Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
१०४ प्रबन्धचिन्तामणिः।
[ चतुर्थः नासो मन्त्रिणमभिहितवान्-'हे मनिन् ! इत्थं सदैवाभिमतदैवतवत् किममी न सक्रियन्ते । तव चेदशक्तिस्तदर्द्धविभागो ममास्तु । मामकमेव सर्वं वा दीयतां सदैवेत्यतः कारणान्नोच्यते। तथा कृते भवतो वृथायास एव स्यादिति तन्मुखचन्द्रविनिर्गतैर्गोभिर्निर्वाणोपतापः'स्वामिनः कियानविभागः, सर्वमेव भवदीयमेवे'त्युक्त्वा पटी न्युञ्छनीचक्रे । 5 १९३) अन्यदा यतिदानावसरे मियो मुनिजनसम्मत् श्रीमदनुपमायाः प्रणमत्याः प्राज्या
ज्यपूर्ण घृतपानं पृष्ठे पतितमालोक्य कुपितं तेजःपालमत्रिणमिति सान्त्वितवती 'यत्तव स्वामिनः प्रासादान्मुनिजनपुण्यपात्रपतितैराज्यैरङ्गेऽभ्यङ्गो भवतीति तत्पूर्णदान विधिचमत्कृतो मश्री पञ्चाङ्गप्रसादपूर्वम्
२२९. दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥ 10 इति युक्तोक्तिपूर्वं च तां मन्त्री प्रशशंस । इत्यनेकधा दानावदातनिकषरेखां प्राप्तां२३०. लक्ष्मीश्चला शिवा चण्डी शची सापत्यदूषिता । गङ्गा न्यग्गामिनी वाणी वाक्साराऽनुपमा ततः॥
इत्यादिभिः स्तुतिभिजैनाचार्यैः स्तूयते स्म । १९४) अथान्यदा पश्चग्रामसङ्ग्रामाधिरूढयोः श्रीवीरधवल-लवणप्रसादयोः श्रीवीरधवलपत्नी राज्ञी जयतलदेवी सन्धिविधानहेतवे जनकं प्रतीहार' श्रीशोभनदेवमुपागता । 'किं वैधव्याधीरुः 15 सन्धिबन्धं कारयसि?' इति तेनाभिहिता । वीरचूडामणेः पत्युःश्रीवीरधवलस्योन्नतिमारोपयन्ती
सा'पितृकुलविनाशशङ्कया भूयो भूयोऽहमेवं व्याहरामि। तुरगपृष्ठाधिरूढे तस्मिन्वीरे स कोऽस्ति सुभटो यस्तत्सन्मुखे स्थास्यतीति व्याहृत्य सा सामर्षेव प्रतस्थे। अथ तस्मिन्समरसंरम्भे प्रहारव्यथाव्याकुले श्रीवीरधवले भुवस्तलमलंकुर्वति* किञ्चिदन्तर्भग्ने समग्रसुभटवर्गे 'एक एवायं पत्तिः
पतित' इति सकलं निजबलमुत्साहयन् श्रीलवणप्रसादः समस्तानपि रिपून् लीलयैव समूलकाषं 20 कषितवान् । इत्थमेकविंशतिकृत्वः सत्त्वगुणरोचिष्णू रणरसिकतया क्षेत्रे पितुरने पतितः।
२३१. यः पश्चग्रामसङ्ग्रामभूमौ भीमपराक्रमः । घातैः पपात सञ्जातैरश्वतो न तु गर्वतः॥ १९५) श्रीवीरधवलस्यायुःपर्यन्ते प्रतितीर्थ प्रस्थितस्य दत्तमेकधा सहस्रगुणमुपलभ्यत इति रूढेः श्रीतेजःपालेन जन्मसुकृतं ददे। तदनु तस्मिन् खामिनि विपन्ने तत्सौभाग्यातिशयात्सेवकानां विंशत्यधिकशतेन सहगमनं चक्रे । तदनु श्रीतेजापालेन प्रेतवने यामिकान्मुक्त्वा लोकस्य 25 स निर्बन्धो निषिद्धः।।
२३२. आयान्ति यान्ति च परे ऋतवः क्रमेणः सञ्जातमेतदृतुयुग्ममगत्वरं तु ।
वीरेण वीरधवलेन विना जनानां वर्षा विलोचनयुगे हृदये निदाघः ॥ १९६) अथ श्रीमत्रिणा वीरधवलस्य सुतो" वीसलदेवो राज्येऽभिषिक्तः। श्रीअनुपमदेव्या विपत्तौ तेजःपालस्य आरूढे पॅन्थावनिवर्तमाने तत्रागतैर्भट्टा० श्रीविजयसेनसूरिभिर्बलवत्पुरुषै30 रुपशमितायां विपदि किश्चिचेतनया सापत्रपः श्रीतेजःपालः सूरिणोचे-'वयमस्मिन्नवसरे भवतः
1P'मम' इत्येव । 2 P नास्ति 'सर्व वा'। 3 P भवतां वृथा प्रयासः। 4 P इत्युदीर्य। 5 P चकार । 6 D सम्मर्दने । 7 PD प्रति; B प्रती। 8 AD वीरधवले। * ABD आदर्श एतत्पदाने एव 'यः पञ्चग्रामः' इति श्लोको लिखितो लभ्यते । 9D प्रस्थितेन। 10 11 एतत्पदद्वयं BP नास्ति । 12 D तेजःपाला रूढशोकग्रन्थावनि। 13 D विहाय 'सूरिणा' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164