________________
२५२
सम्मति० काण्ड १, गा० ४१ शब्दोऽयं ' वरिसविभागं विसेसेइ वर्षविभागं विशेषयति दर्शयति, षष्टिवर्षायुष्कस्य पुरुषसामान्यस्य त्रिंशद्वर्षस नराधिपपर्यायोऽयं जाता, कथञ्चिदमेदसापेक्षभेदात्मकत्वात् पर्यायस्य, त्रिंशद्वर्षीयनराधिपपर्यायात्मकत्वेन चायं पुरुषः पुनर्जातः, कश्चिद्भेदसापेक्षाभेदात्मकत्वात्सामान्यस्य । अयम्भावः-जन्मादिमरणकालपर्यन्तं षष्टिवर्षायुष्कं पुरुषसामान्यं राजकुमारपर्याययुवराजपर्यायनराधिपपर्यायानुगतमभिन्नमेव, सर्वेषु पूर्वोत्तरपर्यायेषु पुरुषोऽयं पुरुषोऽयमित्यनुगतप्रतीतेः यदनुगतप्रतीतिविषयभृतं तदभिन्नम् , स्थासकोशकुशूलादिपर्यायानुगतमृद्रव्यवत् । पूर्वोत्तरकालावच्छिन्नपूर्वापरपर्यायानुगतत्वेनोव॑तासामान्याख्यस्य पुरुपद्रव्यस्यैव च राजकुमारयुवराजनराधिपाः पर्याया इति पर्यायस्वरूपतया तद्भिनमपि, पुरुष. द्रव्यमेव राजकुमारत्वेन युवराजत्वेन नराधिपत्वेन चोत्पन्नमिति व्यवहृतेः। न च पुरुषद्रव्य तत्पर्याययोरेकान्तभेदान्नैकधर्मस्तदन्यस्मिनिति नाभिन्नपुरुषद्रव्यस्वरूपतया राजकुमारादिपर्याया अभिन्नाः, विभिन्न राजकुमारादिपर्यायतया पुरुषद्रव्यमपि नैवाऽभिन्ममिति वाच्यम् , यत एकान्तभेदे सम्बन्धाऽयोगेन पुरुषद्रव्यस्यैते राजकुमारादिपर्याया इति व्यवहृतिरेव न स्यात् । नन्वेवं तीस्तु तयोरेकान्ताऽमेद एव, तैलस्य धारेति प्रतीतिवद् राहोशिशर इति प्रतीतिवचामेदेऽपि पुरुषस्यते राजकुमारादिपर्याया इति प्रतीत्युपपत्तेरिति न कथमपि कथञ्चिवेदामेदावकाश इत्यपि न च वाच्यम् , जन्मादिमरणान्तकालवर्तित्वेनानुगतं पुरुषद्रव्यमेकं, राजकुमारादिपर्यायास्तु पुरुषद्रव्यस्यैवावस्थाविशेषाः, तत्तत्कालोत्पनत्वेन भिन्न स्वरूपा इति पुरुषद्रव्यतत्पर्याययोर्विरुद्धधर्माध्यासा देनाप्युपलब्धेनैकान्तामेदस्तयो, तथा च तयोमिथो नान्तरीयकतयैकतराऽभावे तदन्यस्याप्यभावात्तौ प्रमाणार्पर्णया कथश्चिद्भिमाभिन्नौ, तथैव प्रतीयमानत्वादि त्यभ्युपगन्तव्यम् ।। ४० ।। दृष्टान्तं प्रसाध्य दान्तिके तदुपनयमाह
एवं जीवहव्वं, अणाइणिहणमविसेसियं जम्हा ।
रायसरिसो उ कवलि-पज्जाओ तस्स स विसेसो ॥४१॥ ‘एवं पूर्वोक्त दृष्टान्तनीत्या जीवद्दव्यं अणाइनिहणं' जीवद्रव्यमनादिनिधनम् आदि च निधनश्च आदिनिधने ते न विद्यते यस्य तदनादिनिधनम् , आद्यन्तरहितम् , कस्मादेवमित्यत आह--'अविसेसियं जम्हा' यस्मादविशेषितम्-यथा पुरुषद्रव्यं निर्विशेषितम् सामान्यरूपं तथा जीवद्रव्यमपि निर्विशेषं सामान्यरूपम् । अथ सामान्य विशेषविकलमसद्रपमिति पुरुषसामान्यस्य नराधिपत्वात्मको यो विशेषः प्रागुक्तस्तत्सदृशो जीवद्रव्यस्य सामान्यरूपस्य को विशेष इत्याशङ्कानिवृत्यर्थमुत्तरार्द्धमाह-रायसरिसो इत्यादि । ' रायस. रिसो उ' राजसदृशस्तु षष्टिवर्षायुषस्त्रिंशद्वर्षीयराजत्वपर्यायसदृशस्तु केवलिपजाओ' केवलिपर्यायः केवलित्वपर्यायः, केवलज्ञानात्मकपर्याय इति यावत् ' तस्स स विसेसो' तस्य ऊर्ध्वतासामान्यात्मकतथाभूतजीवद्रव्यस्य स केवलित्वपर्यायो विशेषः । तथा च
"Aho Shrutgyanam"