________________
परिशिष्टम्कुमारपालस्य अहिंसाया विवाहसम्बन्धप्रबन्धः ।
नाभून्न भविता श्रीमद्धेमसरिसमो गुरुः । श्रीमान् कुमारपालश्च जिनभक्तो महीपतिः॥१॥ अथ चौलुक्यचक्रवर्तिनः प्रभुप्रतिबोधान्मारिनिवारणप्रबन्धश्चैवम्-कस्मिन्नप्यवसरेऽणहिल्ल5 पुरे श्रीकुमारपालदेवनामा नृपो वाहकेल्यां व्रजन सौन्दर्यनिर्जितसुरसुन्दरी बालेन्दुवदनां सदाचरणप्रसरणशीलामपि मन्दचरणप्रचारां मुनिभिः समं क्रीडां कलयन्ती सुकोमलवचाप्रपञ्चचमत्कारितत्रिजगज्जनां सस्मितमधुराकृति कामप्येकां बालिकां वीक्ष्य तद्रूपापहृतचित्तः सन्निहितप्रसादचित्तं 'केयमि'त्यादिशंस्तेनेति विज्ञपयांचवे-'अपारश्रुताकूपारपारदृश्वतया सात
कलिकालसर्वज्ञप्रसिद्धीदशभेदभिन्नतपस्समाराधनवशंवशीकृताष्टमहासिद्धेनिःशेषभूपालमौ10 लिमणिचुम्बितपादपीठस्य भगवतः श्रीहेमचन्द्रमहर्षेराश्रमवासिनी अहिंसानाम्नी कनीयम् । *अस्या याथातथ्यानुरूपनिरूपणविधौ न प्रगणन्ते स्मृतिपुराणवचांसि भूयांसि । किन्तु सकलजन्तुजातजनकायितश्रीजिननायकोपदिष्टस्पष्टसिद्धान्तोपनिषदावासितहृदा केनापि मुनिपुङ्गवेन प्ररूपिताऽस्याः स्थितिरीतिः, नान्येनेति वाचमाकर्ण्य खसौधमध्यास्त नृपतिः। परं तस्याः
खरूपावबोधाय तथाङ्गीकाराय च परमरसिको भाग्यसौभाग्यादि तदङ्गीकारेण कृतार्थ कर्तुकामो 15 विवेकनाम्ना मित्रप्रवरेण आदिष्टवर्मना तेषामेव मुनीनां आश्रममासाद्य तत्पुरः क्रीडता सदाचारनाम्ना तद्भात्रा प्रख्याततदागमप्रवृत्तीन् समचित्तवृत्तीन् तान् श्रीहेमचन्द्रसूरिमहर्षीन् सहर्ष सभक्तियुक्तिकं क्षितितलमिलन्मौलिरानम्य तस्याः स्वरूपं पप्रच्छ । तैरथोचे-'शृणु नृपपुङ्गव !* त्रिजगदेकसार्वभौमस्य श्रीमदर्हद्धर्माधिपस्यानुकम्पामहादेव्याः कुक्षिसरसीराजहंसी निःसीमसौन्दर्या अहिंसाभिधेयं कनी। यस्मिल्लग्ने सुतेयमजनि तल्लग्नग्रहबलं तत्पित्रा सर्वविदा 20 एवमादिष्टम्-यद्यिमतीव पुण्यवती सुदतीशिरोमणिर्दुहिता । पुत्रजन्मोत्सवादप्यस्या जन्म श्लाघ्यम् । यत:
श्रियाऽम्भोधिं विधिं वाचां देव्या व्यालोक्य विश्रुतौ । दुष्पुत्रदुःखान्नार्केन्दू तापमकं च मुञ्चतः॥२॥ अतः क्रमाद् वर्द्धमाना कन्याऽसौ अनुरूपवराप्राप्त्या वृद्धकुमारी भूत्वा केनाप्यनुरूपेण महीमहेन्द्रेण सोपरोधमूढा सती सतीमतल्लिका तमुवोढारं च खं च जनकं च परामुन्नतेः कोटिं नेष्य25 तीति। स चोद्वोढा लीलयैव महामोहमहीपं जित्वा परमानन्दभाजनं भवितेति' श्रुत्वा नृपोऽवादीत् -'प्रभो! अधुनाहद्धर्मपुत्री श्रीयुष्मचरणकमलमुपासती श्रीयुष्मद्वचसैव परिणेतुं शक्येत नान्येन। ततः प्रसीदन्तु पूज्यपादाः, विषीदन्तु विषादाः, प्रवर्ततां महामोहजयः, प्रामोमि परमानन्दमिति वचःपर्यन्ते गुरुराह-'इयं वृद्धकुमारी । दुःपूरस्तस्याः सङ्गरः । तं सङ्गरं तस्या एव पार्था
एतदन्तर्गतः पाठः A आदर्श नास्ति । 1 'एकां' नास्ति P। 2 P सन्निहितं सदाचारनामानं तद्रातरमिव । * एतद्वितारकान्तर्गतं वर्णनं A आदर्श नास्ति । तत्रैतत्स्थाने 'इति निशम्य नृपः कदाचित् तान् महर्षीन् मोदभाक् सभक्तिकं सौधमाकार्य तद्वृत्तान्तं पृच्छंस्तैरूचे-' इत्येवंरूपा संक्षिप्ता पंक्तिः।
एतदन्तर्गतं वर्णनं A आदर्श नास्ति । तत्र तु अस्य स्थाने 'तद्वाक्यपर्यन्ते तदर्थे तामनुकूल्य तस्याः सविधे सुबुद्धिनाम्नी दूर्ती प्राहिणोत् ।' एतावती संक्षिप्ता पंक्तिर्विद्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org