________________
प्रकाश:]
कुमारपालादिप्रबन्धः। ध्यायस्य समीपे मातृकापाठात्प्रभृति शास्त्राण्यारभ्यैकेन वर्षेण वृत्तिकाव्यत्रयमधीतम् । विचारचतुर्मुखमिति बिरुदमर्जितम् ।
॥ इति विचारचतुर्मुखश्रीकुमारपालाध्ययनप्रबन्धः ॥ १४९) कस्मिन्नप्यऽवसरे विश्वेश्वरनामा कविराणस्याः श्रीपत्तनमुपागतः प्रभुश्रीहेमसूरीणां । संसदि प्राप्तः । तत्र कुमारपालनृपती विद्यमाने सः१९५. पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् ।
इति भणित्वा विलम्बमानो नृपेण सक्रोधं निरक्ष्यत।
षट्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥ इत्युत्तरार्द्धपरितोषितसमाजलोकः श्रीरामचन्द्रादीनां समस्यां समर्पयामास१९६. व्याषिद्धा नयने मुखं च रुदती स्वे गर्हिते कन्यका नैतस्याः प्रसूतिद्वयेन सरले शक्ये पिधातुं दृशौ । 10
सर्वत्रापि च लक्ष्यते मुखशशिज्योत्स्नावितानैरियमित्थं मध्यगता सखीभिरभितो दृग्मीलनाकेलिषु ॥ व्याषिद्धा। इति श्रीकपर्दिना महामात्येन पूरितायां समस्यायां पश्चात्कविः पश्चाशत्सहस्र मूल्यं निजं ग्रैवेयकं श्रीकपर्दिनः कण्ठे 'श्रीभारत्याः पदम्' इत्युच्चरन्निवेशयामास । अथ तद्वैदग्ध्यचमत्कृतेन नृपतिना खसंनिधौ स्थाप्यमान:१९७. कथाशेषः कर्णोऽजनि जनकृशा काशिनगरी सहर्ष हेषन्ते हरिहरिति हम्मीरहरयः।।
सरस्वत्याश्लेषप्रवणलवणोदप्रणयिनि प्रभासस्य क्षेत्रे मम हृदयमुत्कण्ठितमदः॥ इत्युक्त्वाऽऽपृच्छय नृपसत्कृतः स यथास्थानमगात्।
१५०) कदाचिद्देवश्रीकुमारविहारे नृपाहूताः प्रभवः श्रीकपर्दिना दत्तहस्तावलम्बा यावत्सोपानमारोहन्ति तावन्नतक्याः कञ्चके गुणमाकृष्यमाणं विलोक्य श्रीकपर्दी१९८. सोहग्गिउ सहिकञ्चयउ जुत्तउ ताणु करेइ ।
20 एवमुक्त्वा यावद्विलम्बते पुट्टिहिं पच्छइ तरुणीयणु" जसु गुणगहणु करेइ ॥
___ इति श्रीप्रभुपादैरुत्तरार्द्धमपूरि । . १५१) कदाचित्प्रत्यूषे श्रीकपर्दिमन्त्री प्रणामानन्तरं श्रीसूरिभिहस्ते किमेतदिति पृष्टःसप्राकृतभाषया ह र ड इ इति विज्ञपयामास । प्रभुभिरुक्तम्-'किमद्यापि?' अनाहतप्रतिभतया तद्वचन-25 च्छलमाकलय्य कपर्दिनोक्तम्-'इदानीं तु न ।' कुतोऽन्त्योऽप्याद्योऽभूत् , मात्राधिकश्च । हर्षाश्रुपूरपूर्णदृशःप्रभवः श्रीरामचन्द्रप्रभृतिपण्डितानां पुरस्तात्तच्चातुरी प्रशशंसुः। तैरज्ञाततत्त्वैः किमिति पृष्टो ह र ड इ इति शब्दच्छलेन हकारो रडइ; अस्माभिरुक्तम्-'किमद्यापि?' इत्यभिहितमात्रेण वचस्तत्त्वविदाऽनेन नेदानीमुक्तम् । यतः पुरा मातृकाशास्त्रे हकारः प्रान्ते पठ्यते अत एव रडइ, साम्प्रतं त्वस्मन्नामनि प्रथमस्तथा मात्राधिकश्च ।।
॥ इति ह र ड इ प्रबन्धः ॥ + 'इति नृपाध्ययनप्रबन्धः।' इत्येव P आदर्शे। 1 B बाणारस्याः। 2 BP उपेतः। 3D 'प्रभु' नास्ति । 4 B इक्षितः; P निरीक्षितः। 5 BP नास्त्येतत्पदम्। 6D पृच्छयमानो आपृच्छय । 7 P यथागतं । 8 AD कुमारपालविहारे । 9D.त्ताणु; P ताडु। 10 B.जणु। 11 P विना न। 12 AD आहत। 13 BD परि०। 14 D नास्त्येतत्पदम् । * D पुस्तक एवेदं समाप्तिसूचकं वाक्यं विद्यते । .
30
12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org