Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 415
________________ सम्मति काण्ड ३, पा० २ २६७ 66 मात्मकपर्यायाभावे परिणामिद्रव्याभावस्याप्यवश्यम्भावात् द्रव्यत्वजातियोगात् समवायिकारणत्वाच्च द्रव्यमित्यस्य तु प्रागेव निरस्तत्वान पुनस्तभिरस्यते, अत एवात्मानमधिकृत्य " न द्रव्यमेव तदसौ समवायिभावात् पर्यायताऽपि किमु नात्मनि कार्यमावात् । उत्पत्तिनाशनियतस्थिरतानुवर्त्ति, द्रव्यं वदन्ति भवदुक्तिविदो न जात्या || ६३ ॥ " इति खण्डस्वाद्याऽपरनाम महावीरस्तवोक्तं सङ्गच्छते, एयंत विसेसियं च वयमाणो पजवाहि दवियं णियत्तेइ " एकान्तविशेषश्च एकान्ततस्सामान्यरहितं विशेषं च वदन् पर्यायेभ्यो विशेषेभ्यो द्रव्यं निवर्त्तयति, न च तनिवृत्तिर्युक्ता यैव मृत्पिण्डव्यक्तिः सैव स्थासस्वरूपा सैव कोशस्वरूपा सैव कुशूलादिस्वरूपा, थ एव गोरसो दुग्धरूपः स एष दधिघृतादिस्वरूप इत्याद्याकारायास्तचत्पूर्वोत्तरपरिणामलक्षण विशेषानुगतो तासामान्याख्यद्रव्यप्रतीतेर्भावात् द्रव्यस्याबाधितानुगतप्रतीतिसिद्धत्वेऽपि निवृभ्यस्युपगमे एकस्यैवात्मद्रव्यस्य बालव वृद्धत्वादिदेवनरनारकादिपर्यायाः न त्वन्यद्रव्यस्येति व्यावृत्तबुद्धिग्राह्माणामपि विशेषाणां निवृत्तिप्रसङ्गाद्, सामान्यविशेषपोर्मिंथोऽनुस्यूतत्वेनानुभूयमानयोर्मध्यादेकस्याभावे तदपरस्याध्यभावो न्यायप्राप्त एव न च द्रव्यपर्यायावेकान्तभिन्नौ भिन्न बुद्धिग्राह्यत्वात् घटपटवदित्यनुमानेन द्रव्यपर्याययोरेकान्तभेदसिद्धौ तयोर्मिथोऽनुस्यूतत्वमे वाऽसिद्धमिति नोक्तं सङ्गतमिति वाच्यम्, य एवाहं पूर्व देवत्वेनाभूवं स एवाहं मनुष्यत्वेनोत्पन्नः, य एवाहं पूर्व बालस्स एवाहं युवास्मि य एव देवदतो बालत्वेन दृष्टस्स एव युवत्वेन मया दृश्यत इत्यादिप्रत्यभिज्ञाबलेन द्रव्यपर्यायरूपेण कथञ्चिद्भेदाभेदोभयस्वरूपस्यैव सिद्धेः, अत एव तयोरेकान्वाऽभेदोऽपि प्रतिक्षिप्तः, पूर्वोक्तयुक्तेः, यन्निवृत्तौ यस्य न निवृत्तिस्तत्ततो भिन्नं यथा घटनिवृत्तावपि परस्याऽनिवृत्तिरिति स ततो भिन्नो दृश्यते, पर्यायनिवृत्तावपि द्रव्यस्य न निवृत्तिः, ध्रुवस्वभावत्वादिति तस्य द्रव्यस्य पर्यायतो भिन्नत्वाच्च यतो द्रव्यपर्याययोरभेदें द्रव्यस्वरूपवत्पर्यायस्याप्यनिवृत्तिस्स्यात्, यद्वा द्रव्यस्यापि निवृत्तिस्स्यात् पर्यायस्वरूपवत्, न च तद् युक्तम्, यतो द्रव्यपर्याययोः कथञ्चिद्भेदाभेदोभयस्वरूपतयैवानुभूयमानत्वेन द्रव्यस्वरूपाsनिवृत्तावपि पर्यायनिवृत्तिः पर्यायनिवृत्तावपि द्रव्यस्यानिवृत्तिरपि नानुपपन्ना, कथञ्चिद्भेदपश्चसमाश्रयणात्, तदेवं वस्तुमात्रं सामान्यविशेषोभयात्मकम् अबाध्यमानानुगतव्यावृतबुद्धिगोचरत्वाऽन्यथानुपपत्तेरभ्युपगन्तव्यमिति सिद्धम् । यदभिहितं स्याद्वादरत्नाकरे - तत्सामान्यविशेषाख्या -ऽनेकान्ताक्रान्तमूर्त्तिकम् । वस्तु प्रमेयमायातं, प्रमाणस्योपपत्तितः ॥ १ ॥ इति । नन्वेतत्तृतीयकाण्डं नारब्धव्यम् अनेकगाथासन्दोहैरनेकधा पूर्वप्रतिपादितविषयकत्वेन पुनरुक्तत्व दोषाघ्रा तत्वात्, पिष्टपेषणवदस्य निष्फलत्वाच्चेति चेत्, एवमेतत्, किन्तु प्रमेयप्राधान्येन तद्ब्राहकस्य प्रमाणस्यापि निरूपणमित्येतत्प्रदर्शनद्वारेण तत्प्रतिपादकवाक्यावतारः प्राविहितः, इह त्वविद्यमानप्रमेयस्य प्रमाणस्य प्रमाणत्वासम्भवात् प्रमाणनिरूपणद्वारेण प्रमेयनिरूपणमिति प्रदर्शनद्वारेण ' सामण्णम्मि विसेसो' इत्यादिवाक्यावतार "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556