Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रकाशः] वस्तुपाल-तेजःपालप्रबन्धः ।
१०५ कैतवमालोकयितुमुपेताः।' श्रीवस्तुपालेन किमेतदिति पृष्टे गुरवः प्राहुः-'यदस्माभिः शिशोस्तेजःपालस्योपयामाय धरणिगपादिनुपमा कन्या याचिता तदा स्थिरपत्रदानादनु तस्याः कन्याया एकान्ते विरूपतां निशम्य तत्सम्बन्धभङ्गाय चन्द्रप्रभभिडैप्रतिष्ठितक्षेत्राधिपतेरष्टौ द्रम्माणां भोगमप्युपयाचिती'चक्रे । इदानीं तद्वियोगे ग्रन्थेरामनस्यमित्युभयोवृत्तान्तयोः कस्तथ्यः ?' इति तन्मूलसङ्केताच्छ्रीतेजःपालः खहृदयं दृढीचक्रे ।
5 ___ १९७) अथान्यदावसरे मन्त्री वस्तुपालः पूर्णायुः श्रीशत्रुञ्जयं यियासुरिति मत्वा पुरोधाः सोमेश्वरदेवस्तत्रागतोऽनर्धेष्वासनेषु मुच्यमानेष्वऽनुपविशन हेतुं पृष्ट इत्याह
२३३. अन्नदानैः पयःपानधर्मस्थानैर्धरातलम्' । यशसा वस्तुपालखं रुद्धमाकाशमण्डलम् ॥ इति स्थानाभावान्नोपविश्यते इति तदुक्तेरुचितपारितोषिकदानपूर्व तमापृच्छय मन्त्री पथि प्रस्थितः। आकेवालीयाग्रामे देश्यकुड्यां दर्भसंस्तरमारूढो गुरुभिराराधनां कार्यमाण आहारप-10 रिहारपूर्वं पर्यन्ताराधनया प्रध्वंसितकलिमलो युगादिदेवमेव जपन्
२३४. सुकृतं न कृतं किञ्चित्सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः॥ इति वाक्यप्रान्ते नमोऽहयो नमोऽर्हद्भ्य इत्यक्षरैः समं परिहृतसप्तधातुबद्धशरीरः" खकृतकृतोपमसुकृतफलमुपभोक्तुं स्वर्लोकमलंचकार । तत्संस्कारस्थानेऽनुजश्रीतेजःपाल-सुतजैनसिंहाभ्यां श्रीयुगादिदेवदीक्षावस्थामूर्तिनालंकृतः खर्गारोहणप्रासादोऽकारि ।
२३५. अद्य मे फलवती पितुराशा मातुराशिषि" शिखाकरिताऽद्य ।
ययुगादिजिनयात्रिकलोकं प्रीणयाम्यहमशेषमखिन्नः ॥ २३६. नृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः । तान् धूलिधावकेभ्योऽपि मन्येऽधमतरानरान् ॥ इत्यादीनि श्रीवस्तुपालमहाकवेः काव्यानि स्वयं कृतान्यमूनि । २३७. पूर्णः स्वामिगुणैः स वीरधवलो निःसीम एव प्रभुर्विद्वद्भिः कृतभोजराजविरुदः श्रीवस्तुपालः कविः। 20
तेजःपाल इति प्रधाननिवहेष्वेकश्च मत्रीश्वरस्तजायानुपमा गुणैरनुपमा प्रत्यक्षलक्ष्मीरभूत् ॥ ॥ इति श्रीमेरुतुङ्गाचार्यविरचिते" प्रबन्धचिन्तामणौ श्रीकुमारपाल-भूपालप्रमुखमश्रीश्वरवस्तुपाल
तेजःपालपर्यन्तमहापुरुषयशोवर्णनो* नाम चतुर्थः प्रकाशः ॥ ग्रंथानं ८२४ ॥
15
-
-
1 AD आलोकितु०। 2 D स्थिरता कृता तदनु। 3D 'मिड' स्थाने 'जिन'। 4 P 'भोग' नास्ति। 5A अपि माचिती; D उपायनी। 6P अनय॑वृद्धासनेषु मण्डयमानेषु । 7A च भूतलं। 8 AD पालेन। 9 P नास्ति । 10P इके। 11 P निरस्ता। 12 P धातुमयः। 13 D शरीरं। 14 P 'स्वकृतफल०' इत्येव। 15 P पदे। 16 AD भाशिषः। 17 P मूढतरान्; B अधमतमान् । 18 D निर्मान। 19 P.चार्याविःकृते। * D श्रीकुमारपालमंत्रीश्वरवस्तुपालतेजःपालमहापुरुषवर्णनो । + A B ८०४ ।
14
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164