________________
२५६
सम्मति० काण्ड २, गा० ४३
वाप्तिसम्भावितकतिपयोत्तरकालभावि सम्यग्दर्शनज्ञानचारित्रलक्षणात्मकरत्नत्रयस्वरूपमुक्तयवन्ध्य कारणाशिप्रभवाष्ट विश्वकर्मात्यन्तिकक्ष्यावश्यम्भाविस्वस्वरूपाखण्डनित्याऽबाध्य परमानदमनोरथानां न प्रस्तुतार्थे समीहितं किञ्चिज्ज्ञातव्यमवशिष्टमिति न तान् यथाश्रुतग्राहिणः समुद्दिश्य वक्तव्यम् । येऽपि तत्तन्मतैकान्तश्रद्धाप्लावितान्तःकरणतया तत्प्ररूपणाव्यतिरिक्तप्ररूपणादर्शनेऽपि पराङ्मुखा यथा तथा स्वस्वश्रद्धेय पक्षोद्गार-कदाग्रहग्रहिलस्वेनापरपक्षयुक्तिव्रातं मानोपेतमपि कदाग्रहविजृम्भितमेवेत्यभिमन्यमानास्तान् प्रति परपक्षदिग्दर्शन मध्य नाकाङ्क्षितत्वादरमणीयमिति न तानुद्दिश्याऽपि किञ्चिद् वक्तव्यम्, ये तु स्याद्वादराद्धान्तसम्मताबाध्यमभिमन्यमाना नात्र भवितव्यं कचिदप्यंशे विरोधेन, आपाततः परस्परविरुद्धतया भासमानोऽप्यंशोऽपेक्षा मेदेन परिहृतविरोध एव स्याद्वादशद्धान्तघटकः, नान्यथेति तथाविधांशेऽपेक्षाभेदान्वेषणपरायणाः कथमपि स्वसन्देहपथमुपनतं वस्त्वsसन्दिग्धं विधातुं तथाविदग्धपरीक्षकवचन शुश्रुवश्च तान् प्रतीदं किञ्चिदुपदर्श्यते---
1
+
नन्वर्हच्छास्त्रग्रन्थिस्थाननग भेदिवज्रोपममतिवैभव महनीय महत्तमाचार्यत्रय सत्कपक्षत्रयान्यतमस्यैकस्यैव पक्षस्य वस्तुगत्या प्रामाणिकत्वेन तद्भिन्नपक्षद्वयस्याईच्छास्त्र बाधितत्वात्तत्तत्प क्षाभ्युपगन्तृणामर्हच्छास्त्रविपरीत श्रद्धाशालित्वानू मिध्यात्वप्रसङ्ग इति न चात्र शास्त्रतत्वज्ञैराशङ्कनीयम्, प्रत्यात्मप्रदेशानुस्मृताविच्छिन्ना ईच्छासनानुरागशुभोपायालङ्कतानामविच्छिन्नगुरुपरम्पराऽऽयातसूत्रतात्पर्यमपक्षपातेन तन्वतां विदुषां मिथ्याभिनिवेशाभावात् तथाहिस्वाग्रहाऽग्रहिलस्वान्तास्त्रयोऽपि सूरयः स्वस्वाभ्युपगतमर्थं शास्त्रतात्पर्यवाधं प्रतिसन्धायाऽपि पक्षपातेन न प्रतिपन्नवन्तः किन्त्वविच्छिन्नस्वस्वगुरुपरम्परायातप्रावचनिकपरम्परया शास्त्रतात्पर्यमेव स्वाभ्युपगतार्थानुकूलत्वेन प्रतिसन्धायेति न ते मिध्याभिनिवेशिनः वीतरागप्रभुप्रणीतशास्त्रतात्पर्यबाधप्रतिसन्धानपूर्व काऽन्यथाश्रद्धानाभावात् किञ्चानेकन यसमूहात्मके भगवत्प्रवचने - " नत्थि नएहिं विहूणं सुतं अत्थो अ जिणमए किंचि " इति सिद्धान्तवचनादनेन नयेनेदं सूत्र प्रवृत्तम्, अनेन नयेन चेदमिति सम्भविततत्तन्नयसमालोचनां विना नैव तत्तत्सूत्राणि याथार्थ्येन ज्ञायन्ते इत्यत्र स्वस्वगुरुसम्प्रदायाविच्छिन्नतत्तन्नयगfaraarataयातास्त्रयोऽपि सूरिपक्षाः प्रमाणकोटिप्रविष्टा इति तेषां सूरीणां केषामपि नापसिद्धान्तोक्त्या मिथ्यात्वप्रसङ्गः तथाहि यत् सत्तत्क्षणिकमिति सामान्यव्याश्या निखिलवस्तुनस्सद्रूपत्वेन क्षणिकत्वमिति पूर्वपूर्वक्षणिक वस्तुनस्त्रोतरोत्तरक्षणिक कार्यकुर्वद्रूपात्मकतया कारणत्वेन पूर्वपूर्वक्षणिकेनोत्तरोत्तरक्षणिककार्यं जायते इति पूर्वोतरक्षणवर्त्तिक्षणिक वस्तुद्वय कार्य कारणभावाऽभ्युपगन्तृबौद्धमतप्रकृत्यर्जुसूत्रनयापेक्षया केवलज्ञानकेवलदर्शनसूत्राभिप्रायं व्यवस्थापयन्तः पूर्वोत्तरक्षणवर्त्तिनोः ऋजुमूत्राभ्युपगतकार्यकारणभावांश एव प्रस्तुतोपयुक्तः न त्यर्जुत्राभ्युपगत निखिलतन्वभाग इति तत्रैौदासीन्यमुक्तकार्यकारणभावे च प्राधान्यमभिसन्दधानाः केवलज्ञान केवलदर्शन क्रमिकोत्पादं
"Aho Shrutgyanam"