________________
10
कुमारपालस्याहिंसाया विवाहसम्बन्धप्रबन्धः ।
१२७ छुत्वा परिणेया नान्यथा' इति पीयूषकल्पां वाचमाकर्ण्य तस्याः सविधे सुबुद्धिनामदूतीं अनुकूल्य प्राहिणोत् । सा तांसप्रश्रयं प्रणिपत्य व्यजिज्ञपत्-'खामिनि राजकन्ये! धन्यतमासि; यत्त्वामष्टादशदेशसम्राट् समस्तसामन्तसीमन्तमणिमयूषमालालङ्कृतचरणकमलयुगलश्चौलुक्यचक्रवर्तीश उद्वोढुमभिलषति ।' इति तद्वचसा मुखमोटनया नाटयन्ती सोपहासोल्लासं सैवं प्राह"सखि ! अलं नरकान्तप्राज्यसाम्राज्यप्राप्तिलोभनवार्ताविस्तरेण । परमनुकूलमेव दयितं समीहे । 5 पुरुषा हि परुषाशया नानाविधानुरागवन्तः, तैः किं क्रियेत । यतः. अनूढा[पि]वरं कन्या रूपयौवनवत्यपि । निष्कलेनानुकूलेन न कुपत्या विडम्बिता ॥३॥
परं शृणु,निष्किञ्चनेन दयितेन' विवाहितानां यद् योषितां सुखपदं न तदीश्वरेण ।
भागीरथीं वहति यां शिरसा गिरीशो लक्ष्मीपतिः स्पृशति नैव पुनः पदापि ॥ ४॥ तथा वृथा जानीहि मवरणाभिलाषम् , दुःपूरा मे प्रतिज्ञा महीमहेन्द्रेणापि ।' इत्युक्तवतीं युवतीं सा प्राह-'सखि ! भवत्या अहं प्रियसखी अनुपलपनकर्तव्याऽस्मि, तद् ब्रूहि स्वाभिमतमिति । अहं तथा सुबुद्धिर्नाम यथा पूरयामि ते प्रतिज्ञां तेन कुमारपालेन भूपालेने ति उक्ता सा प्रोवाच
सत्यवाक् परलक्ष्मीमुक् सर्वभूताभयप्रदः । सदा खदारसन्तुष्टस्तुष्टो मे स पतिर्भवेत् ॥५॥ 15 *[स]दूरं दुर्गतेबन्धून् दूतान् सप्तपौरुषान् । निर्वासयति यश्चित्तात्स शिष्टो मे पतिर्भवेत् ॥ ६॥
मत्सोदरं सदाचार संस्थाप्य हृदयासने । तदेकचित्तः सेवेत स कृती मे पतिर्भवेत् ॥ ७ ॥ इति तद्वाचमाकर्ण्य सकर्णा सा व्यजिज्ञपत्-'शृणु सुलोचने! तदाहं यथार्थनामा, यदा ते प्रतिज्ञा श्रीहेमसूरीन् पुरस्कृत्य समग्रजनसमक्षं तव प्रतिज्ञातानर्थान् समर्थ्य त्वां परिणयति, तदा मां विदग्धां खसखीं मन्येथा, अन्यथा न तृणायेति।' इत्युक्त्वा नृपसंसदि तस्या दुःपूरं सगरमचक-20 थत् । सोऽपि तदवज्ञाकुकूलानभेन (2) सन्तप्तखान्तः परामरतिं बिभ्राणः, तयैव सुबुद्ध्याभिदधे'हे श्रीनिधे ! विधेहि धीरताम् , किं दुष्करं पौरुषाधिष्ठितानाम् । तथा वास्ति निरपायश्यायः(?)। अनुसर्यते हेमचन्द्रमहर्षिः, श्रूयन्ते तद्वचांसि।' इति तथा प्रेरितो विनयदत्तहस्तावलम्बो ययौ उपसूरिम्, ननाम तत्पदाम्बुजान्, पप्रच्छ तत्कनीसङ्गरवृत्तान्तम् । 'वत्स! पूरय तस्याः समीहितं चेत्तस्याः परिणिनीषाऽस्ति । निःसीमोन्नतये परिणेतारं भोस्यते (?) एषा । यतः- 25
१-२ तथा ३-४ अङ्कान्तर्गतं वर्णनं A आदर्श न विद्यते। 1 P कान्तेन तेन च किं च ।
* एतत्तारकान्तर्गतवर्णनस्थाने A आदर्श निम्नावतारितं संक्षिप्तमेव वर्णनं प्राप्यते । यथा-'इति तस्याः प्रतिश्रवं दुःश्रवमाकर्ण्य सा विफलवैदग्ध्यमानिनी खं पदमुपगता स्वामिनं सर्वथा निराशमकरोत् । तद्नु तं नृपं तद्वियोगाग्निमग्नमाकलय्य श्रीहेमचन्द्रमहर्षिस्तमिति प्रतिबोधितवान्-यः कन्याया इतरलोकदुष्करः संगरः स तवाप्युभयलोकहितस्तदनुकूलनाहेतुश्च । अतस्तमपि निर्मायतया निर्माय स्वनिःसीमोन्नतये सा सर्वथा परिणेतुमुचितैव । यतः
.. धन्यां सतीमुत्तमवंशजातां लब्ध्वाधिक याति न कः प्रतिष्ठाम् ।
क्षीरोदकन्यां गिरिराजपुत्री गोपस्तथोग्रश्च यथाधिगम्य ॥ इति तेन महर्षिणा प्रतिबोध्य तानशेषानमिग्रहान् ग्राहयित्वा तस्याः सम्प्रदानं चक्रे । अथ सं० १२१६ मार्ग सुदि २ द्वितीयलग्ने बलवति संवेगमतङ्गजारूढो रत्नत्रयवस्त्रालङ्कृतो दक्षिणपाणिबद्धदानकङ्कणः सम्यक्त्वानुचरेण समं श्रद्धासहोदरया क्रियमाणलवणावतारणो गुरुभक्तिदेशविरति-जानणीभ्यां दीयमानधवलमङ्गलः पौषधवेश्मद्वारि अनुकम्पया कन्याजनन्या कृतप्रोङ्क्षणः श्रीमन्महादेवस्थाहतः साक्षि स नृपतिरहिंसायाः पाणिं जग्राह ।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org