Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 77
________________ प्रबन्धचिन्तामणिः । [ द्वितीयः सुलग्नजातत्वात्पराक्रमाक्रान्तदिकक्रः षत्रिंशदधिकेन राज्ञां शतेन भृङ्गविभ्रमकारिणा कुन्तलकलापेन सेव्यमानविमलक्रमक मलयुगलश्चतसृषु * राजविद्यासु परं प्रावीण्यमावहन् विद्यापति - प्रमुखैर्महाकविभिः स्तूयतेऽसौ । यथा - [ एकदा कर्पूरकविः' ] ५० 5 १२२. मुखे हारावाप्तिर्नयनयुगले कङ्कणभरो नितम्बे पत्राली सतिलकमभूत्पाणियुगलम् । अरण्ये श्री कर्ण ! त्वदरियुवतीनां विधिवशादपूर्वोऽयं भूषाविधिरहह जातः किमधुना ॥ { इत्युक्ते चतुरचक्रवर्ती राजाह - 'यदि विधिवशादेवं भवति तदा वर्ण्यनृपतिः किं दैवाद् यन्न चिन्त्यते तदपि स्याद्' अतोऽचमत्कृतेन राज्ञा किञ्चिन्न दत्वा विसर्जितः । गृहं गतो भार्यया पृष्टम् - 'किं दत्तं राज्ञा ?" स आह-'वृत्तखरूपम्' । साह- 'यदि विधिस्थाने तव वशादिति उक्तमभविष्यत् तदा तव सर्वं अदाप्यत्' । ततो नाचिराजकविः कर्णनृपमस्तवीत् । यथा 10 [८१] गोपीपीनपयोधराहतमुरः सन्त्यज्य लक्ष्मीपतेः शङ्के पङ्कजशङ्कया नयनयोर्विश्राम्यति श्रीस्तव । श्रीमत्कर्णनरेन्द्र ! यत्र वलति भ्रूवल्लरीपल्लवस्तत्र त्रुट्यति भीतिभङ्गुरतया दारिद्र्यमुद्रा यतः ॥ ततोऽतितुष्टेन नृपेण हस्तशृङ्खलकपूर्वं उचितदानेन प्रसादीकृतेन मार्गे आगच्छन्तं ज्ञात्वा भार्यां कर्पूरः प्राह - 'यद्राज्ञा अस्मै दत्तं समस्ति इदानीं तदहं स्वगृहे आनयामी' त्युक्त्वा गतस्तत्सम्मुखम् । [८२] कन्ये कासि न वेत्सि मामपि कवे कर्पूर किं भारती सत्यं किं विधुरासि वत्स मुषिता केनांब दुर्वेधसा । किं नीतं तव मुञ्ज-भोज-नयनद्वन्द्वं कथं वर्तसे दीर्घायुर्भजतेऽन्धयष्टिपदवीं श्रीनाचिराजः कविः ॥ 15 अनेन काव्येन तुष्टः सन् कर्णराजात् प्राप्तं स्वर्णदुकूलादि तत्कर्पूरकवयेऽदात् नाचिराजकविः । एतत्कर्ण - नरेन्द्रेण ज्ञात्वा कर्पूर आकारितः पृष्टं च - 'हे कवे ! मुञ्ज-भोज इति पदं कस्मादुदाहृतं भोजे विद्यमाने ।' स आह- 'देव ! राभस्येन हर्ष- मुञ्जनयनद्वन्द्वस्थाने 'मुञ्ज - भोज' इत्यूचानं ।' ततो राज्ञा ज्ञातं एतद् भोजस्यामङ्गलसूचकम् | } 20 [८३] $ दूर्वाः श्यामलयन्ति सन्ततशिखार्थि. प्राङ्गणं शून्ये कल्पतरोस्तले खगमृगाः खेलन्ति निर्भीतयः । श्रीमत्कर्णनरेन्द्रमानविभवैः पूर्णेषु सर्वार्थिषु स्कन्दोपान्तनिवेशितालसमुखी निद्राति रे... कामधुक् ॥ ७७) 'इत्थं महाकविभिः स्तूयमाननानावदातः [ स कर्णनृपः कदाचित् ] श्रीभोजं प्रति प्रधानान् प्राहिणोत्'-' भवदीयनगर्यां भवत्कारिताश्चतुरुत्तरं शतं प्रासादाः, एतावन्त एव गीतप्रबन्धा भवदीयाः, एतावन्ति च बिरुदानि । अतश्चतुरङ्गयुद्धेन द्वन्द्वयुद्धेन वा चतसृषु विद्यासु वादच्छलेनं त्यागेन 25 वा मां निर्जित्य पश्चोत्तरशतविरुदानां भाजनं भूयाः । नो वाहं त्वां विजित्य सप्तत्रिंशताधिकस्य राज्ञा' शतस्य नाथो भवामि - इति तत्प्रभावाविर्भावात् ' 'ईषत् परिम्लानमुखाम्भोजः श्रीभोजः सर्वेष्वपि प्रकारेषु जितकाशिनं काशिपुराधीशं विमृशन् स्वं पराजितं मन्यमानस्तानुपरोधपूर्वमभ्ययैवमङ्गीकारयामास । यत्" - मैंयावन्त्यां श्रीकर्णेन वाणारस्यामेकस्मिन् "लग्ने गर्तापूरपूर्वमार " * एतदन्तर्गतपाठस्थाने AD 'राज्ञां शतेन सेव्यमानश्चतुर्षु०' इत्येव पाठोऽस्ति । 1 Pa चतसृषु दिक्षु | 2 ADPa कविभिः स्तूयमानः; B नास्ति । Pb आदर्शे भिन्नरूपमेतादृशमिदं वाक्यं - 'प्रावीण्यमावहन् विद्यागोष्ठीं चकार । + Pb प्रतावे. वैतद्वाक्यं विद्यते । एष कोष्टकान्तर्गतः प्रबन्धः Pb आदर्शे एवात्रोपलभ्यते । $ इदं पद्यं केवलं P आदर्श उपलब्धम् । एतचिह्नान्तर्गतपाठस्थाने ADP आदर्शेषु 'इति स्तूयमानः स कर्णनृपः कदाचिदूतमुखेन श्रीभोजमुवाच । एतादृशः पाठोऽस्ति । 3 AD भवन्न गर्यो । 4 D तव । 5 B वादस्थलेन; AD वादिवत् । 6 AD त्यागशक्तया । 7 BP सप्तत्रिंशताधिकशतराज्ञां । 8-9 एतच्छन्दस्थाने AD 'तद्वचसा' इत्येव । 10 AD विजितं । 11 BPPa तानू (B नि) परोपरोध० । 12 D यथा; AB नास्ति । 13 BPPa ‘पञ्चाशद्धस्तप्रमाणो मया शिवप्रासादोऽवन्त्यां । 14 AD एकस्मिन्नहनि लग्ने । Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164