Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 61
________________ प्रबन्धचिन्तामणिः। [द्वितीय: होमः कारितः, तद्रक्षेयं तीर्थभूता, प्रीत्या भवत्कृते प्राभृतीकृताऽस्ति' । इति तेनोक्त दृष्टचेतसा राज्ञा स्वहस्तेन सर्वेषां समर्पिता । तैः सर्वैस्तिलककरणेन वन्दिता । अन्तःपुरे प्रेषिता । ततः स सम्मानितः प्रतिप्राभृतसहितः पश्चादागतः । ज्ञातवृत्तान्तेन श्रीभीमेनापि पूजितः ।। पुनः कौतुकाक्षिप्तचित्तः श्रीभीमः कस्मिन्नवसरे मुद्रामुद्रितलेखं विधाय तद्धस्ते समये, उपदापाणिं तड्डामरं 5 मालवेऽप्रैषीत् । स उपदासहितं लेखं भोजहस्तेऽदात् । यावदुन्मुद्य वाचयति तावद् 'अयं भवता शीघ्रं निपातनीयः' इति पश्यति । ततः सविस्मयेन राज्ञा पृष्टम्-'भो इदं किं लिखितमस्ति ?' । ततः स उत्पातिकामतिः प्राह-'देव ! मजन्मपत्रिकायां समस्ति, यत्रास्य रुधिरं पतिष्यति तत्र द्वादशवर्षप्रमाणो दुर्भिक्षः पतिष्यति' इति ज्ञात्वा श्रीभीमेनाहमत्र प्रेषितः स्वदेशविनाशभीतेन प्रच्छन्नलेखयुक्तः । एवं सति त्वं यथारुचितं कुरु' इति तेनोक्ते राजाह-'नाहमात्मदेशप्रजामनर्थे पातयिष्ये' । ततः सम्मान्य विसर्जितः प्राप्तः स्वदेशे । तबुद्धिकोशलेन 10 पुनश्चमत्कृतः श्रीभीमस्तं बहुमन्यते । ] ५६) अथ श्रीभोजः' श्रीमाघपण्डितस्य विद्वत्तां पुण्यवत्तां च सन्ततमाकर्णयन् , तद्दर्शनोत्सुकतया राजादेशैः सततं प्रेष्यमाणैः श्रीमालनगराद्धिमसमये समानीय सबहुमानं भोजनादिभिः सत्कृत्य तदनु राजोचितान्विनोदान दर्शयन् , रात्रावारात्रिकावसरानन्तरं सन्निहिते वसनिभे पल्पङ्के माघपण्डितं नियोज्य तस्मै खां'शीतरक्षिकामुपनीय प्रियालापांश्चिरं कुर्वाणः सुखं 15 सुखेन सुष्वाप । प्रातर्माङ्गल्यतूर्यनिर्घोषैर्विनिद्रं नृपं स्वस्थानगमनाय माघपण्डित आपृष्टवान् । विस्मयापन हृदयेन राज्ञा दिने भोजनाच्छादनादिसुखं पृष्टः स कदन्नसदन्नवार्ताभिरलं शीतरक्षाभारेण श्रान्तं "खं विज्ञपयन खिद्यमानेन राज्ञा कथं कथञ्चिदनुज्ञातःपुरोपवनं यावद्भूभुजाऽनुगम्यमानः माघपण्डितेन स्वागमनप्रसादेन सम्भावनीयोऽहमिति विज्ञप्य" नृपानुज्ञातः खं पदं भेजे। तदनु कतिपयैर्दिनैः श्रीभोजस्तद्विभवभोगसामग्रीदिदृक्षया श्रीश्रीमालनगरं प्राप्तः । 20 माघपण्डितेन प्रत्युद्गमादियथोचितभक्त्याऽऽवर्जितः ससैन्यस्तन्मन्दुरायां ममौ । खयं तु माघपण्डितस्य सौधमध्यास्य सञ्चारकभुवं काँचबद्धामवलोक्य लानादनु देवतावसरोा मारकतकुहिमे शैवलवल्लरीयुगजलभ्रान्त्या धौतान्तरीयं संवृण्वन् सौवस्तिकेन ज्ञापितवृत्तान्तस्तदैव तद्देवतार्चानन्तरं निवृत्ते मन्त्रावसरेऽशनसमयसमागतां रसवतीमास्वादमानः, अकालिकैरदेशजैर्व्य अनैः फलादिभिश्चित्रीयमाणमानसः, संस्कृतपय शालिशालिनी रसवतीमाकण्ठमुपभुज्य भोज25 नान्ते चन्द्रशालामधिरुह्याश्रुतादृष्टपूर्वकाव्यकथाप्रबन्धप्रेक्ष्यादीनि प्रेक्षमाणः, शिशिरसमयेऽपि सञाताकस्मिकभीष्मोष्मभ्रान्त्या संवीतसितस्वच्छवसनस्तालवृन्तकरैरनुचरैज्यिमानोऽमन्दच. न्दनालेपनेपथ्यः सुखनिद्रया तां क्षणदां क्षणमिवातिवाह्य प्रत्यूषे शनिखनाद्विगतनिद्रो हिमसमये ग्रीष्मावतारव्यतिकरो माघपण्डितेन ज्ञापितः [*प्रतिसमयं सविस्मयः कति दिनान्यवस्थायी स्वदेशगमनायापृच्छने स्वयं कारितनव्यभोजखामिप्रासादप्रदत्तपण्यो मालवमण्डलं प्रति 1 BP .भोजः सततं । 2 Dd कुमुदपण्डितसुतश्रीमाघः। 3D पण्डितविद्वः। 4 P पुण्यवाता। 5 P विहाय सर्वत्र 'सततः। 6 Pa नास्ति । '7 D स्व.। 8 D रक्षा; Pa .रक्षाकरी०। 9 Pb विस्मयापनेन। 10 Pb कदनेनोदरं भृतम्, राम्रो गर्दभवल्लादितं शीत। 11 D शीतभारेण। 12 D नास्ति। 13 D विज्ञप्तो। 14 D काञ्चन। 15 A आरक्तकुट्टि०; D मणिमरकतकुट्टिः। 16 D धौतान्तरीयः। 17 P स्वादयामास। 18 P प्रेक्षणादीनि । 19 D ग्रीष्मभ्रा । 20P.ध्वनिविगतः। * कोष्ठकान्तर्गतः पाठः D पुस्तक एव लभ्यते। 21 P Pa यापृच्छ्यमानः। 22 AD करिष्यमाणः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164