________________
प्रकाशः]
कुमारपालादिप्रबन्धः। १५६) मयापहृते धने पुरा कश्चिन्मूषको मृतस्तत्मायश्चित्ते राज्ञा याचिते तच्छ्रेयसें प्रभुभिस्तनामाङ्कितो विहारः कारितः।
१५७) तथा च कयापि व्यवहारिवध्वाऽज्ञातज्ञातिनामग्रामसम्बन्धया पथि दिनत्रयं वुभुक्षितो नृपतिः शालिकरम्बेन सुहितीकृतस्तत्कृतज्ञतया तत्पुण्याभिवृद्धये करम्बकविहारं श्रीपत्तनेऽकारयत् ।
१५८) तथा यूकाविहारश्चैवम्-सपादलक्षदेशे कश्चिदविवेकी धनी केशसंमार्जनावसरे प्रियापितां यूकां करतले सङ्गह्य पीडाकारिणी तां तर्जयंश्चिरेण मृदित्वा व्यापदयामास । संनिहिते. नामारिकारिपञ्चकुलेन स श्रीमदणहिल्लपुरे समानीय नृपाय निवेदितः । तदनु प्रभूणामादेशात्तद्दण्डपदे तस्य सर्वखेन तत्रैव यूकाविहारः कारितः। ॥ इति यूकाविहारप्रबन्धः॥
____10 १५९) अथ स्तम्भतीर्थे सामान्ये सालिगवसहिकाप्रासादे यत्र प्रभूणां दीक्षाक्षणो बभूव तत्र रत्नमयंबिम्बालङ्कृतो निरुपमो जीर्णोद्धारः कारितः।
॥ इति सालिगवसंहि-उद्धारप्रवन्धः॥ १६०) अथ श्रीसोमेश्वरपत्तने कुमारविहारप्रासादे बृहस्पतिनामा गण्डः कामप्यरतिं कुर्वाणः प्रभोरप्रसादाद्दष्टप्रतिष्ठः श्रीमदणहिल्लपुरं प्राप्य षोढावश्यकेऽपि प्रौढिं प्राप्तः प्रभून सिषेवे । 15 कदाचिचातुर्मासिकपारणके प्रभूणां पादयोगोंदशावत्तेंवन्दनादनु१९९. चतुर्मासीमासीतव पदयुगं नाथ निकषा कषायप्रध्वंसाद्विकृतिपरिहारव्रतमिदम् ।
___ इदानीमुद्भिद्यनिजचरणनिर्लोठितकलेजलक्लिन्नैरन्नमुनितिलक ! वृत्तिर्भवतु मे ॥ इति विज्ञपयंस्तत्कालागतेन राज्ञा प्रसन्नान् प्रभून् विमृश्य स पुनरेव तत्पददानपात्रीकृतः।।
॥ इति बृहस्पतिप्रबन्धः"॥ १६१) अन्यदा सर्वावसरस्थितेन राज्ञा आलिगनामा वृद्धप्रधानपुरुष इत्यपृच्छयत"-'यदहं श्रीसिद्धनृपतेहीनः समानोऽधिको वा?' तेन चाऽछलप्रार्थनापूर्व 'श्रीसिद्धनृपतेरष्टनवतिर्गुणों द्वौ दोषी; खामिनस्तु द्वौ गुणौ तत्संख्या एव दोषाः' इति निवेदिते नृपतिर्दोषमये आत्मनि विरागं दधानो यावच्छुरिकां चक्षुषि क्षिपति तावत्तदा तदाशयविदा तेनेति व्यज्ञपि-'श्रीसिद्धनृपतेरष्टनवतिर्गुणाः सङ्ग्रामाऽसुभटता-स्त्रीलम्पटतादोषाभ्यां तिरोहिताः, कार्पण्यादयो भवदोषास्तु 25 समरशरता-परनारीसहोदरतागुणाभ्यामपहृताः' इति तद्वचसा स पृथ्वीनाथा खस्थावस्थस्तस्थौ ।
॥ इति आलिगप्रबन्धः ॥ १६२) अथ पुरा श्रीसिद्धराजराज्ये पाण्डित्ये स्पर्धमानो वामराशिनामा विप्रः प्रभूणां प्रतिष्ठानिष्ठां विशिष्टामसहिष्णु:
1 BP विपन्नः। 2 BP प्रायश्चित्तं यच्छतेति भूपेन विज्ञप्तः। 3 P धनवान् । 4 A गृह्य; BP कलयन् । 5 D 'मय' नास्ति। 6 P नास्ति। 7 AD प्रभुदीक्षावसहिकाया उद्धार। 8 AD 'पि' नास्ति। 9 D प्राप्य। 10 D यावत् । 11 P इदानीमभ्युद्यः। 12 D बृहस्पतिगण्डस्य पुनः पददानप्रबन्धः। 13 AD वृद्धः। 14 AB अपृच्छन् । 15 AD षण्णवति। 16 AD तद्वाक्यादनु दोषः। 17 BP क्षुरिकायां चक्षुनिक्षिपति । 18 D तावदाशय। 19 P तिरस्कृताः । 20 P स्वस्थामवस्थामाप।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org