________________
२५५
सम्मति० काण्ड २, गा० ४३
44
दव्यतिरिक्त आत्माऽपि द्विरूपः, प्रदेशार्थतथा स्वात्माऽसङ्ख्ययः, असंख्येयप्रदेशात्मकत्वात्तस्य, प्रदेश प्रदेशिनोव कथञ्चिदभेदात्, असङ्ख्येयप्रदेश स्वरूपतयात्मनोऽसङ्ख्यत्वे च कथञ्चित्तदभिन्नं केवलमप्य संख्येयम्, विषयविषयिणोः कथञ्चिदमेदादनन्तार्थविषयकत्वेन केवलज्ञानमनन्तमिति तदभिन्न आत्माऽप्यनन्तः । यद्वा " अनन्तपर्यायं ज्ञेयानन्त्यात् " इति न्यायाचार्य श्री यशोविजयोपाध्यायकृततत्त्वार्थविवरणोक्तेर्निखिलरूप्यरूपिविषयाऽऽनन्त्येन तदवगाहितयाऽनन्तपर्यायं केवलज्ञानम् । अयम्भावः - यमेकं विषयं येन स्वभावेनावाहते केवलज्ञानं न तेनैव स्वभावेन विषयान्तरं, किन्तु भिन्नेनैवेति विषयाणामानन्त्येनाखिलतत्तद्विषयावगाहनस्वभावात्मका अपि पर्याया अनन्ता एव तस्मिन्नित्येकस्मिन् समयेऽप्यनन्तपर्यायं तत्, समयान्तरेऽपि निखिल पदार्थानामुत्पादादित्रयात्मकत्वान्यथाऽनुपपच्या कथञ्चित्परावर्त्तनस्वभावानामत एव प्रतिसमयं भिन्नानां प्रत्येकं भिन्नभिन्नस्वभावतयाऽवगाहित्वेनानन्तपर्यायं तदिति तदभिन्न आत्माऽप्यनन्तपर्याय इति । तह रागदोसमोहा अण्यो वि य जीवपजाया " केवलज्ञानं यथा सख्येयासङ्ख्येयानन्तभेदं तथैव रागद्वेषमोहा अन्येऽपि च जीवपर्यायाछवस्थावस्थाभावि नस्सङ्ख्ये या सङ्ख्ये यानन्त भेदाः, यत छवस्थस्यैकस्यापि जीवस्य तत्तत्कालभेदेन रागद्वेषमोहाद्यालम्बनानि सख्येयासख्येयानन्तभेदात्मकानीत्यालम्ब्य भेदात्तेऽपि तत्सङ्ख्यकाः, तदात्मकत्वात्संसार्या त्माप्युक्त भेदात्मकोऽवगन्तव्यः । सोमिल ब्राह्मणप्रश्नप्रतिवचनरूपं पञ्चमाङ्गाष्टादशशतकदशमोदेशक सूत्रमप्येतदर्थं संवदति, तथा च तत्सूत्रम् - एगे भवं दुवे भवं अक्खए भवं अन्नए भवं अवट्ठिए भवं अणेगभूयभावभविए भवं १ सोमिला ! एगे वि अहं जाव अणेगभूयभावभवि वि अहं । से केणद्वेणं मंते ! एवं बुच्चइ जात्र भविए वि अहं ? सोमिला 1 Googयाए एगे अहं, नाणदंसणट्टयाए दुबे अहं, पएसट्टयाए अक्खए वि अहं, अव्वए वि अहं, अवट्टिए वि अहं, उवयोगट्टयाए अणेगभूयभावभविए वि अहं, से तेणट्टणं जाव भवि वि अहं " इति । रागादीनां चैकाद्यनन्तभेदत्वमात्मपर्यायत्वात्, यो ह्यात्मपर्यायः स एकाद्यनन्त मेदः, यथा केवलावबोधः, आत्मपर्यायाच रागादयः, तस्मादेकाद्यनन्तमेदास्ते इति द्रव्यार्थिकपर्यायार्थिकनयाभ्यां स्थित्युत्पत्तिनिरोधात्मकत्व महत्यपि सिद्धमिति ।
एतावता सम्मतिटीकैकवाक्यतापन्नेन व्याख्यानेन यथाश्रुतार्थसम्यगवबोधफलावाप्तिमात्र कृतकृत्यानां पूर्वोत्तरपक्षभावावबद्धमूलगाथा कदम्बान्यत मावगतज्ञानदर्शनोपयोगद्वययौगपद्याभ्युपगन्तुमहनीयमान्य - श्रीमल्लवादिमत -- तत्क्रमिकत्वाभ्युपगन्तु पूज्यपाद श्री जिनभद्रगणिक्षमाश्रमण मत- तद्वयाऽभेदोररी कर्तृ-सम्म तितर्कप्रणेतृश्रीसिद्ध सेनदिवाकरमतानां शासनप्रभावकसूरित्र यासत्व सन्देह पराङ्मुखतालक्षणमाध्यस्थ्याचान्तस्वान्तःकरणानां प्रदर्शितयुक्तिकदम्बोपेतमान निर्णीताखिलतत्वगतोत्पादव्ययधौ व्यात्मकत्वलक्षणसत्वसमर्थितसमव्याप्ताऽविरुद्ध भेदाभेद - नित्याऽनित्यत्वाद्यनन्तधर्मात्मकत्वलक्षणाने कान्तत्व भावनाहढा-.
"Aho Shrutgyanam"