Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 427
________________ सम्मति० काण्ड ३, गा. २७९ एवार्थे प्रयोगाईः, न तु पर्यायात्मकेऽर्थे इति तत्र किं पारीक्ष्यमिति चेत् , तम विद्वन्मनो रञ्जकम्, उक्तहेतुद्वयस्य कथचिद्भिनत्वेनैव सह व्याप्यत्वेन तेन कश्चिद्भेदसाधने सिद्धसाधनात् । एकान्तभेदे साध्ये तस्य कचिदप्यप्रसिद्ध्या व्याप्यत्वाऽसिद्धेः । न च रूपवान घटः, ज्ञानवान् आत्मेत्यादिप्रतीत्या भेदे मतुष्प्रयोगाद् गुणगुणिनोरेकान्त मेदसिद्धेनॊक्तदोष इति वाच्यम् , नित्ययोगेऽत्र मतुबिधानात् , द्रव्यगुणयोस्तादात्म्यात् सदाऽविनिर्भागवर्तित्वात् , अन्यथा प्रमाणाधोपपत्तेः । संज्ञा-सङ्ख्या-स्वलक्षणार्थक्रियामेदाद्वा कथञ्चित्तयोरमेदेऽपि भेदसिद्धेर्न मतुबनुपपत्तिः । किञ्च नित्ययोगविहितमतुष्प्रत्ययार्थस्य नित्यसम्बन्धस्य संसर्गविधया कथञ्चिद्भेदाभेदात्मकस्यैव भानम् , एकान्तभेदे सम्बन्धाऽयोगात् , अन्यथा हिमवद्विन्ध्याचलयोरपि संयोगसम्बन्धस्स्यात् । अथ व्यवधानाभावस्य संयोगकारणस्याभावान तदुभयसंयोग इति चेत, तर्हि ययोस्संयोगस्तयोस्संयुक्ततया परिणतिभावेन तद्रूपेण तयोः कथञ्चिदभेदेनैवोपपत्तेनैकान्तभेदः प्रमाणविषयतामास्कन्दति, नन्वेकान्तभिभयोरपि गुणगुणिनोस्समवायसम्बन्ध इति रूपवान् घट इत्यादिप्रतीतिस्समवायेनैवोपपत्स्यत इति चेत्, मैवम्, समवायस्य निरस्तत्वात् , सम्बन्धान्तरस्य चाऽभावात् , किञ्च गुणो धर्मितया पर्यायात्मकोऽभिप्रेतः, किंवा तदनात्मकः, नाद्यः, यतः पर्यायस्य कथञ्चिद्रव्यानतिरिक्तत्वेन तदात्मकगुणस्यापि द्रव्याऽव्यतिरिक्तवाद्वाधा, नान्त्यः आश्रयासिद्धेः, एतेन द्रव्यं गुणादिभ्यो भिन्नं गुणववादित्यनुमानं निरस्तम् , रूपादेरपि सङ्ख्यात्मकगुणवत्तया प्रतीयमानत्वेन तत्र व्यभिचारात् । एक रूपमत्र द्वे रूपे पहूनि रूपाणि इत्यादिप्रतीतिर्धान्त्यात्मिकेति चेत्, तहिं पृथिव्यादौ कथमभ्रान्तिरूपा सेति वक्तव्यम् । तत्र बाधकामावादिति चेत् , तुल्यमन्यत्रापि ! गुणस्य गुणवचायां द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्षः १-१-१६ इति गुणलक्षणमेव वैशेषिकसूत्रोक्तं बाधकमिति चेत् , न, अगुणवानिति लक्षणांशस्याद्याप्यसिद्धेः, संख्यावतया प्रतीतेर्विद्यमानत्वात् । असौ भ्रान्तिरिति चेत्, तर्हि परस्पराश्रयः, तथाहि-तस्या भ्रान्तित्वे लक्षणांशस्य सिद्धेविशिष्टलक्षणसिद्धिः, तत्सिद्धौ च बाधकबलात् सङ्ख्याप्रतीतेान्तित्वसिद्धिरिति । न च लिङ्गान्तराद्र्पादिष्वगुणवचसिद्धेस्तस्या भ्रान्तित्वमिति नान्योन्याश्रय इति वाच्यम्, तत्रोपन्यस्यमानदृष्टान्तस्यापि सङ्ख्यावत्तया प्रतीयमानत्वेनागुणवचासिद्धेः। सङ्ख्यायामनवस्थितिप्रसङ्गेन निस्सङ्खथत्वव्यवस्थितावगुणवचसिद्धेस्सैव दृष्टान्त इति चेत् , न, तत्रापि पृथक्वादिप्रतीतेस्तसिद्धरयोगात् । पृथक्त्वस्यापि च सङ्ख्यावत्वेन प्रतीतेन तदपि दृष्टान्तीकत्तुं योग्यमिति । न च द्रव्य एव सङ्कथास्वीकारे सङ्खथैकार्थसमवायसम्बन्धेन रूपादावपि सङ्ख्याप्रत्ययव्यवहारोपपत्तौ कल्पनालाघवाद् गुणे सङ्ख्याधस्वीकार इति वाच्यम् , घटे रूपरसगन्धस्पर्शा इति बहुत्वप्रतीतेरनुदयप्रसङ्गात् , आश्रयस्यैकत्वात् । व्यासज्यवृत्ति. संयोगादावेकत्वप्रत्ययानुदयप्रसङ्गाच, आश्रयस्यानेकत्वात् । किश्च गुण एव साक्षात्सम्बन्धेन "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556