Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 118
________________ प्रकाशः] कुमारपालादिप्रबन्धः। १५६) मयापहृते धने पुरा कश्चिन्मूषको मृतस्तत्मायश्चित्ते राज्ञा याचिते तच्छ्रेयसें प्रभुभिस्तनामाङ्कितो विहारः कारितः। १५७) तथा च कयापि व्यवहारिवध्वाऽज्ञातज्ञातिनामग्रामसम्बन्धया पथि दिनत्रयं वुभुक्षितो नृपतिः शालिकरम्बेन सुहितीकृतस्तत्कृतज्ञतया तत्पुण्याभिवृद्धये करम्बकविहारं श्रीपत्तनेऽकारयत् । १५८) तथा यूकाविहारश्चैवम्-सपादलक्षदेशे कश्चिदविवेकी धनी केशसंमार्जनावसरे प्रियापितां यूकां करतले सङ्गह्य पीडाकारिणी तां तर्जयंश्चिरेण मृदित्वा व्यापदयामास । संनिहिते. नामारिकारिपञ्चकुलेन स श्रीमदणहिल्लपुरे समानीय नृपाय निवेदितः । तदनु प्रभूणामादेशात्तद्दण्डपदे तस्य सर्वखेन तत्रैव यूकाविहारः कारितः। ॥ इति यूकाविहारप्रबन्धः॥ ____10 १५९) अथ स्तम्भतीर्थे सामान्ये सालिगवसहिकाप्रासादे यत्र प्रभूणां दीक्षाक्षणो बभूव तत्र रत्नमयंबिम्बालङ्कृतो निरुपमो जीर्णोद्धारः कारितः। ॥ इति सालिगवसंहि-उद्धारप्रवन्धः॥ १६०) अथ श्रीसोमेश्वरपत्तने कुमारविहारप्रासादे बृहस्पतिनामा गण्डः कामप्यरतिं कुर्वाणः प्रभोरप्रसादाद्दष्टप्रतिष्ठः श्रीमदणहिल्लपुरं प्राप्य षोढावश्यकेऽपि प्रौढिं प्राप्तः प्रभून सिषेवे । 15 कदाचिचातुर्मासिकपारणके प्रभूणां पादयोगोंदशावत्तेंवन्दनादनु१९९. चतुर्मासीमासीतव पदयुगं नाथ निकषा कषायप्रध्वंसाद्विकृतिपरिहारव्रतमिदम् । ___ इदानीमुद्भिद्यनिजचरणनिर्लोठितकलेजलक्लिन्नैरन्नमुनितिलक ! वृत्तिर्भवतु मे ॥ इति विज्ञपयंस्तत्कालागतेन राज्ञा प्रसन्नान् प्रभून् विमृश्य स पुनरेव तत्पददानपात्रीकृतः।। ॥ इति बृहस्पतिप्रबन्धः"॥ १६१) अन्यदा सर्वावसरस्थितेन राज्ञा आलिगनामा वृद्धप्रधानपुरुष इत्यपृच्छयत"-'यदहं श्रीसिद्धनृपतेहीनः समानोऽधिको वा?' तेन चाऽछलप्रार्थनापूर्व 'श्रीसिद्धनृपतेरष्टनवतिर्गुणों द्वौ दोषी; खामिनस्तु द्वौ गुणौ तत्संख्या एव दोषाः' इति निवेदिते नृपतिर्दोषमये आत्मनि विरागं दधानो यावच्छुरिकां चक्षुषि क्षिपति तावत्तदा तदाशयविदा तेनेति व्यज्ञपि-'श्रीसिद्धनृपतेरष्टनवतिर्गुणाः सङ्ग्रामाऽसुभटता-स्त्रीलम्पटतादोषाभ्यां तिरोहिताः, कार्पण्यादयो भवदोषास्तु 25 समरशरता-परनारीसहोदरतागुणाभ्यामपहृताः' इति तद्वचसा स पृथ्वीनाथा खस्थावस्थस्तस्थौ । ॥ इति आलिगप्रबन्धः ॥ १६२) अथ पुरा श्रीसिद्धराजराज्ये पाण्डित्ये स्पर्धमानो वामराशिनामा विप्रः प्रभूणां प्रतिष्ठानिष्ठां विशिष्टामसहिष्णु: 1 BP विपन्नः। 2 BP प्रायश्चित्तं यच्छतेति भूपेन विज्ञप्तः। 3 P धनवान् । 4 A गृह्य; BP कलयन् । 5 D 'मय' नास्ति। 6 P नास्ति। 7 AD प्रभुदीक्षावसहिकाया उद्धार। 8 AD 'पि' नास्ति। 9 D प्राप्य। 10 D यावत् । 11 P इदानीमभ्युद्यः। 12 D बृहस्पतिगण्डस्य पुनः पददानप्रबन्धः। 13 AD वृद्धः। 14 AB अपृच्छन् । 15 AD षण्णवति। 16 AD तद्वाक्यादनु दोषः। 17 BP क्षुरिकायां चक्षुनिक्षिपति । 18 D तावदाशय। 19 P तिरस्कृताः । 20 P स्वस्थामवस्थामाप। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164