Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रबन्धचिन्तामणिः।
[ तृतीयः अथ कुमुदचन्द्रवादी स्वयं ज्यायान् किश्चिद्व्यतिक्रान्तशैशवं श्रीहेमचन्द्र प्रति 'पीतं तत्रं भवता?' इत्यभिहिते श्रीहेमचन्द्रस्तं प्रति 'जरातरलितमतिः किमेवमसमञ्जसं ब्रूषे? श्वेतं तकं पीता हरिद्रा' इति वाक्येनाधाकृतः 'युवयोः को वादी?' इति पृच्छन् , श्रीदेवसूरिभिस्तत्तिरस्कारकरणाय 'अयं भवतः प्रतिवादी'त्यभिहिते कुमुदचन्द्रः प्राह-'मम वृद्धस्यानेन शिशुना सह को 5 वादः' ?' इति तदुक्तिमाकर्ण्य 'अहमेव ज्यायान् भवांस्तु शिशुः, योऽद्यापि कटीदवरक निव
सनं च नादत्से' इति । राज्ञा तयोर्वितण्डायां निषिद्धायामित्थं मिथः पणबन्धः समजनि-पराजितैः श्वेताम्बरैर्दिगम्बरत्वमङ्गीकार्यम् , दिगम्बरैस्तु देशत्यागः' इति निर्णीतपणबन्धादनु खदेशकलङ्कभीरुभिर्देवाचार्यैः सर्वानुवादपरिहारपरैर्देशानुवादपरायणैः कुमुदचन्द्रं प्रति 'प्रथमं भवान् कक्षीकरोतु पक्षम्' इत्यभिहिते10 १५९. खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालयच्छायामाश्रयते शशी मशकतामायान्ति यत्रादयः ।
___इत्थं वर्णयतो नभस्तव यशो जातं स्मृतेर्गोचरं तद्यमिन्भ्रमरायते नरपते ! वाचस्ततो मुद्रिताः ॥ इति नृपं प्रत्याशिषं ददौ । 'वाचस्ततो मुद्रिताः' इति तदीयापशब्देन सभ्यास्तं खहस्तबन्धनमिति विमृशन्तो मुमुदिरे । अथ देवाचार्या:
१६०. नारीणां विदधाति निर्वृतिपदं श्वेताम्बरप्रोल्लसत्कीर्तिस्फातिमनोहरं नयपथप्रस्तारभृङ्गीगृहम् । 15 यसिन्केवलिनो न निर्जितपरोत्सेकाः सदा दन्तिनो राज्यं तजिनशासनं च भवतश्चौलुक्य ! जीयाचिरम् ॥
नृपं प्रतीमामाशिषं ददौ । अथ वादी कुमुदचन्द्रः केवलिभुक्ति-स्त्रीमुक्ति-चीवरनिराकरणपक्षोपन्यासं पारापतविहङ्गोपमया' स्खलितस्खलितया' गिरा प्रारभमाणः सभ्यैरन्तर्विहसद्भिः प्रत्यक्षप्रशंसापरैः पुरस्क्रियमाणः कियदुपन्यासप्रान्ते उच्यतामिति तेनोक्तः श्रीदेवाचार्यः प्रलयकालोन्मीलितप्रचण्डपवनक्षुभिताम्भोधिनिचितवीचीसमीचीभिर्वाग्भिवृहदुत्तराध्ययनवृत्तेश्चतु20रशीतिविकल्पजालोपन्यासप्रक्रमे भावत्प्रतिभासप्रसरपरिम्लानायमानकुमुदः कुमुदचन्द्रः सम्भ्रमभ्रान्तचेतास्तद्वचनान्यवधारयितुमक्षमो भूयस्तमेवोपन्यासं समभ्यर्थितवान् । श्रीसिद्धराज-सभ्येषु च निषेधपरेष्वपि अप्रमेयप्रमेयलहरीभिस्तं प्रमाणाम्भोधौ मजयितुं प्रारब्धे" षोडशे दिने आकस्मिके देवाचार्यस्य कण्ठग्रहे मात्रिकैः श्रीयशोभद्रसूरिभिरतुल्यकुरुकुल्लादेवीप्रसाद
लब्धवरैस्तत्कण्ठपीठात्क्षणात्क्षपणककृतकार्मणानुभावाद केशकन्दुकः"बहिः" पातयांचकेतचि25 निरीक्षणाचतुरैः स श्रीयशोभद्रसूरिः श्लाघ्यमानः कुमुदचन्द्रश्चामन्दं निन्द्यमानः प्रमोदविषादौ दधाते । अथ श्रीदेवसूरिभिरुपन्यासोपक्रमे कोटाकोटिरिति शब्दे प्रोच्यमाने तच्छब्दव्युत्पत्तिं कुमुदचन्द्रे पृच्छति कण्ठपीठे लुठिताष्टव्याकरणः पण्डितः काकलः शाकटायनव्याकरणोदितटापटीपसूत्रनिष्पन्नं कोटाकोटिः कोटीकोटिः कोटिकोटिरिति सिद्धं शब्दत्रयनिर्णयं प्राह । अथ प्रथममेव 'वाचस्ततो मुद्रिता' इति स्वयं "पठितत्वापशब्दप्रभावात्तदा प्रादुर्भूतमुख30 मुद्रः 'श्रीदेवाचार्येण निर्जितोऽहमिति खयमुच्चरन् श्रीसिद्धराजेन पराजितव्यवहारात्, अपद्वारेणोपसार्यमाणः सम्भवत्पराभवाविर्भावादूर्द्धस्फोटं प्राप्य विपेदे ।
1D सूरिभिस्तन्निराकरणाय। 2 P शिशुना साई न वादः समुचितः। 3 AD भवानेव। 4 AD दवरकमपि नादत्से निवसनं च। 5D स्त्रीनिर्वाणचीरनिरा० । 6 AD विहङ्गमसदृशया। 7 D स्खलितगिरा। 8 D .मित्युक्तो देवा० ।
9D.न्यासे प्रक्रान्ते। 10D विहाय नान्यत्र। 11D केशचण्डकः। 12P विहाय नान्यन्न 'बहिः'। 13 D पठित्वमिति स्वयमपशब्द। 14 P नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164