Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रकाशः]
कुमारपालादिप्रबन्धः। १७७) अथ प्रबन्धशतकर्ता रामचन्द्रस्तु तेन भूपापसदेन तप्तताम्रपट्टिकायां निवेश्यमान:
२०९. महिवीढह सचराचरह जिणि' सिरि दिन्हा पाय । तसु अत्थमणु दिणेसरह होइ तु होउ चिराय । इत्युदीर्य दशनाग्रेण रसनां छिन्दन् विपन्न एव व्यापादयांचक्रे ।
॥ इति रामचन्द्रप्रबन्धः॥ १७८) अथ राजपितामहः श्रीमानाम्रभटस्तत्तेजोऽसहिष्णुभिः सामन्तैस्तैः समं तदा लब्धाव- 5 सरैः प्रणामं कारयद्भिराक्षिप्त एवमवादीत्-'देवबुद्ध्या श्रीवीतरागस्य, गुरुबुद्ध्या श्रीहेमचन्द्रमहर्षेः, खामिबुद्ध्या कुमारपालस्यैव मे नमस्कारोऽस्मिन् जन्मनी'ति । जैनधर्मवासितसप्तधातुना तेनेत्यभिहिते रुष्टो राजा युद्धसज्जो भवेति तद्गिरमाकर्ण्य श्रीजिनबिम्बं समभ्ययाऽनशनं प्रपद्याङ्गीकृतसङ्ग्रामदीक्षो निजसौधाद्राज्ञः परिग्रहं निजभटवातेन तुषनिकरमिव विकिरन् घटिकागृहे प्राप्तः। तेषां मलीमसानां सङ्गजनितं कश्मलं धारातीर्थे प्रक्षाल्य तत्कौतुकालोकनागताभिरप्सरो- 10 भिरहपूर्विकया ब्रियमाणो देवभूयं जगाम । २१०. वरं भट्टैर्भाव्यं वरमपि च खिङ्गैर्द्धनकृते वरं वेश्याचार्यैर्वरमपि महाकूटनिपुणैः।
दिवं याते दैवादुदयनसुते दानजलधौ न विद्वद्भिर्भाव्यं कथमपि बुधैर्भूमिवलये ॥ २११. त्रिभिर्वर्षेत्रिभिर्मासैखिभिः पक्षैत्रिभिर्दिनैः । अत्युग्रपुण्यपापानामिहैव फलमश्नुते ॥ इति पुराणोक्तंप्रामाण्यात्स कुनृपतिर्वयजलदेवनाम्ना प्रतीहारेण क्षुरिकया हतो धर्मस्थानपातन'- 15 पातकी कृमिभिर्भक्ष्यमाणः प्रत्यक्षं नरकमनुभूय परोक्षतां प्रपेदे ।
सं० १२३० पूर्व वर्ष ३ अजयदेवेन राज्यं कृतम् । १७९) सं० १२३३ पूर्व वर्ष २ बालमूलराजेन राज्यं कृतम् । अस्य मात्रा नाइकिदेव्या परमर्दिभूपतिसुतयोत्संगे शिशु सुतं नृपं निधाय' गाडरीरघटनामनि घाटे सङ्ग्रामं कुर्वत्या म्लेच्छराजा तत्सत्त्वादकालागतजलदपटलसाहाय्येन विजिग्ये । [१४४] {*चापलादिव बाल्येन रिलता समराङ्गणे । तुरुष्काधिपतेर्येन विप्रकीर्णा वरूथिनी ॥ [१४५] *यच्छिन्नम्लेच्छकङ्कालस्थलमुच्चैर्विलोकयन् । पितुः प्रालेयशैलस्य न स्मरत्यर्बुदाचलः॥
लिते तत्र धात्रा कल्पद्रमाङ्करे । उज्जगामानुजन्मास्य श्रीभीम इति भूपतिः॥ १८०) सं० १२३५ पूर्व वर्ष ६३ श्रीभीमदेवेन राज्यं कृतम् । [१४] *भीमसेनेन भीमोऽयं भूपतिर्न कदाचन । बकापकारिणा तुल्यो राजहंसदमक्षमः ॥
अस्मिन् राजनि राज्यं कुर्वाणे श्रीसोहडनामा मालवभूपतिर्जरदेश विध्वंसनाय सीमान्तमागतः ततः प्रधानेन सम्मुखं गत्वेत्यवादि
२१२. प्रतापी राजमार्तण्ड ! पूर्वस्यामेव राजते । स एव विलयं याति पश्चिमाशावलम्बिनः॥ इति विरुद्धामुपश्रुति तगिरमाकर्ण्य स पश्चान्निववृते । तदनु तेनं तत्पुत्रेण श्रीमदर्जुनदेवनाम्ना गूर्जरदेशभङ्गोऽकारि।
1 D जिण। 2 P दिन्हा सिरि। 3 AD होउत होइ। 4 AD प्रमाणोक्तः। 5 D 'पातन' नास्ति। 6 D'सुतं नपं नास्ति । 7A विधाय। 8 B गाडुरा० । * P आदर्श एव एतच्छोकचतुष्टयं प्राप्यते। 9 AD नास्ति पदमिदम् । 10 D नास्ति । 11 P गूर्जरधरा० ।
20
25
30
13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164