Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रकाशः ]
वस्तुपाल-तेजःपालप्रबन्धः। प्राभृतमुपदौकितं निषिध्य निजमेवं व्यापारं समर्पयन् 'यत्तवेदानी वर्तमान वित्तं तत्ते कुपितोऽपि प्रतीतिपूर्व पुनरेवाददामी'ति अक्षरपत्रांन्तरस्थबन्धपूर्वकं श्रीतेजःपालाय व्यापारसम्बन्धिनं पञ्चाङ्गप्रसादं ददौ। ..
२१३. अकरात्कुरुते कोशमवधाद्देशरक्षणम् । भुक्तिवृद्धिमयुद्धाच्च स मन्त्री बुद्धिमांश्च सः॥ १८६) निखिलनीतिशास्त्रोपनिषन्निषण्णधीः खखामिनं वर्द्धयन् भानूदये कालपूजया विधि- 5 वच्छ्रीजिनमर्चित्वा, गुरूणां चन्दनकर्पूरपूजानन्तरं द्वादशावर्त्तवन्दनादनु यथावसरप्रत्याख्यानपर्वमपूर्वमेकैकं श्लोकं गुरोरध्येति । मन्त्रावसरानन्तरं सद्यस्करसवतीपाकभोजनानन्तरं, मुनालनामा महोपासकस्तदङ्गालेखकोऽवसरे रहसि' पप्रच्छ-स्वामिनाऽहर्मुखे शीतान्नमाहार्यते किंवा सद्यस्कमिति पृच्छन्तं मन्त्रिणा ग्राम्योऽयं इति द्विस्त्रिविधीर्य कदाचित्क्रोधानुबन्धात् पशुपाल इत्याक्षिप्तः । स धृतधैर्य 'उभयोः कश्चिदेकतरः स्यादि'त्यभिहिते" तद्वचश्चातुरीचमत्कृतचित्तेन 10 मन्त्रिणा 'अनधिगतभवदुपदेशध्वनिरहम् , तद्विज्ञ! यथास्थितं विज्ञप्यतामित्यादिष्टः स वाग्ग्मी प्रोवाच-'यां रसवतीमतीव रसप्लुतां सद्यस्कां प्रभुरभ्यवहरति तां प्राक्पुण्यरूपां जन्मान्तरिततयात्यन्तशीतलां मन्ये । किं चेदं मया गुरोः सन्देशवचनमाविष्कृतम् , तत्त्वं तु त एवावधारयन्तीति तत्र पादाववधार्यताम् ।' तेनेति विज्ञप्तः श्रीतेजःपालनामा मन्त्री कुलगुरुभद्दारकश्रीविजयसेनसूरीणामभ्यर्णमागतः। गृहिधर्मविधि गुरून् पप्रच्छ। तैरुपासकदशाभिधसप्तमाङ्गा-15 जिनोदिते देवपूजावश्यकयतिदानादिके गृहिधर्मे समुपदिष्टे, ततःप्रभृति स देवतार्चन विशेषजैनमुनिदानाचं धर्मकृत्यमारब्धवान् । वर्षत्रितयदेवतावसरायपदेन पृथक्कृतेन षट्त्रिंशत्सहस्रप्रमाणेन द्रव्येण बाउलाग्रामे श्रीनेमिनाथप्रासादः समजनि।
(अत्र P आदर्श निम्नगता विशेषाः श्लोका लिखिता लभ्यन्ते-) [१४८] सांयात्रिकजनो येन कुर्वाणो हरणं नृणाम् । निषिद्धस्तदभूदेष धर्मोदाहरणं भुवि ॥ [१४९] स्पृष्टास्पृष्टनिषेधाय विधायावधिवेदिकाम् । पुरेऽस्मिन् वारितस्तेन तक्रविक्रयविप्लवः ॥ [१५०] यन्यूनं यत्र यन्नष्टं यस्तत्र तदचीकरत् । उत्पत्तिरुत्तमानां हि रिक्तपूरणहेतवे ॥ [१५१] अकल्पयदनल्पानि देवेभ्यः काननानि यः । हरनेत्राग्नितापस्य यत्र न सरति सरः॥ [१५२] रम्भासम्भावितैर्यस्य वनैर्वृषनिषेवितैः । मनोज्ञसुमनोवगैः स्वर्गसौन्दर्यमाददे ॥ [१५३] संगृहीतानि हारीतशुकचित्रशिखण्डिभिः । धर्मशास्त्रसधर्माणि यस्योद्यानानि रेजिरे ॥
25 [१५४] दर्शयन् सुमनोभावं श्रीमत्तामतुलामयम् । काननानां स्वबन्धूनां स्वबन्धूनामिवाकरोत् ॥ [१५५] आददानाः पयःपूरं यत्कासारेषु कासराः । विराजन्तेतरां पारावारेष्विव पयोधराः ॥ [१५६] अकारयदयं वापीरपापी यः क्रियारतः । सुधायामपि माधुर्यं यजलैर्गलहस्तितम् ॥ [१५७] ताः प्रपाः कारितास्तेन यदीयं पिबतां पयः । तृप्यन्त्यास्यानि पान्थानां न रूपं पश्यतां दृशः॥ . [१५८] भवार्णवतरी ब्रह्मपुरी येनात्र निर्ममे । यस्यां गायन्ति सामानि नरा नार्यस्तु तद्यशः॥ 30
[१५९] स्फुटं वेष्टयता शुभैः कीर्तिकूटः पटैरिव । दशापि ग्राहिता येन दिशः श्वेताम्बरव्रतम् ॥ .... 1 D समार्पयत्। 2 D•पात्रान्तरसम्बन्धः । 3 A D देशवृद्धिः । 4 D वन्दन। 5 B .रधीत्य । 6 P नास्त्येतत्पदम्। 7 BP विजने इति । 8 AD नास्ति । 9 AD ग्रामेयं द्वेधा त्रेधाऽ। 10 AD क्रोधान्मन्त्रिणा। 11 P इत्युवाच। 12 AD 'चित्तः' इत्येव। 13 AD नास्ति । 14 BP वाचमुवाच । 15 D मन्यते। 16 D 'गृहिधर्म' इत्येव ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164