________________
प्रकाशः] प्रकीर्णकप्रबन्धः।
१२३ त्यातिशयवल्लभतया प्रोत्साहितसाहसा विपद्य ते पश्च पुत्राः पञ्चापि क्षेत्रपतयो बभूवुः । तेषां क्रमेण नामानि-कालमेघः१, मेघनादः २, भैरवः ३, एकपदः ४, त्रैलोक्यपादः ५-इति बभूवुः। तीर्थप्रत्यनीकं पश्चतां नयन्तस्ते पश्चापि गिरेः परितो विजयन्ते स्म ।
२२७) अथ तत्पिता धाराभिधान एक एवावशिष्टः कन्यकुब्जदेशे गत्वा श्रीबप्पभटिसूरीणां व्याख्याक्षणप्रक्रमे श्रीसङ्घस्याज्ञां दत्तवान्-'यदैवतकतीर्थ दिगम्बराः कृतवसतयः सिताम्बरान् 5 पाषण्डिरूपान् परिकल्प्य पर्वतेऽधिरोढुं न ददति; अतस्तान् निर्जित्य तीर्थोद्धारं कृत्वा निजदर्शनप्रतिष्ठापरैर्व्याख्याक्षणो विधेय' इति तद्वचनेन्धनप्रोज्वलितप्रतिघंप्रज्वलनादामनृपति सहादाय तेन समं तां भूधरधरामवाप्य सप्तभिर्दिनैर्वादस्थलेन दिगम्बरान् पराजित्य श्रीसङ्घसमक्षं श्रीअम्बिकां प्रत्यक्षीकृत्य 'इक्कोवि नमुक्कारे०' 'उजिन्तसेलसिंहरे०' इति तदुक्तां गाथामाकर्ण्य सिताम्बरदर्शने स्थापिते सति पराभूता दिग्वसना बलानकमण्डपात् झम्पापातं वितेनुः। 10
॥ इति क्षेत्राधिपोत्पत्तिप्रबन्धः॥ २२८) अथ कदाचिद्भवान्या भव इति पृष्टः-'यत्त्वं कियतां कार्पटिकानां राज्यं ददासि?' इति तद्वाक्यादनु 'यो लक्षसङ्ख्यानामपि एक एव वासनापरस्तस्यैव राज्यमहं वितरामी'ति प्रत्ययदर्शनाय गौरी पङ्कमग्नां जरती गवीं विधाय खयं नररूपेण तटस्थः पङ्कात्तामुद्धत्तुं पान्थानाकारयन् तैरासन्नसोमेश्वरदर्शनोत्कैरुपहस्यमानः कृपावता केनापि पथिकवृन्देन तस्यामुद्धामारब्धायां 15 सिंहरूपेण शिव एव तान् त्रासयन् कश्चिदेक' एव पथिको मृत्युमप्यादृत्य तस्या गोः समीपं नौज्झत् । स एव राज्याई इति पृथक् कृत्य गौर्या दर्शितः।
॥ इति वासनाप्रबन्धः॥ २२९) अथ कश्चित्कार्पटिकः सोमेश्वरयात्रायां व्रजन् पथि लोहकारौकसि प्रसुप्तः । तस्य लोहकारभार्या पतिं निहत्य कृपाणिकां कार्पटिकशीर्षे निदधती बुम्बारवमकरोत् । आरक्षकेण 20 तत्रागत्य तस्यापराधिनः करौ छिन्नौ । स सदैव देवस्योपालम्भनपरः निशि प्रत्यक्षीभूयेत्युक्तः'शृणु, त्वं खं प्राग्भवम्"-कदाचिदजा" केनापि एकेन सोदरेण पाणिभ्यां श्रवणयोधूता, तदपरेण मारिता । ततः सा अजा मृत्वा इयं योषिदजनि । येन व्यापादिता स साम्प्रतं पतिरभूत् । यत्त्वया को विधृतौ तदा तव समागमे जाते सति करौ छिन्नौ । तत्कथं ममोपालम्भः ।
॥ इति कृपाणिकाप्रबन्धः॥ २३०) पुरा शङ्खपुरनगरे श्रीशङ्खो नाम नृपतिस्तत्र नामकर्मभ्यां धनदः श्रेष्ठी। स कदाचित्करिकर्णतालतरलां कमलां विमृश्योपायनपाणिर्नृपोपान्तमुपेत्य तं परितोष्य च तत्प्रसादीकृतायां भुवि चतुर्भिनन्दनैः सह समालोच्य सुलग्ने जिनप्रासादमचीकरत् । तत्र प्रतिष्ठितबिम्बानां स्थापनां विधाय, तस्य प्रासादस्य समारचनाय बहून्यायद्वाराणि रचयन् , तत्सपर्यापर्याकुलतया नानाविधकुसुमवृक्षावलीसमलङ्कृतमभिराममारामंच निर्माप्य, तचिन्तकेषु गोष्ठिकेषु नियुक्तेषु, 30 उदिते प्राक्तनान्तरायकर्मणि क्रमात् संहियमाणसम्पदधमणेतया तत्र मानम्लानिमाकलय्यान....... 1P इत्यादयः ।...2 D. पर्वताधिरूढान्नेच्छन्ति ।-3 'प्रतिघ-' स्थाने D. 'प्रतीप-।- 4 P-आसाय -5 D इत्यादि। 6 D पान्थांस्तामुद्धर्तुमाकारयन् । 7 P कोऽप्येक। 8 P कारगृहे। 9 P सांराविणं । 10 D नास्ति। 11 D त्वया प्राग्भवे। 12 A कदाप्यजा। 13 P नास्ति। 14 D नास्ति।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org