________________
९२
प्रबन्धचिन्तामणिः।
[ चतुर्थः २००. यूकालक्षशतावलीवलवलल्लोलोल्ललत्कम्बलो दन्तानां मलमण्डलीपरिचयादुर्गन्धरुद्धाननः ।
नासावंशनिरोधनाद्गिणिगिणत्पाठप्रतिष्ठारुचिः सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति ॥ इति तदीयममन्दं निन्दास्पदं वचनमाकान्तर्भूतण्यर्थवत्तर्जनापरं वचः प्रभुभिरभिहितम् - 'पण्डित ! विशेषणं पूर्वमिति भवता किं नाधीतम् ? अतः परं सेवडहेमड इत्यभिधेयमिति । 5 सेवकैः कुन्तपश्चाद्भागेन तदाहत्य मुक्तः। श्रीकुमारपालनृपते राज्येऽशस्त्रो वध इति तद्वृत्तिच्छेदः कारितः। स ततः परं कणभिक्षया प्राणाधारं कुर्वाणः प्रभूणां पौषधशालायाः पुरतः स्थितोऽनादिभूपतितपस्विभिरधीयमानं योगशास्त्रमाकर्पोऽशठतयेदमपाठीत्२०१. आतङ्ककारणमकारणदारुणानां वक्रेण गालिगरलं निरगालि येषाम् ।
तेषां जटाधरफटाधरमण्डलानां श्रीयोगशास्त्रवचनामृतमुजिहीते ॥ 10 इति तद्वचसाऽमृतधारासारेण निर्वाणपूर्वोपतापास्तस्मै द्विगुणां वृत्तिं प्रसादीकृतवन्तः ।
॥ इति वामराशिप्रबन्धः॥ १६३) अथ कदाचिच्चारणौ द्वौ सुराष्ट्रामण्डलनिलयौ दूहाविद्यया मिथैः स्पर्धमानौ 'श्रीहेमचन्द्राचार्येण यो व्याख्यायते सोऽपरस्य हीनोपक्षयं ददाती ति प्रतिज्ञाय श्रीमदणहिल्लपुरं प्रापतुः। तदैकेन प्रभुसभागतेन15 २०२. लच्छि-वाणिमुहकाणि सा पई भागी मुह मरउ । हेमसरिअत्थाणि जे ईसर ते पण्डिया ॥
इत्युक्त्वा तूष्णीं स्थिते तस्मिन् ; श्रीकुमारविहारे आरात्रिकावसरानन्तरं प्रणामपरो नृपः प्रभुणा दत्तपृष्ठिहस्तः क्षणं यावत्तिष्टति; अत्रान्तरे प्रविश्य" द्वितीयश्चारण:
२०३. हेम तुहाला कर मरउं" जिह" अचन्भुयरिद्धि । जे चंपह हिट्ठा मुहा तीह ऊपहरी सिद्धि । इत्यनुच्छिष्टेन तद्वचसाऽन्तश्चमत्कृतो नृपतिरेतदेव भूयोभूयः पाठयामास । तेन त्रिकृत्वः पठिते 20 'किं पठिते पठिते लक्षं दास्यसी?' ति विज्ञप्तस्तस्मै त्रिलक्षी दापयामास ।
॥ इति "चारणयोः प्रबन्धः॥ १६४) कदाचिच्छ्रीकुमारपालनृपतिः श्रीसङ्घाधिपतीभूय तीर्थयात्रां चिकीर्षुर्महता महेन श्रीदेवालयप्रस्थाने सञ्जाते सति देशान्तरादायातयुगलिकया 'त्वां प्रति डाहलदेशीयकर्णनृपतिरुपैतीति विज्ञप्तः । खेदविन्दुतिलकितं ललाटं दधानो मन्त्रिवाग्भटेन साकं साध्वसध्वस्तसङ्घाधिप25 यमनोरथः प्रभुपादान्ते खं निनिन्द । अथ तस्मिन्नृपतेः समुपस्थिते महाभये किञ्चिदवधार्य 'द्वादशे यामे भवतो निवृत्तिभविष्यती'त्यादिश्य विसृष्टो नृपः किंकर्तव्यतामूढो यावदास्ते तावनिर्णीतवेलायां समागतयुगलिकया 'श्रीकों दिवं गत'इति विज्ञप्तः। नृपेण ताम्बूलमुत्सृ. जता कथमिति पृष्टौ तावूचतु:-'कुम्भिकुम्भस्थलस्थः श्रीकर्णः निशि प्रयाणं कुर्वन्निद्रामुद्रितलोचनः कण्ठपीठप्रणयिना सुवर्णशृङ्खलेन प्रविष्टन्यग्रोधपादपेनोल्लम्बितः पञ्चतामञ्चितवान् । तस्य
1 D लसत्-। 2 D विरोधः। 3 B गिणिगिणितिवालप्रतिष्ठास्थितिः; D गणिगिणित्पादप्रतिष्ठा । 4 AD भूतामर्पवत्। 5 BP अभिदधे। 6 P नास्ति । 7 D विहाय नास्त्यन्यत्र। 8 D 'तद्' नास्ति । 9 D आनादि०। 10 D वक्त्रेषु। 11 P वचनामृत०। 12 AD नास्ति । 13 B ए पई; D ए यई। 14 D भरउं। 15 D अच्छीण। 16 D अभ्यण। 17 P नास्ति। 18 D भरउं । 19 AD जांह। 20 AD अच्चन्भूः । 21 AD तांह। 22 B उप्पहरी; P उप्पहरई। 23 D ततः। 24 D सौराष्ट्रचारणयोः। 25 AD उत्सृज्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org