Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 117
________________ 15 प्रबन्धचिन्तामणिः। [ चतुर्थः १५२) कदाचित् केनापि पण्डितेनोर्वशीशब्दे शकारस्तालव्यो दन्त्यो वेतिपृष्टे यावत्प्रभवः किश्चित्समादिशन्ति तावत्, ऊरौ शेते उर्वशीति पत्रकं लिखित्वा श्रीकपर्दिना प्रभोरुत्सङ्गे मुक्तम् । तत्प्रामाण्यात्तालव्यशकारनिर्णयस्तदने प्रभुभिरभिहितः। ॥ इत्युर्वशीशब्दप्रबन्धः* ॥ 5 १५३) अथान्यदा सपादलक्षीयराज्ञः कश्चित्सान्धिविग्रहिकः श्रीकुमारपालनृपतेः सभायामुपेतो राज्ञा भवत्वामिनः कुशलमिति पृष्टः ।स मिथ्याभिमानी पण्डितमानी च 'विश्वं लातीति विश्वलस्तस्य च को विजयसन्देहः । राज्ञा प्रेरितेन श्रीमता कपर्दिना मन्त्रिणा-श्वलश्वल्ल आशुगतौ इति धातोर्विरिव श्वलतीति नश्यतीति विश्वलः । अनन्तरं प्रधानेन तन्नामदूषणं विज्ञप्तः स राजा विग्रहराज इति पण्डितमुखान्नार्म बभार । परस्मिन्वर्षे स एव प्रधान श्रीकुमारपाल10 नृपतेः पुरो विग्रहराज इति नाम विज्ञपयन्, मत्रिणा श्रीकपर्दिना-विग्रो विगतनासिक एवं विधो ह-राजौ रुद्रनारायणौ कृतौ येन इति । तदनन्तरं स नृपः कपर्दिना नामखण्डनभीरुः कविबान्धव इति नाम बभार। १५४) अथान्यदा श्रीकुमारपालनृपपुरतः श्रीयोगशास्त्रव्याख्याने सञ्जायमाने पञ्चदशकर्मादानेषु वाच्यमानेषु "दन्तकेशनखास्थित्वगोम्णां ग्रहणमाकरे". इति प्रभुकृते मूलपाठे पं० उदयचन्द्र रोम्णां ग्रहणमिति भूयो भूयो वाचयन्तं प्रभुभिलिपिभेदं पृष्टे स "प्राणितूर्याङ्गानाम्" इति व्याकरणसूत्रेण प्राण्यङ्गानां सिद्धमेकत्वमिति लक्षणविशेष विज्ञपयन् प्रभुभिः श्लाघितो राज्ञा न्युञ्छने सम्भावितः"। ॥ इति पं० उदयचन्द्रप्रबन्धः ॥ 20 १५५) अथ कदाचित्स राजर्षितपूरभोजनं कुर्वन् किञ्चिद्विचिन्त्य कृतसाहारपरिहारः पवित्री भूय" इति प्रभुं पप्रच्छ-'यदस्माकं घृतपूराहारो युज्यते नवा ?' इति प्रभुभिरभिदधे-'वणिगब्राह्मणयोयुज्यते, कृताभक्ष्यनियमस्य क्षत्रियस्य तु न । तेन पिशिताहारस्यानुस्मरणं भवति ।' इत्थमेवेति पृथ्वीपतिरभिधाय पूर्वभक्षितस्याभक्ष्यस्य प्रायश्चित्तं याचितवान्"।द्वात्रिंशद्दशनसंख्यया एकमिन्" भिडवन्धे द्वात्रिंशद्विहारान्कारयेति । राज्ञा तथाकृते, प्रभुदत्ते प्रतिष्ठालग्ने वटपद्रका25 निजप्रासादमूलनायकप्रतिष्ठा कारयितुं श्रीपत्तनमुपेयुषि कान्हूंनाम्नि व्यवहारिणि तन्नगरमुख्ये प्रासादे तद्विम्बं मुक्त्वा यावदुपहारान्गृहीत्वा स पुनरुपैति तावन्नृपतेरङ्गरक्षकैर्निरुद्धे द्वारि अन्तः प्रवेशमलभमानः कियति काले व्यतिक्रान्ते उत्थितैर्द्वारपालकैर्व्यतीते प्रतिष्ठोत्सवे" स तत्र प्रविश्य प्रभोः पादमूले लगित्वा सोपालम्भं भृशं रुरोद । प्रभुभिरन्यथा दुरपनेयं तस्य दुःखं विमृश्य रङ्गमण्डपावहिर्भूत्वा नक्षत्रचारेण खदत्तं लग्नमुदितं व्योनि विलोक्य 'कूटघटिका30 सम्बन्धेन नैमित्तिकेन यस्मिल्लग्ने बिम्बानि प्रतिष्ठापितानि तेषां वर्षत्रयमायुः। सम्प्रतितने लग्ने तु प्रतिष्ठितं बिम्बमिदं चिरायुरिति प्रभुभिरादिष्टम् । स तदैव प्रतिष्ठामकारयत्तत्पभूक्तं तथैव जज्ञे। ॥ इत्यभक्ष्यभक्षणप्रायश्चित्तप्रबन्धः॥ 1AP तथा। 2D उरून् अश्नुते। 3P सभामायातो। 4 P नास्त्येतत् पदम्। 5 D इत्येवं । 6 AD इति नाम । 7D प्रधानः पुरुषः। 8AD एवं। 9AD नास्ति। 10D व्याख्यातं तदित्यवगम्य तदनन्तरं। 11 BP 'अथ' नास्ति । 12-13 D नास्त्येतत्पदद्वयम्। 14 नास्त्येतत्पदं ADI 15-16 BP प्रायश्चित्ते याचिते। 17-18 D नास्ति। 19 AD 'प्रतिष्ठा' नास्ति । 20 B कान्हड०। 21 P निरुद्धः। 22 D प्रतिष्ठाकाले। 23 AD 'भृशं' नास्ति । 24 'स्वदत्त' स्थाने AD स्वं । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164