Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रकाशः]
कुमारपालादिप्रबन्धः ।
[१२५] {कर्णाटे गूर्जरे लाटे सौराष्ट्र कच्छ-सैन्धवे । उच्चायां चैव भंभेयां मारवे मालवे तथा ॥ [१२६] 'कौंकणे तु तथा राष्ट्रे कीरे जांगलके पुनः । सपादलक्षे मेवाडे ढील्यां जालन्धरेऽपि च ॥ [१२७] 'जन्तूनामभयं सप्तव्यसनानां निषेधनम् । वादनं न्यायघण्टाया रुदतीधनवर्जनम् ॥}
१६९) अथ प्रभोः कदाचित् , कच्छपराजलक्षराजमातुर्महासत्याः शापाच्छ्रीमूलराजान्वयिनां राजन्यानां लूतारोगः सङ्क्रामतीति सम्बन्धात्तुं गृहिधर्मप्रतिपत्त्यवसरे प्रभोरुगणितराज्यभारे । श्रीकुमारपाले तच्छिद्रेण प्रविश्य लूताव्याधिर्वाधामधात् । तदुःखदुःखिते सराजलोके राज्ञि प्रणिधानान्निजमायुः सबलं वीक्ष्याऽष्टाङ्गयोगाभ्यासेन प्रभवस्तं लीलयोन्मूलितवन्तः।
१७०) कदापि कदलीपत्राधिरूढं कमपि योगिनमालोक्य विस्मिताय नृपतये आसनबन्धेन चतुरङ्गुलभूमित्यागाद्ब्रह्मरन्ध्रेण निर्यत्तेजःपुञ्ज प्रभवो दर्शयामासुः।।
१७१) अथ चतुरशीतिवर्षप्रमाणायुःपर्यन्ते निजमवसानदिनमवधार्यान्त्याराधनक्रियायामन-10 शनपूर्व प्रारब्धायां तदर्तितरलिताय नृपतये 'तवापि षण्मासीशेषमायुरास्ते, सन्तत्यभावाद्विद्यमान एव निजामुत्तरक्रियां कुर्या' इत्यनुशिष्य दशमद्वारेण प्राणोत्क्रान्तिमकार्षुः । तदनन्तरं प्रभोः संस्कारस्थाने तद्भस्म पवित्रमिति राज्ञा तिलकव्याजेन नमश्चक्रे । ततः समस्तसामन्तैस्तदनु नगरलोकैस्तत्रत्यमृत्लायां गृह्यमाणायां तत्र हेमखड्ड इत्यद्यापि प्रसिद्धिः। । १७२) अथ राजा बाष्पाविललोचनः प्रभुशोकविक्लवमनाः सचिवैर्विज्ञप्त इदमवादीत्-'स्वपुण्या-15 र्जितोत्तमतमलोकान् प्रभून्न शोचामि किं तु निजमेव सप्ताङ्गं राज्यं सर्वथा परिहार्य राजपिण्डदोषदूषितं यन्मदीयमुदकमपि जगद्गुरोरङ्गे न लग्नं तदेव शोचामी ति प्रभुगुणानां स्मारं स्मारं सुचिरं विलप्य प्रभूदिते दिने तदुपदिष्टविधिना समाधिमरणेन नृपः खर्लोकमलंचकार ।
(अत्र P आदर्श निम्नोद्धृता एतदुपश्लोकनश्लोकाः प्राप्यन्ते-) . [१२८] {पृथुप्रभृतिभिः पूर्वैर्गच्छद्भिः पार्थिवैर्दिवम् । स्वकीयगुणरत्नानां यत्र न्यास इवार्पितः॥ . 20
(१२९] न केवलं महीपालाः सायकैः समराङ्गणे । गुणैर्लोकंपृणैर्येन निर्जिताः पूर्वजा अपि ॥ . [१३०] वीतरागरतेयस्य मृतवित्तानि मुश्चतः । देवस्येव नृदेवस्य युक्ताभूदमृतार्थिता ॥
[१३१] करवालजलैः स्नातां वीराणामेव योऽग्रहीत् । धौता बाष्पाम्बुधाराभिर्निर्वीराणां न तु श्रियम् ॥ [१३२] शूराणां सम्मुखान्येव पदानि समरे ददौ । यः पुनस्तकलत्रेषु मुखं चक्रे परामुखम् ॥ [१३३] हृदि प्रविष्टयद्वाणक्लिष्टेनाघूर्णितं शिरः । जाङ्गलक्षोणिपालेन व्याचक्षाणैः परैरपि ॥ [१३४] चूडारत्नप्रभाकनं ननं गर्वादकुर्वतः । कणशः कुडणेशस्य यश्चकार शरैः शिरः॥ [१३] रागाद् भूपालबल्लाल-मल्लिकार्जुनयोर्मधे । गृहीतो येन मूर्धानौ स्तनाविव जयश्रियः ॥ [१३६] दक्षिणक्षितिपं जित्वा यो जग्राह द्विपद्वयम् । तद्यशोभिः करिष्यामो विश्वं नश्यद्विपद्वयम् ॥ [१३७] विहारं कुर्वता वैरिवनिताकुचमण्डलम् । महीमण्डलमुद्दण्डविहारं येन निर्ममे ॥ [१३८] पादलग्नैर्महीपालैः पशुभिश्च तृणाननैः । यः प्रार्थित इवात्यर्थमहिंसाव्रतमग्रहीत् ॥} 30
25
-
१७३) सं० ११९९ वर्षपूर्व ३१ श्रीकुमारपालदेवेन राज्यं कृतम् ।
tP आदर्श एव एतच्छ्लोकत्रयं प्राप्यते। 1 D नास्ति । 2 D संक्रामतीति स व्याधिः कुमारपाले बाधामधात् । सम्बन्धात्-। 3D रणमूलभूमिः। 4 D नास्ति । 5 D संस्कारादनु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164