Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 130
________________ प्रकाशः] वस्तुपाल-तेजःपालप्रबन्धः। १०३ इत्यत्र' आतिशब्दपारितोषिके' श्रीमत्रिणा षोडशसहस्रद्रम्माणां दातिः' प्रसादीकृता । कचिचिन्तातुरस्य मत्रिणो भूमि मृगयमाणस्य समागतः सोमेश्वरदेवः समयोचितमिदमपाठीत्२२४. एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लज्जानम्रशिराः स्थिरातलमिदं यद्वीक्ष्यसे वेधि तत् । वाग्देवीवदनारविन्दतिलकः श्रीवस्तुपालः स्वयं पातालालिमुदिधीर्घरसकृन्मार्ग भवान् मार्गति ॥ मन्त्रिणास्य काव्यस्य पारितोषिकेष्टौ सहस्राणि प्रदत्तानि । तथा__ २२५. त्वचं कर्णः शिबिमांसं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि... इति त्रिषु पदेषु पण्डितेष्वधीयमानेषु पण्डितजयदेवः समस्यापदमिव वस्तुपालः पुनर्वसु॥ इत्युच्चरन् सहस्रचतुष्टयं लेभे । तथा सूरीणां दर्शनप्रतिलाभनावसरे केनापि दुर्गतद्विजातिना याचनया तन्नियुक्तेभ्यः कृपया 10 पटीमुपलभ्य मन्त्रिणं प्रति समयोचितमित्यूचे२२६. क्वचित्तूलं क्वचित्सूत्रं कार्पासास्थि क्वचित्क्वचित् । देव ! त्वदरिनारीणां कुटीतुल्या पटी मम ॥ एतत्पारितोषिके मन्त्रिणा दत्तानि पञ्चदशशतानि । तथा बालचन्द्रनाम्ना पण्डितेन श्रीमत्रिणं प्रति२२७. गौरी रागवती त्वयि त्वयि वृषो बद्धादरस्त्वं युतो भूत्या त्वंच लसद्गुणः शुभगणः किं वा बहु महे। 15 श्रीमत्रीश्वर ! नूनमीश्वरकलायुक्तस ते युज्यते बालेन्दुश्चिरमुच्चकै रचयितुं त्वत्तोऽपरः कः प्रभुः॥ इत्युक्ते तस्याचार्यपदस्थापनायां द्रम्मसहस्रचतुष्टयं व्ययीकृतम् । १९१) कदाचिम्लेच्छपतेः सुरताणस्य गुरुं मालिमं मखतीर्थयात्राकृते इह समागतमवगम्य तजिघृक्षुभ्यां श्रीलवणप्रसाद-वीरधवलाभ्यां श्रीतेजःपालमन्त्री मन्त्रं पृष्ट एवमाख्यातवान २२८. धर्मच्छद्मप्रयोगेण या सिद्धिर्वसुधाभुजाम् । स्वमातृदेहपण्येन तदिदं द्रविणार्जनम् ॥ 20 इति नीतिशास्त्रोपदेशेन तयोवृकयोरिव छागमुन्मोच्य पाथेयादिना सत्कृत्य च तं तीर्थ प्रहितवान् । स च कियद्भिर्वषैः पश्चाव्यावृत्तः श्रीमन्त्रिणा तदुचितनेपथ्यादिभिः सत्कृतः स स्वस्थान प्राप्तस्तीर्थगुणानां विस्मरन् श्रीसुरताणपुरतः श्रीवस्तुपालमेव वर्णयामास । स सुरताणस्तदनन्तरम्-'अस्माकं देशे भवानेवाध्यक्षोऽहं तु भवतः सेलभृत्, तत्त्वयाहं यत्कृत्यादेशेनैव सर्वदानुग्राह्य' इति प्रतिवर्ष तत्महितयमलकपत्रेणोपरुध्यमानः श्रीमन्त्रीशः श्रीशत्रुञ्जयभूमिगृह-25 योग्यं श्रीयुगादिजिनबिम्बं धन्यंमन्यमानस्य सुरताणस्यानुज्ञया तद्देशवर्तिन्या मैम्माणीनान्याः खन्याः प्रयत्नशतैरानीतवान् । तस्मिन्नारोहति श्रीमूलनायकस्यामर्षात्पर्वते विद्युत्पातः समजनि । ततः प्रभृति श्रीमन्त्रीश्वरस्याजीवितान्तं श्रीदेवपादैर्दर्शनं न ददे। १९२) कस्मिंश्चित्पर्वणि श्रीमदनुपमया निरुपमे मुनीनामन्नदाने यदृच्छया दीयमाने कायौत्सुक्यात्तदागतः श्रीवीरधवलदेवः सिताम्बरदर्शनेन" द्वारप्रदेशं पाणिन्धममालोक्य विस्मयमेरमा-30 . 1P आदरों एवेदं पदं लभ्यते। 2 A अति०, D नास्ति। 3 एतत्पदमपि D नास्ति । 4 BP षोडशसहस्राः। 5D दत्तिः, BP नास्ति । 6 ABD अपाठीत्-तद्यथा। 7 Pधरा। 87 ध्रुवं । 9P प्रस्तावे। 10 D 'चतुष्टयं नास्ति । 11 D सुरताण । 12P मंख। 13 Pइदमूचे। 14 Dod दिनैः 15 A मुम्मण; B मुन्माणी मुम्माणी। 16 ABD 'अर्थ' स्थाने 'मपि। 17DOदर्शनिन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164