Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
३
प्रकाशः]
— विक्रमार्कप्रबन्धाः। राज्ञा' मित्रधर्ममधिकमधिरोप्य' इत्युपरुद्धः-'यन्महेन्द्रपार्थादेकेन हायनेन' हीनमधिकं वा वर्षशतं कारयेति'। स तदङ्गीकृत्य भूयोऽभ्युपेतः 'सन्निति वाचमुवाच-'महेन्द्रेणापि न" नवनवैतिर्नैकोत्तरं वर्षशतं भवति' । इति" निर्णये ज्ञाते, यावत्परस्मिन् दिने तद्योग्यं भक्ष्यभोज्यादिपाकं निषिद्धय, नृपः संग्रामसजो भूत्वा निशि तस्थौ । तावत्तत्रैव रीत्या समुपागतः सन्" तद्भोज्यादिकमवीक्ष्य क्रुद्धो राजानमधिचिक्षेप । तयोश्चिरं "द्वन्द्वयुद्धे जायमाने सुकृत-5 सहायेन राज्ञा तं "पृथ्वीतले पातयित्वा, हृदि चरणमारोप्य-'इष्टं दैवतं स्मरेत्यादिष्टः स नृपं जगौ-तवाद्भुतसाहसेनाहं परिर्तुष्टोऽस्मि; यत्कृत्यादेशकारी अग्निवेतालनामाहं तव सिद्धः। एवं निष्कण्टकं तस्य राज्यमजनि । इत्थं तेन परीक्रमाक्रान्तदिग्वलयेनै षण्णवति प्रतिपतिमण्डलानि स्वभोगमानिन्ये ।।
३. वन्यो" हस्ती स्फटिकघटिते भित्तिभागे स्वविम्बं दृष्ट्वा दूरात्प्रतिगज इति त्वद्विपां मन्दिरेषु । 10
__हत्वा कोपाद्गलितरदनस्तं पुनर्वीक्ष्यमाणो मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥ ३ *कालिदासाचैर्महाकविभिरित्थं संस्तूयमानश्चिरं प्राज्यं साम्राज्यं बुभुजे।
साम्पतमवसरायातां श्रीकालिदासमहाकवेरुत्पत्तिं संक्षेपतो" ब्रूमः।* २) अवन्त्यां पुरि श्रीविक्रमादित्यराज्ञः सुता प्रियङ्गुमञ्जरी । साऽध्ययनाय वररुचिनाम्नः पण्डितस्य समर्पिता"। सा प्राज्ञतया सर्वाणि शास्त्राणि तत्पार्श्वे कियद्भिर्वा सरैरधीत्य, यौवन-15 भरवर्तमाना" जनकं नित्यमाराधयन्ती, कदाचिद्वसन्तसमये वर्तमाने गवाक्षे सुखासनासीना, मध्यन्दिनप्रस्तावे ललाटन्तपे तपने पथि सश्चरन्तमुपाध्यायमालोक्य वातायनच्छायासु विश्रान्तं तमुवाच । परिपाकपेशलानि सहकारफलानि दर्शयन्ती तं तल्लोलुभमवबुध्य-'अमूनि फलानि शीतलान्युष्णानि वा तुभ्यं रोचन्ते'-इति तद्वचनचातुरीतत्त्वमनवबुध्य 'तान्युष्णान्येवाभिलषामी ति तेनोक्ते "तदुपढौकितवस्त्राञ्चले तिर्यक् तानि मुमोच। भूतलपाताद्रजोऽवगुण्ठि-20
1B राजा। 2P.धर्ममधिरोप्य । 3 AD .रुध्य; Da नास्ति । 4 Da आग्रहान्महेन्द्र०। 5A नास्ति । 6 AD 'अधिकं वा' नास्ति । 7 B नास्ति । 8A 'सन्' नास्ति । 9AD 'वाचम्' नास्ति। 10A नास्ति । 11 P नवतिः । 12 B शतं; Pपा (वा!) शतं। 13 Db भवतीति कथितमिति। 14 B भोज्यादिक; P भोज्यादिकं पाकं। 15 P निषेध्य। 16 D पूर्वरीत्या। 17 AD नास्ति; D स नृपं जगौ। 18 P 'तद्' नास्ति । 19AD नास्ति । 20 D.क्षेप च। 21 B.चिरद्वन्द्व०; P तयोर्द्वन्द्वः। 22 B पृथिवी०। 23 अत्र Db आदर्श-'आदिष्टः सन् अहो अस्य करिघटाविघटनकपंचाननस्य महत्साहसम् । यत्सत्त्वेन किं न जायते । यतः
(२) सत्वैकतानवृत्तीनां प्रतिज्ञातार्थकारिणाम् । प्रभविष्णुर्न देवोऽपि किं पुनः प्राकृतो जनः॥ एवं विमृश्य' एतावानधिकः पाठः । 24 AD अमुनाद्भुतः। 25 AD 'अहं' नास्ति। 26 P तुष्टो। 27 BP 'अस्मि' नास्ति । 28 BP तेन राज्ञा । 29 B परिः। 30P दिक्चक्रेण; De .कान्तमण्डलेन । 31 B स्वभोगतां निन्यिरे। 32 P विज्ञो। 33 AD स्फुटिकः । 34 P चित्रभागे। 35 P हित्वा। 36 P वीक्षः। 37 ADP साहसाङ्क। * एष द्वितारकान्तर्गतः पाठः ADP आदर्शोषु नोपलभ्यते। 38 P कालिदासिभिः कविभिरिस्थं । 39P राज्यं । 40P कालिदासकवेः। 41 B संक्षेपात् । 42 B विक्रमादित्यसुता; P दित्यस्य सुता। 43 BP वेदगर्भनाम्नः। 44 Dd प्रदत्ता। 45 B तस्य। 46 B कियदवासरैः। 47 B यौवनभरे वर्तमाने; P यौवने भरे वर्तमाना। 48 P प्रवर्तः। 49 P सुखासीना। 50 ०च्छायाविश्रान्तं । 51 P तत्र लो। 52 ततः किञ्चिदुपढौ। 53 P भूतलपतितानि रजो० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164