________________
15
प्रबन्धचिन्तामणिः।
[ चतुर्थः १५२) कदाचित् केनापि पण्डितेनोर्वशीशब्दे शकारस्तालव्यो दन्त्यो वेतिपृष्टे यावत्प्रभवः किश्चित्समादिशन्ति तावत्, ऊरौ शेते उर्वशीति पत्रकं लिखित्वा श्रीकपर्दिना प्रभोरुत्सङ्गे मुक्तम् । तत्प्रामाण्यात्तालव्यशकारनिर्णयस्तदने प्रभुभिरभिहितः।
॥ इत्युर्वशीशब्दप्रबन्धः* ॥ 5 १५३) अथान्यदा सपादलक्षीयराज्ञः कश्चित्सान्धिविग्रहिकः श्रीकुमारपालनृपतेः सभायामुपेतो राज्ञा भवत्वामिनः कुशलमिति पृष्टः ।स मिथ्याभिमानी पण्डितमानी च 'विश्वं लातीति विश्वलस्तस्य च को विजयसन्देहः । राज्ञा प्रेरितेन श्रीमता कपर्दिना मन्त्रिणा-श्वलश्वल्ल आशुगतौ इति धातोर्विरिव श्वलतीति नश्यतीति विश्वलः । अनन्तरं प्रधानेन तन्नामदूषणं विज्ञप्तः
स राजा विग्रहराज इति पण्डितमुखान्नार्म बभार । परस्मिन्वर्षे स एव प्रधान श्रीकुमारपाल10 नृपतेः पुरो विग्रहराज इति नाम विज्ञपयन्, मत्रिणा श्रीकपर्दिना-विग्रो विगतनासिक एवं विधो ह-राजौ रुद्रनारायणौ कृतौ येन इति । तदनन्तरं स नृपः कपर्दिना नामखण्डनभीरुः कविबान्धव इति नाम बभार।
१५४) अथान्यदा श्रीकुमारपालनृपपुरतः श्रीयोगशास्त्रव्याख्याने सञ्जायमाने पञ्चदशकर्मादानेषु वाच्यमानेषु
"दन्तकेशनखास्थित्वगोम्णां ग्रहणमाकरे". इति प्रभुकृते मूलपाठे पं० उदयचन्द्र रोम्णां ग्रहणमिति भूयो भूयो वाचयन्तं प्रभुभिलिपिभेदं पृष्टे स "प्राणितूर्याङ्गानाम्" इति व्याकरणसूत्रेण प्राण्यङ्गानां सिद्धमेकत्वमिति लक्षणविशेष विज्ञपयन् प्रभुभिः श्लाघितो राज्ञा न्युञ्छने सम्भावितः"।
॥ इति पं० उदयचन्द्रप्रबन्धः ॥ 20 १५५) अथ कदाचित्स राजर्षितपूरभोजनं कुर्वन् किञ्चिद्विचिन्त्य कृतसाहारपरिहारः पवित्री
भूय" इति प्रभुं पप्रच्छ-'यदस्माकं घृतपूराहारो युज्यते नवा ?' इति प्रभुभिरभिदधे-'वणिगब्राह्मणयोयुज्यते, कृताभक्ष्यनियमस्य क्षत्रियस्य तु न । तेन पिशिताहारस्यानुस्मरणं भवति ।' इत्थमेवेति पृथ्वीपतिरभिधाय पूर्वभक्षितस्याभक्ष्यस्य प्रायश्चित्तं याचितवान्"।द्वात्रिंशद्दशनसंख्यया एकमिन्" भिडवन्धे द्वात्रिंशद्विहारान्कारयेति । राज्ञा तथाकृते, प्रभुदत्ते प्रतिष्ठालग्ने वटपद्रका25 निजप्रासादमूलनायकप्रतिष्ठा कारयितुं श्रीपत्तनमुपेयुषि कान्हूंनाम्नि व्यवहारिणि तन्नगरमुख्ये प्रासादे तद्विम्बं मुक्त्वा यावदुपहारान्गृहीत्वा स पुनरुपैति तावन्नृपतेरङ्गरक्षकैर्निरुद्धे द्वारि अन्तः प्रवेशमलभमानः कियति काले व्यतिक्रान्ते उत्थितैर्द्वारपालकैर्व्यतीते प्रतिष्ठोत्सवे" स तत्र प्रविश्य प्रभोः पादमूले लगित्वा सोपालम्भं भृशं रुरोद । प्रभुभिरन्यथा दुरपनेयं तस्य दुःखं विमृश्य रङ्गमण्डपावहिर्भूत्वा नक्षत्रचारेण खदत्तं लग्नमुदितं व्योनि विलोक्य 'कूटघटिका30 सम्बन्धेन नैमित्तिकेन यस्मिल्लग्ने बिम्बानि प्रतिष्ठापितानि तेषां वर्षत्रयमायुः। सम्प्रतितने लग्ने तु प्रतिष्ठितं बिम्बमिदं चिरायुरिति प्रभुभिरादिष्टम् । स तदैव प्रतिष्ठामकारयत्तत्पभूक्तं तथैव जज्ञे।
॥ इत्यभक्ष्यभक्षणप्रायश्चित्तप्रबन्धः॥ 1AP तथा। 2D उरून् अश्नुते। 3P सभामायातो। 4 P नास्त्येतत् पदम्। 5 D इत्येवं । 6 AD इति नाम । 7D प्रधानः पुरुषः। 8AD एवं। 9AD नास्ति। 10D व्याख्यातं तदित्यवगम्य तदनन्तरं। 11 BP 'अथ' नास्ति । 12-13 D नास्त्येतत्पदद्वयम्। 14 नास्त्येतत्पदं ADI 15-16 BP प्रायश्चित्ते याचिते। 17-18 D नास्ति। 19 AD 'प्रतिष्ठा' नास्ति । 20 B कान्हड०। 21 P निरुद्धः। 22 D प्रतिष्ठाकाले। 23 AD 'भृशं' नास्ति । 24 'स्वदत्त' स्थाने AD स्वं ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org