Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 100
________________ ७३ 10 प्रकाशः] सिद्धराजादिप्रबन्धः । महाराजाधिराजः श्रीविभीषणो राजस्थापनाचार्यस्य रघुकुलतिलकस्य श्रीरामस्याभिरामगुणग्रामाभिरामस्य स्मरन् , ज्ञानमयेन चक्षुषा सम्प्रति चौलुक्यकुलतिलकश्रीसिद्धराजावतारेऽवतीर्ण खीयं स्वामिनमवधार्य-"अकुण्ठोत्कण्ठायमानमानसोऽहं तत्र प्रणामकरणायागच्छामीति, किं वा प्रभुमित्रागमनेनानुग्रहीष्यती"ति विज्ञपयन्नौ प्रहितवान् । तन्निर्णयं श्रीमुखेन समादिशतु देवः।' ताभ्यामित्यभिहिते नृपतिः किश्चिदन्तर्विचिन्त्य स तावेवं समादिशत्-'यद्वयमेव प्रफुल्ला- 5 यल्लकलहरीप्रेर्यमाणाः खसमये खयमेव विभीषणमिलनाय समेष्यामः' इत्युदीर्य निजकण्ठशृङ्गारकारिणमेकावलीहारं प्रतिप्राभृतं प्रसादीकृत्य आपृच्छनावसरे 'प्रभुणाहमन्यस्मिन्नपि प्रेष्यप्रेषणावसरे न विस्मारणीय' इति विशेषविज्ञप्तिं विधायान्तरिक्षमार्गेण तद्राक्षसद्वन्द्वं तिरोधत्ते । तदैव ते म्लेच्छप्रधानपुरुषा भयभ्रान्ताः खपौरुषमुत्सृज्य नृपपुरत आहूता भक्तिभरभासुराणि वचांसि ब्रुवाणास्तद्राज्ञे समुचितमुपायनमुपनीय श्रीसिद्धराजेन व्यसृज्यन्तं । ॥ इति म्लेच्छागमनिषेधप्रबन्धः॥ ११९) अथानन्तरं कोल्लापुरनगरराज्ञः सभायां बन्दिनः श्रीसिद्धराजस्य कीति वितन्वन्तः । 'तदा वयं तथ्यं सिद्धराजं मन्यामहे यदा प्रत्यक्षमप्यस्माकं कमपि चमत्कारं दर्शयती'त्येतद्भवाणेन [तेन राज्ञा ते"] पराभूतास्तत्वरूपं नृपतेर्विज्ञपयामासुः। अथ स्वामिनि सभां निभालयति तचित्तवेदिनी केनापि नियोगिनाऽचलिबन्धनपूर्वकं निजाभिप्राये प्रादुःक्रियमाणे राज्ञा रहसि 15 तत्कारणं पृष्टो नृपतेराशयं खयं विज्ञपयन् 'द्रव्यलक्षत्रयसाध्योऽयमर्थः' इति वाक्यविशेषमाह। तदैव दैवज्ञनिर्दिष्टे मुहूर्ते स नृपाल्लक्षत्रयमुपलभ्य वणिज्याकारो भूत्वा सर्वभाण्डानि सङ्ग्रह सिद्धसङ्केतं रत्नखचितं सुवर्णपादुकायुगलमतुलं योगदण्डं च मणिमयकुण्डलयुगलं च तद्विधयोगपिशुनं योगपढेच चण्डांशुरोचिश्चन्द्रातक" सह नीत्वा पन्थानमुल्लङ्घय कतिपयैरहोभिस्तत्रं दत्तावासः, आसन्नायां दीपोत्सवनिशितन्नगरराज्ञोऽवरोधे महालक्ष्मीदेव्याः सपर्यापर्याकुलतया 20 तत्मासादमुपेयुषि स कृतकसिद्धपुरुषस्तेन सिद्धवेषेणालङ्कृतः, केनापि सदभ्यस्तोत्पतनेन बर्वरेण नरेणानुगम्यमानो देव्याः पीटेऽकस्मात्प्रादुरासीत् । देव्या रत्नसुवर्णकर्पूरमयीं सपर्या विरचयस्तदवरोधाय तद्विधानि बीटकानि ददानः श्रीसिद्धराजनामाङ्कितं सिद्धवेषं पूजाव्याजात्तत्र नियोज्योत्पतनवशाहर्बरस्कन्धमधिरुह्य यथागतमगात् । निशावसानसमयेऽवरोधैः स विरोधिनृपतिस्तं वृत्तान्तं ज्ञापितः सन् भयभ्रान्तो नृपः स्वप्रधानपुरुषैस्तं प्राभृतं सिद्धाधिपतये 25 प्राहिणोत् । अथ तेन नियोगिना भाण्डादिक्रयविक्रयं संक्षिप्य 'ममागमनावधि नैतेषां प्रधानानां दर्शनं देयमिति वेगवता पुरुषेण विज्ञपयामास। तदनु झगिति कतिपयैर्दिनस्तत्र समुपेतः, तत्वरूपं विज्ञप्तो नृपतिस्तेषां प्रधानानां तदुचितामावर्जनां चकार । ॥ इति कोल्लापुरप्रवन्धः॥ 1 B अकुण्ठोत्कण्ठाघटमानमानसः; P अकुण्ठोत्कण्ठितमानसः। 2 A स च देवमादिदेश। 3D कृतं। 4 D नास्त्येतत्पदम्। 5 Doऽहमयमपि । 6P म्लेच्छप्रधानाः। 7 B विसृजत् । 8 P 'अथ' इत्येव । 9 A कोल्लाकपुर; P कोलापुर । 10 D पुस्तक एवैते शब्दाः प्राप्यन्ते। 11 B निवेदिना; P विदा; D तत्तत्त्ववेदिना। 12 P अञ्जलिं बवा। 13 D नास्ति 'स्वयं'। 14 D शकेव। 15 AB चण्डातक। 16 P गृहीत्वा। 17 D तत्पुरे। 18 BP सम्प्राप्तायां । 19 AD पूजार्थ । 20 AD सिद्धरूपः। 21 ABD रत्नमयः। 22 AD ऽवरोधैस्तं । 23 AD नृपवृत्तान्तं । 24 P भ्रान्तस्तं प्राभृतं; B.भ्रान्तः सुप्रधानैस्तं। 25 D •पुरराजप्रबन्धः। 10 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164