SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [ चतुर्थः गुरोश्चरणौ प्रणम्य साधर्मिकवन्दनापूर्व नृपतिं सत्वरारात्रिकहेतुं पप्रच्छ । 'यथा द्यूतकारो द्यूतरसातिरेकाच्छिरःप्रभृतीन पदार्थान पणीकुरुते तथा 'भवानप्यतः परमर्थिप्रार्थितस्त्यागरसातिरेकाच्छिरोऽपि तेभ्यो ददासी ति नृपेणादिष्टे 'तल्लोकोत्तरचरित्रेणापहृतहृदया विस्मृताजन्ममनुव्यस्तुतिनियमाः श्रीहैमाचार्याः5 १९२. किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः । कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥ -इत्थमाम्रभटमनुमोद्य क्षमापती यथागतं जग्मतुः । १४७) अथ तत्रागतानां प्रभूणां श्रीमदाम्रभटस्याकस्मिकदेवीदोषात्पर्यन्तदशांगतस्यापृच्छनविज्ञप्तिकायामुपागतायां सत्यां तत्कालमेव-तस्य महात्मनः प्रासादशिखरे नृत्यतो मिथ्यादृशां देवीनां दोषः सञ्जातः-इत्यवधार्य प्रदोषकाले यशश्चन्द्रतपोधनेन समं खेचरगत्योत्पत्य निमेषमा10 बादलङ्कृतभृगुपुरपरिसरभुवः प्रभवः सैन्धवां देवीमनुनेतुं कृतकायोत्सर्गास्तया जिह्वाकर्षणादव गणनास्पदं नीयमाना, उदूखले शालितन्दुलान्प्रक्षिप्य यशश्चन्द्रगणिना प्रदीयमाने मुशलप्रहारे प्राक् प्रासादः कम्पितः, द्वितीये प्रहारे दीयमाने सा देवीमूर्तिरेव स्वस्थानादुत्पत्य 'वज्रपाणिवज्रप्रहारेभ्यो रक्ष रक्ष' इत्युचरन्ती प्रभोश्चरणयोर्निपपात। इत्थमनवद्यविद्याबलात्तन्मूलानां मिथ्याहरव्यन्तराणां दोष निगृह्य श्रीसुव्रतप्रासादमाजग्मुः । 15 १९३. संसारार्णवसेतवः शिवपथप्रस्थानदीपाङ्कुरा विश्वालम्बनयष्टयः परमंतव्यामोहकेतूद्गमाः । किं वासाकमनोमतङ्गजदृढालानैकलीलाजुषस्त्रायन्तां नखरश्मयश्चरणयोः श्रीसुव्रतस्वामिनः॥ इति स्तुतिभिः श्रीमुनिसुव्रतमुपास्य श्रीमदाम्रभटमुल्लाघलानेन पटूकृत्य यथागतमागुः। श्रीमदुदयनचैत्ये शकुनिकाविहारे घटीगृहे राज्ञा कौङ्कणनृपतेः कलशत्रितयं स्थानत्रये न्यास्थत् ॥ ॥ इति श्रीराजपितामह-आम्रभर्टप्रवन्धः॥ 20 १४८) अथान्यस्मिन्नऽवसरे कुमारपालनृपतिः पाण्डित्यलिप्सया कपर्दिमन्त्रिणोऽनुमतेन भोजनानन्तरक्षणे केनापि विदुषा वाच्यमाने कामन्दकीयनीतिशास्त्रे १९४. पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ वाक्यमिदमाकर्ण्य नृपतेर्मेघ ऊ प म्या इति कुमारपालभूपालेनाभिहिते सर्वेष्वपि सामाजिकेषु न्युञ्छनानि कुर्वाणेषु तदा कपर्दिमन्त्रिणमवाङ्मुखं वीक्ष्य," एकान्ते नृपपृष्ट एवमवादीत्-'ऊ प 25 म्या शब्दे खामिना स्वयमुच्चरिते सर्वव्याकरणेषु अपप्रयोगे "एभिश्छन्दानुवर्तिभिर्युञ्छनानि क्रियमाणे मम द्वेधाऽप्यवाङ्मुखत्वं “समुचितम्। तथा वरमराजकं विश्वं न तु मूखों राजेति प्रतीपभूपालमण्डलेष्वपकीर्तिः प्रसरति । अतोऽस्मिन्नर्थे उपमान उपमेयं" औपम्यं उपमा-इत्याद्याः शब्दाः शुद्धा' इति तद्वचनानन्तरं राज्ञा शब्दव्युत्पत्तिज्ञानहेतवे पञ्चाशद्वर्षदेश्येन कस्याप्युपा ____1 P त्वमपि। 2 ABD भवल्लो.। 3 AD दशामागतस्य । 4 AD प्रासादप्रकम्पः। 5 D नास्ति । 6 AD वज्रपाणिप्रहा। 7P आसेदीवांसः। 8P परपथः । इतोऽग्रे Da ‘एवं शकुनिकाविहारोद्धारे कोटिद्वयं व्ययितम् । एतदधिक वाक्यं विद्यते। 9 P श्रीमदाम्रभटः। 10 AD कुमारपालनामा । 11 D नन्तरं क्षणं। 12 BP आलोक्य। 13 D • व्याकरणेष्वेतत्प्रयोगापेतेषु छन्दानु०। 14 D द्वेधाऽवाङ्मुखत्वमुचितं । 15 P भुवनं। 16 P विना न। 17 P नास्ति । 18 D नास्त्येतत्पदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002519
Book TitlePrabandha Chintamani
Original Sutra AuthorMerutungacharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy