Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रबन्धचिन्तामणिः |
[ चतुर्थः
१८१) श्रीमद्भीमदेवराज्य चिन्ताकारी व्याघ्रपल्ली यसङ्केतप्रसिद्धः श्रीमदानाकनन्दनः श्रीलवणप्रसादश्चिरं राज्यं चकार । तत्सुतः साम्राज्यभारधवलः श्रीवीरधवलः । तन्माता मदनराज्ञी देवराजनाम्नो भगिनीपतेः पट्टकिलस्य भगिन्यां विपन्नायां तस्य बहुतरमनिर्वहमाणमायद्वारं निशम्य तन्निर्वहणाय लवणप्रसादाभिधपतिमापृच्छय शिशुना वीरधवलेन समं तत्र गता सती न 5 स्पृहणीयगुणाकृतिरिति गृहिणी चक्रे । श्रीलवर्णस्तद्वृत्तान्तं सम्यगवगम्य तं व्यापादयितुं निशि
गृहे प्रविष्टः । निभृतीभूय स यावदवसरं निरीक्षते, तावत्स भोजनायोपविशन् 'वीरधवलं विना नानामीति भूयो भूयो व्याहृत्य निर्बन्धात्समानीयैकस्मिन्नेव स्थालेऽनन्नकस्मादापतितशरीरिणं कृतान्तमिव सातङ्कमालोक्य श्यामलास्यो मा भैषीरिति तेनोचे - 'यदहं त्वामेव हन्तुमागतः परमस्मिन्मन्नन्दने वीरधवले वात्सल्यं साक्षाचक्षुषा निरीक्ष्य तदाग्रहान्निवृत्तोऽस्मीत्युक्त्वा ते 10 सत्कृतो यथागतं जगाम ।
१८२) वीरधवलस्यापरपितृकः राष्ट्रकूटान्वयाः साङ्गण- चामुण्डराजादयो वीरव्रतेन' भुवनतलप्रतीताः ।
९८
१८३) अथ स वीरधवलक्षत्रिय उन्मीलित किश्चिचेतनस्तस्मान्मातृवृत्तान्तात्त्रयमाणस्तद्गृहं त्यक्त्वा निजमेव जनकं सिषेवे । स तु आजन्मौदार्यगाम्भीर्यस्थैर्यनयविनयौचित्यदयादानदा15 क्षिण्यादिगुणशाली' शालीनतया कण्टकग्रस्तां कामपि भुवमाक्रम्य पित्रापि कियत्कृतजनपदप्रसादो द्विजन्मना चाहङनाम्ना सचिवेन चिन्त्यमानराज्यभारः प्राग्वाटवंशमुक्तामणिना पुरा श्रीमत्पत्तन वास्तव्येन तत्कालं तत्रायाततेजः पालमन्त्रिणा सह सौहार्दमुत्पेदे ।
10000
[ १०. वस्तुपाल - तेजःपालप्रबन्धः । ]
१८४) अथ प्रकृतमनिणो जन्मप्रबन्धं स्तुमः * - कदाचिच्छ्रीमत्पत्तने भट्टारक श्रीहरिभद्रसू20 रिभिर्व्याख्यानावसरे कुमारदेव्यभिधाना काचिद्विधवातीव रूपवती [बाला' ] मुहुर्मुहुर्निरीक्ष्यमाणा तत्र स्थितस्याशराजमन्त्रिणश्चित्तमाचकर्ष" । तद्विसर्जनानन्तरं मन्त्रिणानुयुक्ता गुरव इष्टदेवतादेशाद्-'अमुष्याः कुक्षौ सूर्याचन्द्रमसोर्भाविनमवतारं पश्यामः । तत्सामुद्रिकानि भूयो भूयो विलोकितवन्तः' इति प्रभोर्विज्ञाततत्त्वः स तामपहृत्य निजां प्रेयसीं कृतवान् । क्रमात्तस्या उदरेऽवतीर्णौ तावेव ज्योतिष्केन्द्राविव" वस्तुपाल तेजःपालाभिधानौ सचिवाव25 भूताम् ।
१८५) अथान्यदा श्रीवीरधवलदेवेन निजव्यापारभारायाभ्यर्थ्यमानः प्राक् खसौधे तं सपari भोजयित्वा श्रीअनुपमा राजपत्ये श्रीजयतलदेव्यै निजं कर्पूरमयताडङ्कयुग्मं कर्पूरमयो मुक्ताफलसुवर्णमयमणिश्रेणिभिरन्तरिताभिर्निष्पन्नमेकावलीहारं प्राभृतीचकार । मत्रिणः
Jain Education International
1P 'मिधमभिकमा ०; B 0 भिभ्रमल्लिकमा ०। 2BP नास्ति 'श्रीलवण:' । 5 D 'मातृ' नास्ति । 6 D सवौदार्य ० । 7 P '० गाम्भीर्यधैर्यादिगुणशाली' इत्येव । तद्वाक्यस्थाने 'मन्त्रिणस्तु जन्मवार्ता चैत्रम्' एतादृशं वाक्यम् । 9 P प्रतावेव एष 11 B • केन्द्रार्थितवस्तु० ।
For Private Personal Use Only
3 AD मातृकाः । 8P • मनुबभूव । शब्दो विद्यते ।
4D वीरजनत्वेन । * P विहाय अन्यBP आततान ।
10
www.jainelibrary.org

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164