Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 136
________________ प्रकाशः] प्रकीर्णकप्रबन्धः। प्रभबिम्बमम्बाक्षेत्रपालाभ्यां सहितमधिष्ठातृबलाद्गगनमार्गेण शिवपत्तनभुवि भूषणीवभूव । रथाधिरूढा अप्रतिमा श्रीवर्द्धमानप्रतिमा चादृष्टवृत्त्याधिष्ठातृबलेन सञ्चरन्ती पथि आश्विनीपूर्णिमास्यां श्रीमालपुरमलंचकार । अन्या अपि सातिशया देवमूर्तयो यथोचितं भूभागमलंचक्रुः। तत्पूर्देवतया च श्रीवर्द्धमानसूरीणां चोत्पातज्ञापनावसरे २४०. का त्वं सुन्दरि जल्प देविसदृशे ! किं कारणं रोदिषि ?, भङ्ग श्रीवलभीपुरस्य भगवन् ! पश्याम्ययं प्रत्ययः । भिक्षायां रुधिरं भविष्यति पयो लब्धं भवत्साधुभिः स्थातव्यं मुनिभिस्तदेव रुधिरं यस्मिन्पयो जायते ॥ एवमुत्पातेषु सञ्जायमानेषु पुरीपरिसरं प्राप्तेषु म्लेच्छसैन्येषु देशभङ्गसमासादितपङ्केन रङ्केन पञ्चशब्दवादकान् कनकवितरणैर्बहुधा विभेद्य तस्य यस्यारोहणकाल एव तैः क्रियमाणे 10 प्रतिशब्दसांराविणे तार्थ्यवदुड्डीय तस्मिंस्ताक्ष्ये दिवमुत्पतति, किंकर्त्तव्यतामूढः स शिलादित्यस्तैर्निजन्ने । तदनु तैलीलयैव वलभीभङ्गः सूत्रितः। २४१. पणसयरीवाससयं तिन्निसयाई अइक्कमेऊण । विक्कमकालाउ तओ वलहीभङ्गो समुप्पन्नो ॥ ॥ इति श्रीशिलादित्यराज्ञ उत्पत्तिस्तथा रङ्कोत्पत्तिस्तत्कृतो वलभीभङ्गश्चेति प्रबन्धत्रयम् ॥ २०४) अथ श्रीरत्नमालनगरे श्रीरत्नशेखरो नाम राजा । स कदाचिदिग्यात्राप्रत्यावृत्तः पुरप्र-15 वेशमहोत्सवे विपणिश्रेणिं शृङ्गारितां मृगयमाणः कस्मिन्नपि हवे काष्ठपात्रीयुतं कुद्दालमालोक्य सौधप्रवेशानन्तरं प्राभृतपाणौ महाजने समायाते 'सुखिनो यूयम् ?' इति नृपालापानन्तरं तैः 'न सुखिनो वयमिति विज्ञप्ते विभ्रमभ्रान्तचित्तस्तान् विसृज्य कस्मिन्नपि नियंञ्जनावसरे पुरप्रधानानाहय 'किं न सुखिनो यूयम् ?' इति पृष्टाः ।अपि च काष्ठपात्रीयुतकुद्दालस्योर्वीकरणकारणमनुयुक्तास्ते इति विज्ञपयामासुः-'यत्र खामिना काष्ठपात्र्यादिकमवधारितं,"स वित्तेश्वरः स्ववित्त-20 संख्यामजानन् काष्ठपात्रिकयैव" खवित्तसङ्कलनां ज्ञापयितुं सङ्केतं चक्रे तथा च न सुखिनो वयमिति स्वामिनः सन्तानाभावात् । कोटीध्वजकुलाकुलं नगरमिदं स्वामिना चिरकाललालितमन्वयाभावात्केन परां कोटी नीयत ?' इति पुरातनस्यान्तःपुरस्य वन्ध्यात्वं बुद्ध्या निधाय नृपवंशवृद्धये नौतनमन्तःपुरं चिकीर्षवः स्वामिनोऽनुमत्या पुष्यार्कदिने" केनापि प्रधानशाकुनिकेन समं शकुनागारं प्राप्ताः । कामपि दुर्गतनितम्बिनीमासन्नप्रसवां काष्ठभारवाहनैकवृत्तिं शिरोधिरूढदु-25 र्गामालोक्य शकुनवित् तामक्षतादिभिरभ्यर्चयन् , तैः किमेतदिति पृष्टः प्राह-'यः कश्चिदस्या आधाने पुत्रः स एवात्र नृपो भावी, चेबृहस्पतिमतंप्रमाणमि'त्यसम्भाव्यं वृत्तान्तममुममन्यमानाः मानोन्नताय" नृपाय व्याघुट्य यथावस्थितं तत्स्वरूपं निवेदितवन्तः । अथ खेदमेदुरमना नृप आप्तपुरुषैस्तां ग पूरीका प्रारभ्यमाणामिष्टं दैवतं स्मरेत्यभिहिते सा मरणभयव्याकुला प्रदोषकाले यावत्ताननुज्ञाप्य शङ्काभङ्गं कुरुते तावत्सा प्रसूतं पुत्रं तत्र परित्यज्य पुनरुपागता गर्ता-30 1D नास्ति। 2 P वीरप्रतिमा। 3P भूमिः। 4 AD म्यहं । 5 D प्रत्ययं । 6 D भवेत् । 7 P तुरगस्य । 8P'वाससय स्थाने 'वासाई'; तथा 'तिण्णिसयाई तिष्णिसयाई' इति द्वित्वम् । * अस्याः पंक्याः स्थाने P आदर्श ॥ इति शिलादित्यप्रबन्धः ॥' एतावत्येव पंक्तिः। 9 D 'चित्त' नास्ति । 10 D तावद् । 11 D निर्जना। 12 D पृष्टे। 13 D पाच्यामेकमेवमवधारित। 14 DOपात्रिकैः। 15 P वासरे। 16 P मानोन्नतये नृपतये। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164