________________
सम्मति० काण्ड २, मा०४२
२५३ पुरुषद्रव्यस्य राजत्वपर्यायः प्रागसम्मेवोत्पन्नस्तद्वजीवद्रव्यस्य केवलित्वपर्यायोऽपि पूर्वमसनेवोत्पन्न इति द्रव्यपर्याययोः कथश्चिदभेदात्तदभिमजीवद्रव्यमपि तद्रपेण कथञ्चिदुत्पन्नम् , केवलज्ञानश छाअस्थिकज्ञाने नष्टे सत्येवोत्पद्यते इति प्राक्तनछामस्थिकज्ञानाधात्मकछमस्थत्वपर्यायविनाशे तद्रूपेण तदभिन्न जीवद्रव्यं कथश्चिद्विगतम् , न च तथापि कदापि पूर्वोत्तरपर्यायानुगतजीवद्रव्यसामान्यमुपयोगलक्षणासाधारणजीवस्वरूपं परिजहाति, अन्यथा जीवोऽजीवत्वं प्राप्नुयादिति तद्रूपेण ध्रुवमिति त्रिलक्षणात्मकं जीवद्रव्यम् , हेमद्रव्यं प्राक्तनकटकादिरूपेण विनष्टं सदुत्तराङ्गदादिपर्यायरूपेणोत्पन्नमपि नैव पूर्वोत्तरपर्यायपरित्यागोपादानप्रवृत्तमूर्खतासामान्यात्मकस्वस्वरूपं कदापि परिजहातीति तद्रूपेण ध्रुवमिति विलक्षणा. स्मकहेमद्रव्यवज्ज्ञेयम् । इत्थमेवोपदेशरहस्येऽपि “विकलप्रकाशपरिणामेन नष्टा ध्रुवा चेतनैव केवलज्ञानतया परिणमते इत्थमेव त्रैलक्षण्योपपत्तेः" इत्युक्तम् । तथा च विकलप्रकाशपरिणतचेतनाया एव घातिकर्मक्षये सति सकलप्रकाशस्वभावकेवलज्ञानरूपेण परिणमनभावात्केवलज्ञानं कथंचित् सादि, परिणामपरिणामिनोश्च कथञ्चिदभेदात्रिकालानुयायिचेतनापरिणामरूपमेव केवलज्ञानमिति परिणामिभूतायाश्चेतनाया अनादित्वात्तदभित्रकेवलज्ञानमपि तद्रूपेण कथश्चिदनादि, अत एव परिणामिकारणस्वरूपतया कथञ्चित्सदेवोत्तरपर्यायरूपकार्यस्वरूपतामधिगच्छतीति सिद्धान्तप्रवादोऽपि प्रमाणकोटिमाटीकते। घातिकर्मक्षये सत्येव केवलज्ञानमुत्पद्यत इत्युत्पत्तिमत्वाच्च तत्सादि । तथा समयभेदेन भिन्न भिन्नरूपाः केवलज्ञानपर्यायाः शास्त्रे प्रोक्ताः, " पढमसमयसजोगिभवस्थकेवलनाणं अपढमसमयसजोगिमवस्थकेवलनाणं " इति नन्दिसूत्रवचनात् , अत एव शुद्धगुणव्यञ्जनपर्यायात्मकस्य केवलज्ञानस्यापि ऋजुसूत्रादेशेन क्षणभेदभित्रकेवलज्ञानपर्याया अर्थपर्याया इति मन्तव्यम् । तथा च केवलज्ञानस्य क्षणभेदाद् भेदे सति प्रतिक्षण यपरिणतिभेदेन तदवगाहित्वस्वभावभेदेन भेदे च सति तत्सपर्यवसानम् । यद्वा भवस्थकेवलज्ञानपर्यायसिद्धकेवलज्ञानपर्याय. योरप्यर्थपर्यायत्वात् ताभ्यां केवलज्ञानस्य विनाशोत्पत्तिभावात्तत्सपर्यवसानम् , क्षणभेदेन प्रतिक्षणक्षेयपरिणति मेदेन च भिन्नमिनकेवलज्ञानार्थपर्यायाणां केवलज्ञानशब्दवाच्यत्वा. तत्रानुगतं स्वभावगुणव्यञ्जनपर्यायाख्यकेवलज्ञानमिति तद्भावात्मककेवलमा प्रतीत्याऽपर्यवसानमिति भावः ॥४१॥ नैकान्ततो द्रव्यं पर्यायेभ्यो भिन्नमेवेत्युपदर्शयितुमाहजीवो अणाइनिहणो 'जीव' ति य णियमओ ण वत्तव्यो ।
जं पुरिसाउय जीवो देवाउयजीवियविसट्ठो ॥ ४२ ॥ 'जीवो अणाइनिहणो' जीवोऽनादिनिधनः 'जीवत्ति य' जीव इति च, विशेषविकलो जीव एव, देवमनुष्यादिपर्यायाख्यविशेषेभ्य एकान्तभिन्नत्वेन तदनात्मकत्वात्तस्येति
"Aho Shrutgyanam"