Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रकाशः ]
सिद्धराजादिप्रबन्धः ।
मानायास्तस्या आधानं समजनि । तदा च तया सङ्केतज्ञापनाय नृपकरान्नामाङ्कितमङ्गुलीयकं निजाङ्गुल्यां न्यधायि । अर्थ प्रातस्तद्दुर्विलसितात् तद्वृत्तान्तमनवबुध्यमानाय प्राणपरित्यागो - यता नृपतये स्मार्तेस्तप्तताम्रमयपुत्तलिका लिङ्गनमिति निवेदिते प्रायश्चित्ताय तथैव चिकीर्षवे स मन्त्री यथावद् अवदत् ।
अत्र P प्रतौ निम्नलिखिताः लोका विद्यन्ते - )
[ ८५] गुरुणा विक्रमेणायं बभूव पितृसन्निभः । आकारेण तु रम्येण भूपोऽभूदात्मभूसदृक् ॥ [८६] विना कर्णेन तेन स्त्रीनेत्राणां न रतिः क्वचित् । इतीव जज्ञिरे तेषामनुकर्ण प्रवृत्तयः ॥ [८] तत्कर्णार्जुनयोर्वैरं पूर्वं कर्णः स्मरन्निव । अर्जुनं गमयामास यशो देशान्तराणि यः ॥ [८] अभिरामगुणग्रामो रामो दशरथादिव । सूनुः श्रीजयसिंहोऽस्माज्जायते स्म जगज्जयी | ८५) सुलग्ने तस्य जातस्य सुनोर्नृपतिर्जयसिंह इति नाम निर्ममे । स बालस्त्रिवार्षिकः सव- 10 योभिः कुमारै रममाणः सिंहासनमलंचक्रे । तद् व्यवहारविरुद्धं विमृशता नृपेण पृष्टैः ' नैमित्तिकैस्तस्मिनेवाभ्युदयिके लग्ने निवेदिते राजा तैदैव तस्य सूनो राज्याभिषेक' चकार ।
५५
८६) सं० ११५० वर्षे पौषवद ३ शनौ श्रवणनक्षत्रे वृषलने श्री सिद्धराजस्य पट्टाभिषेकः ।
८७) स्वयं तु, आशापल्लीनिवासिनमाशाभिधानं भिल्लमभिषेणयन् भैरवदेव्याः शकुने जाते तत्र कोछरबाभिधान देव्याः प्रासादं कारयित्वा खलक्षाधिपं भिल्लं विजित्य तत्र जयन्तीं देवीं 15 प्रासादे स्थापयित्वा कर्णेश्वरदेवतायतनं तथा कर्णसागरतडागालंकृतां कर्णावतीपुरं निवेश्य स्वयं तत्र राज्यं चकारं । श्रीपत्तने तेन राज्ञा श्रीकर्णमेरुः प्रासादः कारितः ।
सिं० ११२० चैत्रसुदि ७ प्रारभ्य सं० १९५० पौषवदि २ यावत् वर्ष २९, मास ८, दिन २१० अनेन राज्ञा राज्यं कृतम् । ।
I
८८) अथ दिवं गते श्रीकर्णे श्रीमदुदयमतिदेव्या भ्राता मदनपालोऽसमञ्जसवृत्त्या वर्तते । तेन 20 लीलाभिधानो राजवैद्यो दैवतवरलब्धप्रसादः सकलनागरिकैलो कैस्तत्कलाहृतहृदयैः" काञ्चनदान पूजयाऽभ्यर्च्यमानः कदाचित्तेन" निजसौधे समानीय " कृतके" शरीरामये नाडीदर्शनात्पथ्यसज्जतां निवेदयन्निदमूचे ( तेन मदनपालेन बभाषे ) ' तदेव नास्तीति । * ततस्त्वं मया रोगप्रतीकाराय नाकारितः, किं तु पथ्यदानेन बुभुक्षाप्रतीकारार्थमेव * । ततो द्वात्रिंशत्सहस्राण्युपनये'त्युक्त्व तेन "बन्दीकृतस्तत्तथेति निर्मायेत्यभिग्रहमग्रहीत्- 'यदतः परं प्रतीकारनिमित्तं नृपतेः 25 सौमपहाय नान्यत्र गन्तव्यमिति । ततः परमातुराणां प्रश्रवणावलोकनान्निदान चिकित्सितं कुर्वाणः केनापि मायाविना कृतकामयचिकित्सितकौशलं वुभुत्सुना वृषभप्रश्रवणे दर्शिते सम्यक् तदवगम्य शिरोधूननपूर्वकं 'वृषभः" स बहुखादनेन मोडित इत्यस्मै सत्वरमेव तैलनाली दीय
1 BP नास्ति । 2 नास्तत्पदं AD 3 AD • द्यतो नृपतिः । 4 'स्मार्ते : ' शब्दस्थाने AD 'स्मातस्तत्प्रायश्चित्तं पप्रच्छ तैः' एते शब्दाः | 5 D यथावद्यावदत्; P यथावदवादीत् । १-१ एतद्वाक्यं AD नास्ति । 6 P तद्विरुद्धं विमृश्य । २- २ तदैवाभिषेकं BP + इयं पंक्तिः BP नास्ति । 7 D पट्० । 8 AD तडागालंकृतं चकार । 9 AD चक्रे । 10 A २५ । इयं पंक्तिः BP न विद्यते । 11 AD • नागरिकैः । 12 AD कलाचार्य (D 'चार्य' नास्ति) चमत्कृतचित्तैः । 13 AD 'तेन' नास्ति । 14 AD समानीतः । 15 BP कृत्रिमे । 8 केवलं A आदर्श इदं वाक्यं लभ्यते । * एतदन्तर्गता पंक्तिः BP नास्ति । 16 BP सहस्रानर्प येत्यादिष्टः । 17 नास्ति 'तेन बन्दीकृतः ' BP 18 A कृतक चिकित्सित० । 19 BP वृषभोऽयं । 20 D गोण्डितः; B फोडितः ।
Jain Education International
5
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164