Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
७६
प्रबन्धचिन्तामणिः।
[तृतीयः
१७६. सपादलक्षः सह भूरिलक्षैरानाकभूपाय नताय दत्तः । ___ दृप्ते यशोवर्मणि मालवोऽपि त्वया न सेहे द्विषि सिद्धराज ॥
-इत्याद्या बहुशः स्तुतयः प्रबन्धाश्च तदीया ज्ञेयाः। संव० ११५० पूर्व श्रीसिद्धराजजयसिंहदेवेन वर्ष ४९ राज्यं कृतम् । 5
॥ इति श्रीमेमतुङ्गाचार्यविरचिते' प्रबन्धचिन्तामणौ श्रीकर्ण-श्रीसिद्धराजचरित्र
वर्णनो नाम तृतीयः प्रकाशः॥ ग्रंथान ५७४ ॥ (अत्र P प्रतौ निम्नलिखिताः श्लोका अधिकाः प्राप्यन्ते-)
{तदुपश्लोकनश्लोका यथा[१०६] शिशुनापि शुनासीरवीरवृत्तिमतीयुषा । रुपा भुजिष्यतां नीताः पिशुना येन भूभुजः॥ 10 [१०७] अपारपौरुषोद्गारं खङ्गार गुरुमत्सरः । सौराष्ट्र पिष्टवानाजौ करिणं केसरीव यः ॥
[१०८] असंख्यहरिसैन्येन प्रक्षिप्तानेकभूभृता । बद्धः सिन्धुपतिर्येन वैदेहीदयितेन वा ॥ [१०९] अमर्षणं मनः कुर्वन् विपक्षोर्वीभृदुन्नतौ । अगस्त्य इव यस्तूर्णमर्णोराजमशोषयत् ॥ [११०] गृहीता दुहिता तूर्णमर्णोराजस्य विष्णुना । दत्तानेन पुनस्तस्मै भेदोऽभूदुभयोरयम् ॥
[१११] द्विषां शीर्षाणि लूनानि दृष्ट्वा तत्पादयोः पुरः । चक्रे शाकम्भरीशोऽपि शङ्कितः प्रणतं शिरः ॥ 15 [११२] मालवस्वामिनः प्रौढलक्ष्मीपरिवृढः स्वयम् । समित्यपरमारो यः परमारममारयत् ॥
[११३] क्षिप्त्वा धारापति राजशुक्रवत्काष्ठपञ्जरे । यः काष्ठापञ्जरे कीर्तिराजहंसी न्यवीविशत् ॥ [११४] एकैव जगृहे धारा नगरी नरवर्मणः । दत्ता येनाश्रुधारास्तु तद्वधूनां सहस्रधा ॥ [११५] धाराभङ्गप्रसङ्गेन यस्यासन्नस्य शङ्कितः । प्राघूर्णकमिषाद्दण्डं महोदयपतिर्ददौ ॥
[११६] सुधेव वसुधा लब्धुं वाञ्छिता येन विद्विषा । यस्सोल्लसदसिाहू राहूचक्रे तमाहवे ॥ 20 [११७] जनेन मेने यः खामी कुमार इव शक्तिमान् । ताम्रचूडध्वजः सोऽभूत् किन्तु केकिध्वजः परः ।।
[११८] येन विश्वकवीरेण न स राजा जितो न यः । काष्ठा कापि न सा यस्य यशोभिः शोभिता न या । [११९] गणेशस्येव यस्याग्रपुष्करस्य वृषस्थितेः । आज्यसारः करस्थोऽभूद् गौडो मोदकवन्नृपः ॥ [१२०] श्मशाने यातुधानेन्द्रं बद्धवा बर्वरकाभिधम् । सिद्धराजेति राजेन्दुर्यो जज्ञे राजराजिषु ॥
[१२१] रजोभिः समरोद्भूतैर्यत्पुरा मलिनीकृतम् । तत्पश्चात्कीर्तिकल्लोलेर्येन क्षालितमम्बरम् ॥ 25 [१२२] महीमण्डलमार्तण्डे तत्र लोकान्तरे गते । श्रीमान् कुमारपालोऽथ राजा रञ्जितवान् प्रजाः ॥
SAD आदर्श एवेदं पद्यं लभ्यते। 1 P आदर्श एवैषः शब्दः। AD आदर्श इयं पंक्तिः "संव० ११५० वर्षे उपविष्टो .जयसिंहदेवः । तथा तेन राज्ञा वर्ष ४९ राज्यं कृतम् ।" एतादृशी लभ्यते। 2 P .चार्याविःकृते। 3 AD श्रीकर्णश्रीसिदराजयोर्विविधचरित्रनानावदातवर्णनो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164