________________
१२४
प्रबन्धचिन्तामणिः ।
[ पश्चमः तिदूरवर्तिनि कापि ग्रामे कृतवसतिनगरयातायातेन सुतोपात्ताजीविकः कियन्तमपि कालमतिवाहितवान् । अथान्यस्मिन्नवसरे सन्निहिते चतुर्मासकपर्वणि तत्र यायिभिः सुतैः समं स धनदः शङ्खपुरं प्राप्य निजप्रासादसोपानमधिरोहन , निजारामपुष्पलाविकयोपायनीकृतपुष्पचतुःसरिकः परमानन्दनिर्भरस्ताभिर्जिनेन्द्रमभ्यर्च्य, निशि गुरूणां पुरः खं दौस्थ्यममन्दं निन्दन्, तैः प्रद5त्तकपर्दियक्षाकृष्टिमन्त्रोऽन्यदा कृष्णचतुर्दशीनिशीथे तमेव मन्त्रमाराधयन् , प्रत्यक्षीकृतात् कपदियक्षात् गुरूपदेशतश्चतुर्मासकावसरे पुष्पचतुःसरिकपूजापुण्यफलं देहीति प्रार्थयन् , तेन 'एकस्यापि पूजाकुसुमस्य पुण्यफलं सर्वज्ञेन विना नाहं वितरीतुं प्रभूष्णुरि ति; किं तु कपर्दियक्षस्तस्य साधर्मिकस्यातुल्यवात्सल्यसम्बन्धे तद्धानि चतुर्ष कोणेषु सुवर्णपूर्णान् चतुरः कलशान निधी
कृत्य तिरोदधे । स प्रातः स्वसद्मनि समागतः धर्मनिन्दापराणां नन्दनानां तद्रव्यं समर्पया10 मास । तेऽपि निबन्धात् पितुः पार्श्वे तद्विभवलाभहेतुं पृच्छन्तस्तेषां हृदि धर्मप्रभावाविर्भावाय जिनपूजाप्रभावतः परितुष्टेन कपर्दियक्षेण प्रसादीकृतां तां संपदं निवेदयामास । तेऽपि सम्पन्नसम्पत्तयस्तदेव जन्मनगरं समाश्रित्य निजधर्मस्थानसमारचनपरा जिनशासनप्रभावनां विविधां कुर्वन्तो वैधर्मिकाणामपि मनस्सु जिनधर्म निश्चलीचक्रुः।
॥ इति श्रीजिनपूजायां धनदप्रबन्धः ॥
15
॥ इति श्रीमेरुतुजाचार्यविरचिते' प्रबन्धचिन्तामणौ विक्रमादित्योदितपात्रविवेचनप्रमुखं जिनपूजायां'
धनदप्रबन्धपर्यन्तवर्णनो नाम प्रकीर्णकाभिधानः पञ्चमः प्रकाशः समर्थितः ॥
'असिन्प्रकाशे ग्रन्थसंख्या ७७४ । समस्तग्रन्थे प्रतिश्लोकं ग्रन्थाग्रं ३१५० ॥
- 1D नास्ति। 2 P अतुच्छ०। 3 D धर्मदान। 4 AD वीतराग०। 5 P.चार्याविःकृते । 6P प्रभृति तथा । 7 A अहंदर्चायां। 8 P नास्ति । + P प्रतावेवेयं पंक्तिदृष्टा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org