस्स्वरूपसम्बन्धेनैव सम्बद्ध इति ज्ञानप्रतियोगिकरस आत्मना सहैव स्वरूपसम्बन्धेन सम्बद्ध इति तत्रैव विशिष्टबुद्धिं करोतीति चेत् , तर्हि वरं प्रथमत एव तस्याभ्युपगमनं, किमन्तर्गडना समवायेनेति, अधिकं पूर्वमेवोक्तमिति न पुनरुच्यते, तत्रैकान्त मेदो युक्तः । नाप्येकान्ताऽमेदा, तथा सत्यात्मनि ज्ञानं ज्ञानवानात्मा, घटे रूपं रूपवान् घट इत्यादि मेदावगाप्रितीतिर्नैव प्रामाणिकी भवेत् , अभिनयोराधाराधेयभावामावात् , प्रत्युत आत्मा शानं ज्ञानमात्मा पटो रूपं रूपं घट इति इति प्रतीतिरस्यात्प्रमात्मिकेति प्रमाणप्रथा मनोरथ. मात्रार्था स्यात् , घटादिवद्रपस्यापि द्वीन्द्रियवेधत्वं रूपादिवद् घटादेरपि प्रतिनियतेन्द्रिय. प्राद्यत्वं च स्यात् , अथाभिन्नयोरपि तादात्म्यसंसर्गेणाधाराधेयभावो भविष्यतीति चेत्, तदपि न युक्तम् , तस्य स्वस्मिन् स्वसम्बन्धित्वस्यैव नियामकत्वात् , अन्यथा घटे घटो घटवान् घट इत्यादिप्रतीतिरपि स्यात् प्रमात्मिका, ओमिति चेत् , तथाप्याधारस्वाधेयत्वधर्मभेदेनैव मित्रत्वप्रसङ्गः, धर्मयोर्धमिरूपत्वावमिति चेत् , तथाप्येकानेकत्वस्यैव सुदृढनिरूढत्वं प्राप्तम् , द्विरूपस्यैकरूपत्वान्यथाऽनुपपत्तो, आधारत्वाधेयत्वधर्मयोः काल्पनिकत्वेकथनं स्वनुचितमेव, तद्वतोऽपि तथात्वापत्तेः, विशेषणस्यापारमार्थिकत्वे विशिष्टस्याप्यपारमार्थिकत्वस्या. विमानेन सिद्धत्वादिति कथञ्चिद्भेदाभेदस्यैव सम्बन्धव्यापकत्वेन तदभावे तदभावस्स्यात्, ध्यापकामावस्य व्याप्यामावनान्तरीयकत्वात् , तथा च द्रव्यगुणौ भिन्नावच्छेदेनैकाधिकरणपत्तित्वसंसर्गेण मेदविशिष्टामेदवन्तौ सम्बन्धाऽन्यथाऽनुपपत्तेरित्याधनुमानेन मेदामेदारम. कत्वं सिद्धिसौधमध्यास्ते । अथ साध्याऽप्रसिद्धिश्वपाकसंस्पर्शमाजित्वात् तत् तत्साधनक्षम नेति चेत्, मैवम् , अनुयोग्युपस्थापकपदसमानविभक्तिकप्रतियोग्युपस्थापकपदसममिव्याइतस्य नो भेदप्रत्यायकत्वेन मूले महीरुहो न कपिसंयोगीति प्रत्ययबलात् प्राज्ञशिरोमणिना शिरोमणिना शाखामृगसंयोग्यऽभित्र एव पक्षे मूलावच्छेदेन कपिसंयोगिभेदप्रसाधनात् । अथास्तु तं प्रति तत्सिद्धिः, तदिनं प्रति सा कथमिति चेत्, उच्यते, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556