Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रकाशः]
कुमारपालादिप्रबन्धः। न नमस्कुर्वन्तीति मिथ्यागवचसा भ्रान्तचित्तस्य श्रीहेमचन्द्र प्रति एवंविधा गीराविरासीत'यदि युज्यते तदैतैर्मनोहारिभिरुपहारैः श्रीसोमेश्वरमर्चयन्तु भवतः।' तत्तथेति प्रतिपद्य सद्यः' क्षितिपकोशादागतेन कमनीयेनोद्गमनीयेनालङ्कृततनुम्रपतिनिदेशाच्छ्रीबृहस्पतिना दत्तहस्तावलम्बः प्रासाददेहलीमधिरुह्य किश्चिद्विचिन्त्य प्रकाशं-'अस्मिन्प्रासादे कैलासनिवासी श्रीमहादेवः साक्षादस्तीति रोमाञ्चकञ्चकितां तनुं विभ्राणो द्विगुणीक्रियतामुपहारः' इत्यादिश्य शिवपु-5 राणोक्तदीक्षाविधिनाऽऽह्वाननावगुण्ठनमुद्रामन्त्रन्यासविसर्जनोपचारादिभिः पञ्चोपचारविधिभिः शिवमभ्यय॑ तदन्ते
१८७. यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया ।
वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ १८८. भववीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा महेश्वरो वा नमस्तस्मै ॥ 10 इत्यादिस्तुतिभिः सकलराजलोकान्विते राज्ञि सविस्मयमवलोकमाने दण्डप्रणामपूर्व स्तुत्वा श्रीहेमाचार्य उपरते सति, भूपतिः श्रीबृहस्पतिना ज्ञापितपूजाविधिः समधिकवासनया शिवाानन्तरं धर्मशिलायां तुलापुरुषगजदानादीनि महादानानि दत्त्वा कर्पूरारात्रिकमुत्तार्य समग्रमपि राजवर्गमपसार्य तद्गर्भगृहान्तः प्रविश्य 'न महादेवसमो देवः, न मम तुल्यो नृपतिः, न भवत्सदृक्षो महर्षिरिति भाग्यवैभववशादयत्नसिद्ध त्रिकसंयोगे बहुदर्शनप्रमाणप्रतिष्ठासन्दिग्धे 15 देवतत्वे मुक्तिप्रदं दैवतमस्मिंस्तीर्थे तथ्यया गिरा निवेदय' इत्यभिहितः श्रीहेमाचार्यः किञ्चिद्धिया निध्याय नृपं प्राह-'अलं पुराणदर्शनोक्तिभिः, श्रीसोमेश्वरमेव तव प्रत्यक्षीकरोमि, यथा तन्मुखेन मुक्तिमार्गमवैषी ति तद्वाक्यात्किमेतदपि जाघटीतीति विस्मयापन्नमानसे नृपे 'निश्चितमत्र तिरोहितं दैवतमस्त्येव । आवां तु गुरूक्तयुक्त्या निश्चलावाराधकौ, तदित्थं द्वन्द्वसिद्धौ सुकरं दैवतप्रादुःकरणम्। मया प्रणिधानं क्रियते भवता कृष्णागुरुत्क्षेपश्च कार्यः । तदा परिहार्यो यदा 20 ध्यक्षः प्रत्यक्षीभूय निषेधयति ।' अथोभाभ्यामपि तथा क्रियमाणे धूमधूम्यान्धकारिते गर्भगृहे निर्वाणेषु नक्षत्रमालादीप्रप्रदीपकेषु आकस्मिके प्रकाशे द्वादशात्ममहसीव प्रसरति, नृपो नयने सम्भ्रमादुन्मृज्य यावदालोकते तावजलाधारोपरि जात्यजाम्बूनदद्युतिं चर्मचक्षुषां दुरालोकमप्रतिमरूपमसम्भाव्यखरूपं तपखिनमद्राक्षीत् । तं पदाङ्गुष्ठात् प्रभृति जटाजूटावधि करतलेन संस्पृश्य निश्चितदेवतावतारः पश्चाङ्गचुम्बितावनितलं प्रणिपत्य भक्त्या "भूपतिरिति विज्ञपयामास-'जग-25 दीश! भवदर्शनात्कृतार्थे दृशौ, आदेशप्रसादात्कृतार्थय श्रवणयुगलमिति विज्ञप्य तूष्णीं स्थिते नृपे" मोहनिशादिनमुखात्तन्मुखादिति दिव्या गीराविरासीत्-'राजन् ! अयं महर्षिः सर्वदेवतावतारः । अजिह्मपरब्रह्मावलोककरतलकलितमुक्ताफलवत्कालत्रयविज्ञातवरूपः । एतदुपदिष्ट एवासन्दिग्धो मुक्तिमार्गः' इत्यादिश्य तिरोभूते भूतपतावुन्मनीभावं भजति भूपती, रेचितप्राणायामपवनः श्लथीकृतासनबन्धः श्रीहेमचन्द्रो यौवदु 'राजन् !' इति वाचमुवाच, तावदिष्टदैवत-30 सङ्केत्तात्त्यक्तराज्याभिमानः क्षितिधनः 'जीव ! पादोऽवधार्यतामिति व्याहृतिपरो" विनयनम्र- :
1 D नास्ति। 2 P नास्ति 'उद्मनीयेन ।' 3 P समस्तः। 4 P शिवार्चानन्तरं दण्ड०। 5 D स नृपः। 6 BP दानानि। 7 BP वितीर्य। 8 AD 'अपि' नास्ति । 9 D अत्र सिद्धे। 10 D 'अपि' स्थाने 'इति'। 11 BP एवं । 12-13 D विना नान्यत्र। 14 D •मालदीपकेषु। 15 D भूमान् । 16 D नास्ति । 17 P.आमलकफल। 18 ABP भजन भूपतिः । 19 'यावद् राजन्' स्थाने-A यावद् राजानम्': D याजनम् । 20 P विना न। 21 D परे गुरौ। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164