Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 113
________________ प्रबन्धचिन्तामणिः । [ चतुर्थः मौलियत्कृत्यमादिशेति व्याजहार । अथ तत्रैव नृपतेर्यावजीवं पिशित-प्रसन्नयोर्नियमं दत्त्वा ततः प्रत्यावृत्तौ क्षमापती श्रीमदणहिल्लपुरं प्रापतुः। १४३) श्रीजिनवदननिर्गमपावनीभिः शुद्धसिद्धान्तगीर्भिः प्रतिवुद्धो नृपः प र माई त बिरुदं भेजे । तदभ्यर्थितः प्रभुः त्रिषष्टिशलाकापुरुषचरितम् , विंशतिवीतरागस्तुतिभिरुपेतं पवित्रं 5 श्रीयोगशास्त्रं रचयांचकार । प्रभोरादेशाचाज्ञाकारिष्वष्टादशदेशेषु चतुर्दशवत्सरममितां सर्वभूतेषु मारिं निवारितवान् । [१२३] *सप्तर्षयोऽपि सततं गगने चरन्तो मोक्तुं क्षमा नहि मृगी मृगयोः सकाशात् । जीयादसौ चिरतरं प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः॥ [१२४] *कलाकलापैः स्तुमहद्धं श्रीहेमचन्द्रम्' (?)..................... । __ररक्ष दक्षः प्रथमः समग्रान् मृगान् यदन्यो मृगमेकमेव ॥ तेषु तेषु च देशेषु चत्वारिंशदधिकानि चतुर्दशशतानि विहाराणां कारयामास । सम्यक्त्वमूलानि द्वादशव्रतान्यङ्गीकुर्वन् , अदत्तादानपरिहाररूपे तृतीयव्रते व्याख्यायमाने रुदतीवित्तदोषान पापैकनिबन्धनान् ज्ञापितो नृपस्तदधिकृतं पञ्चकुलमाकार्य द्वासप्ततिलक्षप्रमाणं तदायपट्टकं विपाट्य मुमोच । तस्मिन्मुक्ते15 १८९. न यन्मुक्तं पूर्वै रघुनहुषनाभागभरतप्रभृत्यु-नाथैः कृतयुगकृतोत्पत्तिभिरपि । _ विमुश्चन्कारुण्यात्तदपि रुदतीवित्तमधुना कुमारक्ष्मापाल त्वमसि महतां मस्तकमणिः॥ ___ इति विद्वद्भिः स्तूयमाने१९०. अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः ॥ इति प्रभुरपि स नृपतिमनुमोदयांचक्रे । 20 १४४) अथ सुराष्ट्रादेशीयं सउंसर्रनामानं विग्रहीतुं श्रीमदुदयनमत्रिणं दलनायकीकृर्त्य समस्तकटकबन्धेन समं [प्रस्थापयामास ] स श्रीवर्द्धमानपुरं प्राप्य श्रीयुगादिदेवपादान्निनंसुः पुरः प्रयाणकाय समस्तमण्डलेश्वरान्नभ्यर्थ्य खयं विमलगिरिमागतः। विशुद्धश्रद्धया श्रीदेवपादानां पूजादि विधाय यावत्पुरतो विधिवच्चैत्यवन्दनां विधत्ते तावन्नक्षत्रमालाया देदीप्यमानां दीपवर्तिमादाय मूषकः काष्ठमयप्रासादबिले प्रविशन् देवाङ्गरक्षैस्त्याजितः। तदनु स मन्त्री समाधिभङ्गा25 काष्ठमयदेवप्रासादविध्वंसंसाध्वसाच जीर्णोद्धारं चिकीर्षुः श्रीदेवपादानां पुरत एकभक्तादीनभिग्रहान् जग्राह । तदनु कृतप्रयाणः स्खं स्कन्धवारमुपेत्य तेन प्रत्यर्थिना समं समरे सञ्जायमाने परैः पराजिते नृपबले श्रीमदुदयनः स्वयमुत्तस्थौ । तदा तत्प्रहारजर्जरितदेह आवासं नीतः सकरुणं क्रन्दन खजनैस्तत्कारणं पृष्टः-सन्निहिते मृत्यौ श्रीशत्रुञ्जय-शकुनिकाविहारयोर्जीर्णोद्धारवाञ्छया देवऋणं पृष्ठलग्नम्-मन्त्री प्राह । अथ तैः 'भवन्नन्दनौ वाग्भटाऽऽम्रभटनामानौ गृहीताभिग्रहौ तीर्थ80 द्वयमुद्धरिष्यतः-इत्यर्थे वयं प्रतिभुवः' इति तदङ्गीकारात्पुलकिताङ्गो धन्यंमन्यः, अन्त्याराधनाकृते 1 ABD प्रसन्नानियम। 2 'एकः क्षमायाः पृथिव्याः, अन्यः क्षान्तेः पतिः'-D टिप्पणी । * एतत्पद्यद्वयं P प्रतावेव लभ्यते । + अस्य पद्यस्यायं पूर्वार्द्धः खण्डितरूप एवोपलब्धः । 3 P आहूय। 4 P भूपतिः। 5 B सउसर; P सुसर; D सुंवर । 6 B दलमादायैकीकृत्य । 7 D विहाय नान्यत्रेदं पदम्। 8 D सोपि। 9D प्राविशत् । 10 D विध्वंसभयात् । 11 D समुत्तस्थौ। 12 BP .शरीरः । 13 BP आवासान् ; A आवासे। 14 D नीते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164