Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
ग्रन्थकारस्य प्रशस्तिः।
दुःपापेषु' बहुश्रुतेषु गुणवद्वृद्धेषु च प्रायशः __ शिष्याणां प्रतिभाभियोगविगमादुच्चैः श्रुते सीदति । प्राज्ञानामथ भाविनामुपकृतिं कर्तुं परामिच्छता
ग्रन्थः सत्पुरुषप्रबन्धघटनाचक्रे सुधासत्रवत् ॥१॥ प्रबन्धानां चिन्तामणिरयमुपात्तः करतले
स्यमन्तस्य भ्रान्ति रचयति चिरायोपनिहितः। हृदि न्यस्तः शस्तां सृजति विमलां कौस्तुभकलां
तदेतस्माद् ग्रन्थाद्भवति विबुधः श्रीपतिरिव ॥२॥ यथाश्रुतं सङ्कलितः प्रबन्धैर्ग्रन्थों मया मन्दधियापि यत्नात् । मात्सर्यमुत्साय सुधीभिरेष प्रज्ञोधुरैरुन्नतिमेव नेयः ॥ ३॥ यावदिवि कितवाविव रविशशिनौ क्रीडतो ग्रहकपर्दैः । ग्रन्थस्तावन्नन्दतु सूरिभिरुपदिश्यमानोऽयम् ॥४॥ त्रयोदशखब्दशतेषु चैकषष्ट्यधिकेषु क्रमतो गतेषु । वैशाखमासस्य च पूर्णिमायां ग्रन्थः समाप्तिं गमितो मितोऽयम् * ॥५॥
15
नृपश्रीविक्रमकालातीत' संवत् १३६१ वर्षे वैशाखसुदि. १५ रवावयेह श्रीवर्द्धमानपुरे
प्रबन्धचिन्तामणिग्रन्था समर्थितः।
॥ समाप्तोऽयं प्रबन्धचिन्तामणिग्रन्थः ॥
1P दुःप्रायेषु। 2 P प्रबन्धग्रन्थो। 3 P उत्सृज्य ।
* D पुस्तके एतत्पद्यं टिप्पणीस्थाने उद्धृतं प्राप्यते, परं APDa. आदर्श मूलग्रन्थ एव समुपलभ्यते। + एतत्पदं P प्रतौ नास्ति । AD 'वैशाख' स्थाने 'फाल्गुण' शब्दो विद्यते स भ्रान्तिमूलक एव ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164