Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 422
________________ सम्मति० काण्ड ३, गा०५ + विसदृशपर्यायैरिति यावत् " णियमेण णिश्चमवि नत्थि " नियमेन नित्यमपि नास्ति चेतनद्रव्यमचेतनद्रव्यश्च तैरपि तस्य सवं तदैव स्याद्यदि भूतभविष्यत्पर्यायात्मकपरपर्यायाणां वर्त्तमानकाले सवं स्यात्, तथा सत्यतीतानागतवर्त्तमानावस्थात्रय सङ्कीर्णताप्रसङ्गस्स्यात् “ सरिसेहिं पि बंजणओ अस्थि " सदृशैरपि व्यञ्जनतोऽस्ति येऽपि सदृशपर्यायास्तेऽपि सद्द्रव्यपृथिव्यादिशब्दप्रतिपाद्या व्यञ्जनपर्यायाः कालत्रयानुगताः सामान्यविशेषात्मकास्तेऽत्र ग्राह्याः, तेषां शब्दवाच्यत्वात्, न तु ऋजुमूत्राभिमता अर्थपर्यायाः, तेषामन्योन्यव्यावृत्तवस्तुस्वलक्षणग्राह कर्जु सूत्राभिमतानां स्वलक्षणात्मकत्वेन प्रतिक्षणभित्ररूपाणां शब्दाऽवाच्यत्वात्, अत एव " अभिलाप्यानभिलाप्यं, प्रमाणपर्यङ्कशायि विश्वमिदम् । तस्मादङ्गीकार्य, न त्वेकान्तव्यसनदुःस्थम् ॥ १ ॥ इत्युक्तेर्व स्तु मात्र मभिलाप्यत्वानभिलाप्यत्वधर्मद्वभाजनं, अन्यथा तदुभयधर्मरूपेणाने कान्तात्मकमेव तन्न स्यात् न च शब्दवाच्यत्वाद् यदेवाभिलाप्यत्वधर्मकं तदेव शब्दावाच्यत्वादनभिलाप्यत्वधर्मकमिति कथं सङ्गतम्, घटत्वपटत्वयोरिवैतद्धर्मयोर्विरुद्वत्वेनैकत्र समावेशाऽयोगादिति वाच्यम् हस्वत्वदीर्घत्वयोरिव तयोर्भिन्नापेक्षत्वेन विरोधाभावात् न च भिन्नापेक्षत्वं तयोरसिद्धमिति वाच्यम्, कालान्त रस्थायिस्थूलव्यञ्जनपर्यायैरभिलापयोग्य पर्यायापराऽभिधानैश्चेतनाचेतन वस्तुन्यमिलाप्यत्वस्य प्रतिक्षणविभिन्नसूक्ष्मार्थ पर्यायैरनभिलाप योग्य पर्यायाऽवराभिधानैश्वानभिलाप्यत्वस्य भावादित्युक्तलक्षणैस्सदृशव्यञ्जनपर्यायैस्त्रि कालानुगतैस्सर्वमस्ति तत्तद्रव्यं कालत्रये वर्त्तते, न त्वर्थपर्यायैरित्याह- 'ण पुणत्थपजाए' न पुननैवार्थ पर्यायैस्तदस्ति । अयम्भावःसामान्यविशेषात्मकमेव वस्तु गुणप्रधानभावेन शब्दवाच्यम्, न तु सामान्यमात्रम्, यतोऽग्निगोवाहादिशब्दप्रतिपाद्य सामान्य मात्रस्याग्निस्वगोत्वावत्वादिरूपस्य दहनदोहनाssaगगमनाद्यर्थक्रियाजनकत्वाभावेन सामान्यसाध्यायाश्व ज्ञानाद्यर्थक्रियायास्तदानीमेवोत्पत्तेर्दाहाद्यर्थिनां तत्र व्यक्त्यप्रतिभासे तदानयनफला प्रवृत्तिरेवोच्छिद्येत, न च निशश्रयस्य सामान्यस्यासम्भवेन सामान्यप्रतिपादनद्वारा स्वशक्यजात्याश्रयत्वसम्बन्धरूपलक्षणया • नुमानतो वाऽर्थक्रियाजनकस्य विशेषस्य प्रतिभासाभ्युपगमान्नाऽप्रवृत्तिः, लक्षणाबीजं तु गामानयेत्यादावानयन कर्मत्वादौ प्रकारताचादिमते, संसर्गतावादिमते खानयनादौ कर्मत्वादिसम्बन्धेन जातेरन्वयाऽनुपपत्तिरेवेति वाच्यम्, प्राक्सामान्यस्य प्रतिभासः पश्चाद्व्यक्त्यात्मक विशेषस्येति क्रमप्रतीतेरननुभूयमानत्वात् नन्वेवं तर्हि व्यक्त्यात्मकविशेषा एव शब्दवाच्या सन्त्विति चेत्, तदपि न मनोरमम्, तेषामानन्त्येन सङ्केतासम्भवात् । न च प्रत्येकगवादिव्यक्तिरेकैवेति तत्र शक्तिकल्पनायां यथा सकलगोव्यक्तिभानार्थं तावगोव्यक्तिषु शक्तिकल्पनापक्षे गौरवज्ञानं बाधकं विनिगमकं तथैकव्यक्तिशक्तिपक्षे तन्नेति वाच्यम्, यत एकस्यामेव व्यक्तौ शक्त्यभ्युपगमे व्यक्तयन्तरमानार्थं तत्र लक्षणायां स्वीकृतायां स्वसमवेताश्रयत्वं संसर्गः कल्पनीय इति गौरवज्ञानं बाधकं तदवस्थमेव । २७४ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556