________________
सम्मति० काण्ड २, गा० ४३
•
पूज्य श्रीजिन भद्रगणिक्षमाश्रमणाः प्रतिपादयन्ति - यद्यपि चेतनालक्षणसामान्यात्मना केवलोपयोगलक्षणसामान्यात्मना वा केवलज्ञानकेवलदर्शनयोरैक्यमेव तथापि सामान्यविशेषभेदग्राहितया तदुभय भेदग्राहकवैशेषिकनैयायिकमतप्रकृतिव्यवहारनयापेक्षया केवलज्ञान केवलदर्शन सूत्राभिप्रायमुररीकुर्वन्तो व्यवहारनयाभ्युपगत भेदान्यतत्त्वभागे औदासीन्यं भजमानाः तदभ्युपगतभेदमात्रस्य प्रस्तुतोपयुक्तत्वात्तं प्रधानीकृत्य एकसमयावच्छिन्नोत्पत्तिक केवलज्ञान केवल दर्शनभेदं जगदयक्रमाब्जश्री मल्लवादिन ऊचुः - " सदेव सौम्येदमग्र आसीत्, एकमेवाद्वितीयम् नेह नानास्ति किञ्चन " इत्यादिश्रुत्या घटः सन् पटस्सन्नित्याद्यनुगतप्रत्ययगोचरीभूतेन सत्त्वेन रूपेणैकस्यैव सर्वजगतो घटत्व पटत्वाधुपाधिभेदेन यः काल्पनिकमेदो यद्वाऽखण्ड सच्चिदानन्दात्मकस्यैकस्यैव ब्रह्मणो मायावच्छिन्नत्वान्तःकरणावच्छिन्नत्वोपाधिभेदेन यः काल्पनिक मेदस्तद्राहिवेदान्तिमतप्रकृतिसङ्ग्रहनयापेक्षया केवलज्ञान केवलदर्शन सूत्राभिप्रायमभ्युपगच्छन्तः प्रवचनोपनिषद्वेदिमहातर्कवादिभगवच्छ्री सिद्ध सेनदिवाकराः, न तु व्यक्त्या भेदं, केवलज्ञानव्यक्तेरेकत्वात्, किन्तु ज्ञानत्वदर्शनत्वधर्मोपाधिभेदेनैकस्यापि केवलज्ञानस्य भेदं कथयामासुः, तथा चाविच्छिन्नश्रावचिकपरम्पराऽऽयाततत्तन्नयगर्भसूत्रतात्पर्यं स्वाम्युपगतार्थानुकूलत्वेन प्रतिसन्धाय प्रतिपद्मवतां त्रयाणामपि भूरिभगवतां मध्ये नॅकोऽपि स्वाभ्युपगतेऽर्थे भगवत्प्रणीतशास्त्रतात्पर्यari प्रतिसन्धायैव पक्षपातेन तमर्थ श्रद्धत्ते इति तत्र शास्त्रतात्पर्यवाधप्रतिसन्धानाभाववति विदुषोऽपि स्वरसवाहिभगवत्प्रणीतशास्त्रवाधितार्थश्रद्धानमाभिनिवेशिकम् " इति लक्षणासङ्गतेनैकस्मिन्नपि सूरिवरे आभिनिवेशिकमिध्यात्वप्रसङ्गः प्रतिपादितञ्चोक्तमतत्रयेऽपि तत्तन्नयापेक्षाभेदप्रयोज्यं प्रामाण्यं न्यायाचार्य श्री यशोविजयोपाध्यायैर्ज्ञानबिन्दौ— " प्राचां वाचां विमुखविषयोन्मेष सूक्ष्मेक्षिकायां, astoorat भयमधिगता नव्यमार्गानभिज्ञाः । तेषामेषा समयवणिजां सम्मतिग्रन्थगाथा, विश्वासाय स्वनयविपणिप्राज्य वाणिज्यवीथी ॥ १ ॥ भेदग्राहिव्यवहृतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करणफलयोस्सीनि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेनः,
(4
तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽमी (पि) ॥ २ ॥ चित्सामान्यं पुरुषपद भाक्केवलाख्ये विशेषे, तद्रूपेण स्फुटमभिहितं साधनन्तं यदेव । सूक्ष्मैरंशैः क्रमवदिदमप्युच्यमानं न दुष्टं, तत्सूरीणाभियमभिमता मुख्यगौणव्यवस्था ॥ ३ ॥
३३
"Aho Shrutgyanam"
२५७