SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकारस्य प्रशस्तिः। दुःपापेषु' बहुश्रुतेषु गुणवद्वृद्धेषु च प्रायशः __ शिष्याणां प्रतिभाभियोगविगमादुच्चैः श्रुते सीदति । प्राज्ञानामथ भाविनामुपकृतिं कर्तुं परामिच्छता ग्रन्थः सत्पुरुषप्रबन्धघटनाचक्रे सुधासत्रवत् ॥१॥ प्रबन्धानां चिन्तामणिरयमुपात्तः करतले स्यमन्तस्य भ्रान्ति रचयति चिरायोपनिहितः। हृदि न्यस्तः शस्तां सृजति विमलां कौस्तुभकलां तदेतस्माद् ग्रन्थाद्भवति विबुधः श्रीपतिरिव ॥२॥ यथाश्रुतं सङ्कलितः प्रबन्धैर्ग्रन्थों मया मन्दधियापि यत्नात् । मात्सर्यमुत्साय सुधीभिरेष प्रज्ञोधुरैरुन्नतिमेव नेयः ॥ ३॥ यावदिवि कितवाविव रविशशिनौ क्रीडतो ग्रहकपर्दैः । ग्रन्थस्तावन्नन्दतु सूरिभिरुपदिश्यमानोऽयम् ॥४॥ त्रयोदशखब्दशतेषु चैकषष्ट्यधिकेषु क्रमतो गतेषु । वैशाखमासस्य च पूर्णिमायां ग्रन्थः समाप्तिं गमितो मितोऽयम् * ॥५॥ 15 नृपश्रीविक्रमकालातीत' संवत् १३६१ वर्षे वैशाखसुदि. १५ रवावयेह श्रीवर्द्धमानपुरे प्रबन्धचिन्तामणिग्रन्था समर्थितः। ॥ समाप्तोऽयं प्रबन्धचिन्तामणिग्रन्थः ॥ 1P दुःप्रायेषु। 2 P प्रबन्धग्रन्थो। 3 P उत्सृज्य । * D पुस्तके एतत्पद्यं टिप्पणीस्थाने उद्धृतं प्राप्यते, परं APDa. आदर्श मूलग्रन्थ एव समुपलभ्यते। + एतत्पदं P प्रतौ नास्ति । AD 'वैशाख' स्थाने 'फाल्गुण' शब्दो विद्यते स भ्रान्तिमूलक एव । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002519
Book TitlePrabandha Chintamani
Original Sutra AuthorMerutungacharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy