________________
प्रकाशः]
प्रकीर्णकप्रबन्धः। प्रभबिम्बमम्बाक्षेत्रपालाभ्यां सहितमधिष्ठातृबलाद्गगनमार्गेण शिवपत्तनभुवि भूषणीवभूव । रथाधिरूढा अप्रतिमा श्रीवर्द्धमानप्रतिमा चादृष्टवृत्त्याधिष्ठातृबलेन सञ्चरन्ती पथि आश्विनीपूर्णिमास्यां श्रीमालपुरमलंचकार । अन्या अपि सातिशया देवमूर्तयो यथोचितं भूभागमलंचक्रुः। तत्पूर्देवतया च श्रीवर्द्धमानसूरीणां चोत्पातज्ञापनावसरे
२४०. का त्वं सुन्दरि जल्प देविसदृशे ! किं कारणं रोदिषि ?,
भङ्ग श्रीवलभीपुरस्य भगवन् ! पश्याम्ययं प्रत्ययः । भिक्षायां रुधिरं भविष्यति पयो लब्धं भवत्साधुभिः
स्थातव्यं मुनिभिस्तदेव रुधिरं यस्मिन्पयो जायते ॥ एवमुत्पातेषु सञ्जायमानेषु पुरीपरिसरं प्राप्तेषु म्लेच्छसैन्येषु देशभङ्गसमासादितपङ्केन रङ्केन पञ्चशब्दवादकान् कनकवितरणैर्बहुधा विभेद्य तस्य यस्यारोहणकाल एव तैः क्रियमाणे 10 प्रतिशब्दसांराविणे तार्थ्यवदुड्डीय तस्मिंस्ताक्ष्ये दिवमुत्पतति, किंकर्त्तव्यतामूढः स शिलादित्यस्तैर्निजन्ने । तदनु तैलीलयैव वलभीभङ्गः सूत्रितः।
२४१. पणसयरीवाससयं तिन्निसयाई अइक्कमेऊण । विक्कमकालाउ तओ वलहीभङ्गो समुप्पन्नो ॥ ॥ इति श्रीशिलादित्यराज्ञ उत्पत्तिस्तथा रङ्कोत्पत्तिस्तत्कृतो वलभीभङ्गश्चेति प्रबन्धत्रयम् ॥
२०४) अथ श्रीरत्नमालनगरे श्रीरत्नशेखरो नाम राजा । स कदाचिदिग्यात्राप्रत्यावृत्तः पुरप्र-15 वेशमहोत्सवे विपणिश्रेणिं शृङ्गारितां मृगयमाणः कस्मिन्नपि हवे काष्ठपात्रीयुतं कुद्दालमालोक्य सौधप्रवेशानन्तरं प्राभृतपाणौ महाजने समायाते 'सुखिनो यूयम् ?' इति नृपालापानन्तरं तैः 'न सुखिनो वयमिति विज्ञप्ते विभ्रमभ्रान्तचित्तस्तान् विसृज्य कस्मिन्नपि नियंञ्जनावसरे पुरप्रधानानाहय 'किं न सुखिनो यूयम् ?' इति पृष्टाः ।अपि च काष्ठपात्रीयुतकुद्दालस्योर्वीकरणकारणमनुयुक्तास्ते इति विज्ञपयामासुः-'यत्र खामिना काष्ठपात्र्यादिकमवधारितं,"स वित्तेश्वरः स्ववित्त-20 संख्यामजानन् काष्ठपात्रिकयैव" खवित्तसङ्कलनां ज्ञापयितुं सङ्केतं चक्रे तथा च न सुखिनो वयमिति स्वामिनः सन्तानाभावात् । कोटीध्वजकुलाकुलं नगरमिदं स्वामिना चिरकाललालितमन्वयाभावात्केन परां कोटी नीयत ?' इति पुरातनस्यान्तःपुरस्य वन्ध्यात्वं बुद्ध्या निधाय नृपवंशवृद्धये नौतनमन्तःपुरं चिकीर्षवः स्वामिनोऽनुमत्या पुष्यार्कदिने" केनापि प्रधानशाकुनिकेन समं शकुनागारं प्राप्ताः । कामपि दुर्गतनितम्बिनीमासन्नप्रसवां काष्ठभारवाहनैकवृत्तिं शिरोधिरूढदु-25 र्गामालोक्य शकुनवित् तामक्षतादिभिरभ्यर्चयन् , तैः किमेतदिति पृष्टः प्राह-'यः कश्चिदस्या आधाने पुत्रः स एवात्र नृपो भावी, चेबृहस्पतिमतंप्रमाणमि'त्यसम्भाव्यं वृत्तान्तममुममन्यमानाः मानोन्नताय" नृपाय व्याघुट्य यथावस्थितं तत्स्वरूपं निवेदितवन्तः । अथ खेदमेदुरमना नृप आप्तपुरुषैस्तां ग पूरीका प्रारभ्यमाणामिष्टं दैवतं स्मरेत्यभिहिते सा मरणभयव्याकुला प्रदोषकाले यावत्ताननुज्ञाप्य शङ्काभङ्गं कुरुते तावत्सा प्रसूतं पुत्रं तत्र परित्यज्य पुनरुपागता गर्ता-30
1D नास्ति। 2 P वीरप्रतिमा। 3P भूमिः। 4 AD म्यहं । 5 D प्रत्ययं । 6 D भवेत् । 7 P तुरगस्य । 8P'वाससय स्थाने 'वासाई'; तथा 'तिण्णिसयाई तिष्णिसयाई' इति द्वित्वम् । * अस्याः पंक्याः स्थाने P आदर्श ॥ इति शिलादित्यप्रबन्धः ॥' एतावत्येव पंक्तिः। 9 D 'चित्त' नास्ति । 10 D तावद् । 11 D निर्जना। 12 D पृष्टे। 13 D पाच्यामेकमेवमवधारित। 14 DOपात्रिकैः। 15 P वासरे। 16 P मानोन्नतये नृपतये।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org