Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रबन्धचिन्तामणिः ॥
१७४) सं० १२३० वर्षेऽजयदेवो राज्येऽभिषिक्तः ।
[१३९]
( एतद्वर्णनात्मकाऽपि P आदर्श एते विशिष्टाः श्लोकाः प्राप्यन्ते - ) {भूपालोऽजयपालोऽभूत्कल्पद्रुमसमस्ततः । चक्रे वसुन्धरा येन काञ्चनैरनकिश्चना || [१४०] दण्डे मण्डपका हैमी सह मत्तैर्मतङ्गजैः । दत्त्वा पादं गले येन जाङ्गलेशादगृह्यत ॥ 5 [१४१] जामदम्य इवोद्दामधामभत्सितभास्करः । क्षत्रास्रक्षालितां धात्रीं श्रोत्रियत्रा चकार यः ॥ [१४२] दानानि ददतो नित्यं नित्यं दण्डयतो नृपान् । नित्यमुद्वहतो नारीर्यस्यासीत् त्रिगणः समः ॥ } [१४३] धृतपार्थिवनेपथ्ये निष्क्रान्तेऽत्र शतक्रतौ । जयन्ताभिनयं चक्रे मूलराजस्तदङ्गजः ॥
१७५) अस्मिन् अजयदेवे' पूर्वजप्रासादान् विध्वंसयति सति सीलणनामा कौतुकी नृपतेः पुरः प्रारब्धेऽवसरे कृतकामपटुतां मायया निर्माय तत्र स्वकल्पितं तृणमयं देवकुलपञ्चकं पुत्रेभ्यः 10 समर्प्य 'ममानन्तरं भक्त्यतिशयेनाराधनीयमित्यनुशिष्यान्त्यावस्थायां यावदास्ते तावत्तेन लघुपुत्रेण तत्तूर्णं चूर्णितमाकर्ण्य 'रे पुत्राधम' ! श्रीमदजयदेवेनापि पितुः परलोकानन्तरं तद्धर्मस्थानानि विध्वंसितानि, त्वं त्वधुनैवं मयि विद्यमानेऽपि चूर्णयन् ' अधमाधमतां गतोऽसी'ति तस्य तदवसरालापेन' सत्रपो नृपस्तस्मादसमञ्जसाद्विरराम । तद्दिनावशिष्टाः श्रीकुमारविहारा अद्यापि दृश्यन्ते । श्रीतारङ्गदुर्गे अजयपालनाम्ना अजितनाथो धूतैरित्युपायेन रक्षितः । ।
१७६) तदनु श्रीअजयदेवेन श्रीकपर्द्दिमन्त्री महामात्यपदं दातुमत्यर्थमभ्यर्थितः । 'प्रातः शकुनान्यवलोक्य तदनुमत्या प्रभोरादेश माचरिष्यामीत्यभिधाय शकुनगृहं गतः । ततः सप्तविधं दुर्गादेव्याः याचितं शकुनमवाप्य तच्छकुनं पुष्पाक्षतादिभिरभ्यर्च्य कृतकृत्यं मन्यमानः पुरगोपुरान्तः प्राप्तो नदन्तं वृषभमीशानदिग्भागे विलोक्यातिशयस्मेरमनाः खं निवासमासाद्य भोजनानन्तरं मरुवृद्धेन यामिकेन शकुनखरूपं पृष्टः श्रीकपर्दी तदग्रे तत्खरूपमा20 दिश्य तांस्तुष्टाव । ततो मरुवृद्धः -
15
९६
२०६. नद्युत्तारेऽध्ववैषम्ये दुर्गे संनिहिते भये । नारीकार्ये रणे व्याधौ विपरीता प्रशस्यते ॥ इति प्रामाण्याद्भवानासन्नव्यसनतया मतिभ्रंशात्प्रतिकूलमप्यनुकूलं मनुषे । यस्तु वृषभो भवता शुभः परिकल्पितः सोऽपि भवद्व्यापत्त्या शिवस्याभ्युदयं पश्यंस्तद्वाहनोक्षा जगर्ज । इति तदुक्तिमवमन्यमाने तस्मिन्नापृच्छ्य तीर्थान्यवगाहुं" गते, स नृपतिना प्रसादीकृतां मुद्रामासाद्य महता 25 महेन समधिगतनिजसौधे विश्रम्य निशि नृपतिना विधृतः समानप्रतिष्ठैरभिभवितुमारब्धः ।
२०७. जो करिवराण कुम्भे पायं दाऊण मुत्तिए" दलइ । सो सीहो विहिवसओ" जम्बूयपर्यंपिल्लणं सहइ ॥ इत्यादि विमृशन्कटाहिकायां प्रक्षेपकाले
२०८. अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिताः कोटयो" वादेषु प्रतिवादिनां विनिहिताः शास्त्रार्थगर्भा गिरः । उत्खातप्रतिरोपितैर्नृपतिभिः शरैरिव क्रीडितं कर्त्तव्यं कृतमर्थिता यदि विधेस्तत्रापि सज्जा वयम् ।। 30 स सुधीरिति काव्यमधीयंस्तथैव व्यापादयांचक्रे ।
॥ इति मन्त्री " श्रीकपर्दिप्रबन्धः ॥
1 P विना नान्यत्रेदं पदं । तदालापेन' एतादृशः पाठः । ० मानसः । 7 ABP नास्ति । तदर्थावगाढुं । 13 P मुत्तियं । 18 AD 'मंत्री' नास्ति
काव्यं ।
।
Jain Education International
[ चतुर्थः
2 P विना नान्यत्र । 3 AD त्वद्यापि । + एतदन्तर्गतपाठस्थाने ABD 'अधमतमोसीति एतदन्तर्गता पंक्तिः P आदर्श एवोपलभ्यते । 4 P कृतकृत्य मानी । 5 P गोपुरान्तिके । 6P 8 D तथा । 9 D मनुते । 10 D यस्त्वया वृषभः । 11 D तद्वदाहात उक्षा । 12 D 14 P सो विहिवसेण सीहो । 15 AD परिपिल्लणं ।
16P राशयः । 17 AD अन्त्य -
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164