Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 119
________________ ९२ प्रबन्धचिन्तामणिः। [ चतुर्थः २००. यूकालक्षशतावलीवलवलल्लोलोल्ललत्कम्बलो दन्तानां मलमण्डलीपरिचयादुर्गन्धरुद्धाननः । नासावंशनिरोधनाद्गिणिगिणत्पाठप्रतिष्ठारुचिः सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति ॥ इति तदीयममन्दं निन्दास्पदं वचनमाकान्तर्भूतण्यर्थवत्तर्जनापरं वचः प्रभुभिरभिहितम् - 'पण्डित ! विशेषणं पूर्वमिति भवता किं नाधीतम् ? अतः परं सेवडहेमड इत्यभिधेयमिति । 5 सेवकैः कुन्तपश्चाद्भागेन तदाहत्य मुक्तः। श्रीकुमारपालनृपते राज्येऽशस्त्रो वध इति तद्वृत्तिच्छेदः कारितः। स ततः परं कणभिक्षया प्राणाधारं कुर्वाणः प्रभूणां पौषधशालायाः पुरतः स्थितोऽनादिभूपतितपस्विभिरधीयमानं योगशास्त्रमाकर्पोऽशठतयेदमपाठीत्२०१. आतङ्ककारणमकारणदारुणानां वक्रेण गालिगरलं निरगालि येषाम् । तेषां जटाधरफटाधरमण्डलानां श्रीयोगशास्त्रवचनामृतमुजिहीते ॥ 10 इति तद्वचसाऽमृतधारासारेण निर्वाणपूर्वोपतापास्तस्मै द्विगुणां वृत्तिं प्रसादीकृतवन्तः । ॥ इति वामराशिप्रबन्धः॥ १६३) अथ कदाचिच्चारणौ द्वौ सुराष्ट्रामण्डलनिलयौ दूहाविद्यया मिथैः स्पर्धमानौ 'श्रीहेमचन्द्राचार्येण यो व्याख्यायते सोऽपरस्य हीनोपक्षयं ददाती ति प्रतिज्ञाय श्रीमदणहिल्लपुरं प्रापतुः। तदैकेन प्रभुसभागतेन15 २०२. लच्छि-वाणिमुहकाणि सा पई भागी मुह मरउ । हेमसरिअत्थाणि जे ईसर ते पण्डिया ॥ इत्युक्त्वा तूष्णीं स्थिते तस्मिन् ; श्रीकुमारविहारे आरात्रिकावसरानन्तरं प्रणामपरो नृपः प्रभुणा दत्तपृष्ठिहस्तः क्षणं यावत्तिष्टति; अत्रान्तरे प्रविश्य" द्वितीयश्चारण: २०३. हेम तुहाला कर मरउं" जिह" अचन्भुयरिद्धि । जे चंपह हिट्ठा मुहा तीह ऊपहरी सिद्धि । इत्यनुच्छिष्टेन तद्वचसाऽन्तश्चमत्कृतो नृपतिरेतदेव भूयोभूयः पाठयामास । तेन त्रिकृत्वः पठिते 20 'किं पठिते पठिते लक्षं दास्यसी?' ति विज्ञप्तस्तस्मै त्रिलक्षी दापयामास । ॥ इति "चारणयोः प्रबन्धः॥ १६४) कदाचिच्छ्रीकुमारपालनृपतिः श्रीसङ्घाधिपतीभूय तीर्थयात्रां चिकीर्षुर्महता महेन श्रीदेवालयप्रस्थाने सञ्जाते सति देशान्तरादायातयुगलिकया 'त्वां प्रति डाहलदेशीयकर्णनृपतिरुपैतीति विज्ञप्तः । खेदविन्दुतिलकितं ललाटं दधानो मन्त्रिवाग्भटेन साकं साध्वसध्वस्तसङ्घाधिप25 यमनोरथः प्रभुपादान्ते खं निनिन्द । अथ तस्मिन्नृपतेः समुपस्थिते महाभये किञ्चिदवधार्य 'द्वादशे यामे भवतो निवृत्तिभविष्यती'त्यादिश्य विसृष्टो नृपः किंकर्तव्यतामूढो यावदास्ते तावनिर्णीतवेलायां समागतयुगलिकया 'श्रीकों दिवं गत'इति विज्ञप्तः। नृपेण ताम्बूलमुत्सृ. जता कथमिति पृष्टौ तावूचतु:-'कुम्भिकुम्भस्थलस्थः श्रीकर्णः निशि प्रयाणं कुर्वन्निद्रामुद्रितलोचनः कण्ठपीठप्रणयिना सुवर्णशृङ्खलेन प्रविष्टन्यग्रोधपादपेनोल्लम्बितः पञ्चतामञ्चितवान् । तस्य 1 D लसत्-। 2 D विरोधः। 3 B गिणिगिणितिवालप्रतिष्ठास्थितिः; D गणिगिणित्पादप्रतिष्ठा । 4 AD भूतामर्पवत्। 5 BP अभिदधे। 6 P नास्ति । 7 D विहाय नास्त्यन्यत्र। 8 D 'तद्' नास्ति । 9 D आनादि०। 10 D वक्त्रेषु। 11 P वचनामृत०। 12 AD नास्ति । 13 B ए पई; D ए यई। 14 D भरउं। 15 D अच्छीण। 16 D अभ्यण। 17 P नास्ति। 18 D भरउं । 19 AD जांह। 20 AD अच्चन्भूः । 21 AD तांह। 22 B उप्पहरी; P उप्पहरई। 23 D ततः। 24 D सौराष्ट्रचारणयोः। 25 AD उत्सृज्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164