Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 110
________________ अंकाशः] कुमारपालादिप्रबन्धः। १४१) अन्यदा श्रीहेमचन्द्रस्य लोकोत्तरैर्गुणैः परिहृतहृदयो नृपो मनिश्रीउदयनमिति पप्रच्छ"यदीदृशं पुरुषरत्नं कस्मिन् समस्तवंशावतंसे वंशे समस्तपुण्यप्रवेशे देशे निःशेषगुणाकरे नगरे च' समुत्पन्नम् ?' इति नृपादेशादनु स मन्त्री जन्मप्रभृति तचरित्रं पवित्रमित्थमाह-'अष्टिमनामनि देशे धुन्धुकाभिधाने नगरे श्रीमन्मोढवंशे चाचिगनामा व्यवहारी सतीजनमतल्लिका जिनशासनशासनदेवीव तत्सधर्मचारिणी शरीरिणीव श्रीः पाहिणीनानी चामुण्डागोत्रजाया 5 आद्याक्षरेणाङ्कितनामा तयोः पुत्रश्चाङ्गदेवोऽभूत् । स चाष्टवर्षदेश्यः श्रीपत्तनात्तीर्थयात्रामस्थितेषु श्रीदेवचन्द्राचार्येषु धुन्धुक्कके श्रीमोढवसहिकायां देवनमस्करणाय प्राप्तेषु, सिंहासनस्थिततदीयनिषद्याया उपरि सवयोभिः शिशुभिः समं रममाणः सहसा निषसाद। तदङ्गप्रत्यङ्गानां जगद्विलक्षणानि लक्षणानि प्रेक्ष्य-अयं यदि क्षत्रियकुले जातस्तदा सार्वभौमचक्रवर्ती, यदि वणिग्-विप्रकुले जातस्तदा महामात्यः, चेद्दर्शनं प्रतिपद्यते तदा युगप्रधान इव कलिकालेऽपि कृतयुगमवतारयति-10 स आचार्य इति विचार्य तन्नगरवास्तव्यैर्व्यवहारिभिः समं तल्लिप्सया चाचिगौकः" प्राप्य तस्मिंश्वाचिगे ग्रामान्तरभाजि तत्पत्या विवेकिन्या स्वागतादिभिः परितोषितः 'श्रीसङ्घस्त्वत्पुत्रं याचितुमिहागत' इति व्याहरन , अथ सा हर्षाश्रूणि मुश्चती खं रत्नगर्भ मन्यमाना,श्रीसङ्घस्तीर्थकृतां मान्यः, स मत्सूनुं याचते इति हर्षास्पदेऽपि विषादः। यतः-एतस्य पिता नितान्तमिथ्यादृष्टिः। तादृशोऽपि सम्प्रति ग्रामे नास्ति । अथ तैर्व्यवहारिभिस्त्वया दीयतामित्युक्ते" खदोषो-15 सारणाय मात्रा दाक्षिण्यादमात्रगुणपात्रं पुत्रस्तेभ्यो गुरुभ्यो ददे । तदनन्तरं तया श्रीदेवचन्द्रसूरिरिति तदीयमभिधानमबोधि । तैर्गुरुभिः स शिशुः शिष्यो भविष्यसी? ति पृष्टः, ओमित्युचरन् प्रतिनिवृत्तैस्तैः समं कर्णावत्यामाजगाम । स उदयनमन्त्रिगृहे तत्सुतैः समं बालधारकैः पाल्यमानो यावदास्ते तावता" ग्रामान्तरादागतश्चाचिगस्तं वृत्तान्तं परिज्ञाय पुत्रदर्शनावधिसंन्यस्तसमस्ताहारस्तेषां गुरूणां नाम मत्वा कर्णावतीं प्राप्तः। तद्वसतौ समागत्य कुपितः पिता 20 ईषत्तान् प्रणनामै । गुरुभिः सुतानुसारेणोपलक्ष्य विचक्षणतया विविधाभिरावर्जनाभिरावयं, तत्रानीतेनोदयनमन्त्रिणा धर्मबन्धुवुद्धया निजमन्दिरे नीत्वा ज्यायःसहोदरभक्त्या भोजयांचके। तदनु चाङ्गदेवं सुतं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रसादसहितं दुकूलत्रयं प्रत्यक्षं लक्षत्रयं चोपनीय सभक्तिकमावर्जितः। तं प्रति चाचिगः प्राह-'क्षत्रियस्य मूल्ये अशीत्यधिकसहस्रम् , तुरगस्य मूल्ये पश्चाशदधिकानि सप्तदशशतानि, अकिञ्चित्करस्यापि वणिजो मूल्ये नवनवतिकलभाः 25 एतावता नवनवतिलक्षा भवन्ति । त्वं तु लक्षत्रयं समर्पयन्नौदार्यच्छद्मना कार्पण्यं प्रादुःकुरुषे । मदीयः "सुतस्तावदनो भवदीया च भक्तिरनय॑तमा, तदस्य मूल्ये सा भक्तिरेवास्तु, शिवनिर्माल्यमिवास्पृश्यो मे द्रव्यसञ्चयः'। इत्थं चाचिगे" सुतस्य खरूपमभिदधाने प्रमोदपूरित . 1P अपहृतः। + एतदन्तर्गतपाठस्थाने D पुस्तके 'एतादृशं पुरुषरलं समस्तवंशावतंसे देशे च समस्तगुणाकरे नगरे च कस्मिन्समुत्पन्न' ईदृशः पाठः। 2 AD धुन्धुक्कनगरे। 3 D द्वितीयः ‘शासन' शब्दो नास्ति । 4 BP लक्ष्मीः। 5 AD गोनशयोराद्याः। 6 BP समजनि। 7 BP वीक्ष्य । 8 BP तुर्ययुगेऽपि। 9 P ते आचार्याः । 10 D तन्नगरव्यव० । 11 BP चाचिगगृहं । 12 D श्रीमन्तः। 13 B उच्चरन् ; P व्याहृते; D ज्याहरन्तो। 14 AD नास्ति । 15 BP एत. त्पिता। 16 BP स्वजनैः। 17 BP अभिहिते। 18 BP 'दाक्षिण्यात्' नास्ति। 19 A अवबोधि । 20 BP सोऽपि । 21 BP कर्णावतीं भेजे। 22 BP तावत् । 23 AB प्रणम्य। 24 D आवर्जितः। 25 BP अधिकः सहस्रः। 26 D नास्ति । 27 AD मत्सुतः। 28 D तस्य । 29 AD भक्तिरस्तु। 30 P द्रविण। 31 P चाचिगे एवमभिदधाने । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164