________________
२५४
सम्मति० कान्ह २, पा० ४३ 'णियमओ ण वत्तव्यो' नियमतो न वक्तव्यम् , तत्र हेतुप्रदर्शनायोत्तरार्द्धमाह-'' यत् , यस्मात् , 'पुरिसाउयजीवो' पुरुषायुष्कजीवः 'देवाउपजीविय विसिट्ठो' देवायुकजीवितविशिष्टो-देवायुष्कजीवाशिनः । अयम्भाव:-द्रव्यस्य पर्यायेभ्य एकान्तभिभत्वाचचदनात्मकमेवेत्यतो जीवोऽपि पर्यायेभ्यो भिन्नत्वात्तदनात्मक एवेति मनुष्यजीवदेवजीवादिविशेषात्मकं जीवद्रव्यं न, किन्तु जीवैकस्त्ररूपत्वादभिन्नमेवैकं तदित्यभ्युपगमे तु सामान्यैकरूपतया सर्वथाऽभिन्ने जीवे पुरुषायुष्कजीवो देवायुष्कजीवाद्भिन्न इति भेदप्रत्ययव्यवहारौ न स्याताम् , एवं पर्याय मेदैर्जीवभेदानम्युपगमे मनुष्यजीवोऽयं देवजीवोऽयं तिर्यग्जीवोऽयं नारकजीवोऽयमित्यादिभेदप्रत्ययव्यवहारौ जीवे न स्याताम् , तनिमित्तस्य मनुष्यजीवदेवजीवादिविशेषस्य स्वयाऽनभ्युपगमात् , त्वदभ्युपगतस्य केवलजीवसामान्यस्य तु तदनिमित्तत्वात् , अनुभवातीतत्वात् , भेदप्रत्ययव्यवहारयोर्निमित्वं विनाऽप्यभ्युपगमे सामान्यप्रत्ययव्यवहारयोरपि निमित्तं विनाऽपि सम्भवात्तनिवन्धनभूतसामान्याभ्युपगमोऽप्ययुक्त. स्स्यादिति सर्वाभावप्रसङ्गः। न च विशेषप्रत्ययव्यवहारयोमिथ्यात्वमेवेति वाच्यं, बाधा. रहितयोरपि तयोमिथ्यात्वाऽभ्युपगमे सामान्य प्रत्ययव्यवहारयोरपि मिथ्यात्वप्रसक्त्या सामान्यस्याप्यसिद्धिप्रसक्तिस्स्यात् । तस्मात्सामान्यप्रत्ययव्यवहारयोरिव विशेषप्रत्ययव्य. वहारयोरपि प्रामाणिकतयैवाभ्युपगन्तव्यत्वेनानुगतसामान्यप्रतीतिव्यवहारसिद्धसामान्यजीवद्रव्यमवाधितविशेषप्रत्ययव्यवहारान्यथानुपपत्या विशेषात्मकमप्यभ्युपगन्तव्यमिति वस्तु द्रव्यपर्यायोभयात्मकं सिद्धमिति ॥ ४२ ॥
गुणगुणिनोः कथश्चिद्भिन्नाभिन्नतयैव पूर्व व्यवस्थापितत्वाद् व्यवस्थापयिष्यमाणत्वाच केवलज्ञानस्य कथञ्चिदात्माऽव्यतिरेकादात्मनो वा केवलज्ञानाऽव्यतिरेकात्कथञ्चिदेकत्वात्तयोमिथो धर्मसङ्क्रम इति प्रतिपादयितुमाह
संखेजमसंखेनं, अणंतकप्पं च केवलं नाणं ।
तह रागदोसमोहा, अण्णे वि य जीवपजाया ॥ ४३ ॥ वस्तुतत्त्वस्य प्रमाणनयैरधिगम इति प्रमाणार्पणया द्रव्यपर्याययोमिथोऽनुस्यूतत्वेनात्मा द्रव्यपर्यायोभयात्मकः, द्रव्यार्थिकनयविवक्षायां त्वेकद्रव्यरूपत्वात् स एका, कथश्चित्तदभिन्नकेवलज्ञानमप्येकम् , पर्यायार्थिकनयविवक्षायां तत्तत्पर्यायभेदभिन्नरूपत्वात्सङ्खयेयासङ्खयेय. पर्यायरूप आत्मेति तदभिन्न केवलज्ञानमपि संख्येयरूपमसंख्येयरूपश्चेत्याह-संखेजमसंखे इति, ' अणंतकप्पं च केवलं नाणं ' ज्ञेयज्ञानयोः कथञ्चिदभेदात् ज्ञेयाऽऽनन्त्यादनन्तकल्पमनन्तभेदं केवलज्ञानम् । अयम्भाव:-प्रतिक्षणं सम्भवदपरापरकालकृतबालकुमारतरुणनरनारकत्वादिपर्यायैरुत्पादविनाशयोगेऽपि द्रव्यार्थतयैक एवात्मा, पूर्वापरपर्यायानुगतैकद्रव्यस्वादिति कथश्चित्तदभिन्नं केवलमप्येकम् , केवलस्य वा ज्ञानदर्शनरूपतया द्विरूपत्वात्त
"Aho Shrutgyanam"