Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 106
________________ प्रकाशः ] कुमारपालादिप्रबन्धः । त्यजसी'ति भाषमाणो मर्तुकाम औषधमिव तद्वचः पथ्यमपि न जग्राह । नृपस्तदाकारसंवरणेaise' विधायाsपरस्मिन्दिवसे नृपसङ्केतितैर्मलैस्तदङ्गभङ्गं कृत्वा नेत्रयुगं समुद्धृत्य च तं तदावासे प्रस्थापयामास । १७८. आदौ मयैवायमदीपि नूनं न तद्दहेन्मामवहेलितोऽपि । इति भ्रमादङ्गुलिपर्वणापि स्पृश्येत नो दीप इवावनीपः ॥ इति विमृशद्भिः समन्ततः सामन्तैर्भयभ्रान्त चित्तैस्ततः प्रभृति स नृपतिः प्रतिपदं सिषेवे । १३१) तेन राज्ञा पूर्वोपकारकर्त्तुः श्रीमदुदयनस्याङ्गजः श्रीवाग्भटदेवनामा महामात्यश्चक्रे । आलिंगनामा ज्यायान्प्रधानः, महं० उदयनदेवच । ७९ Jain Education International १३२) चाहनामा कुमारः श्रीसिद्धराजप्रतिपन्नपुत्रः श्रीकुमारपालदेवस्याज्ञामवमन्यमानः । सपादलक्षीयभूपतेः पत्तिभावं बभार । तेन श्रीकुमारपालभूपालेन सह विग्रहं चिकीर्षुणा 10 तत्रत्यं सकलमपि सामन्तलोकं लश्चोपचारदानादिना खायत्तीकृत्य दुर्वारस्कन्धावारोपेतं सपादलक्षक्षोणीपतिं सहादाय देश सीमान्तमागतः । अथ चौलुक्यचक्रवर्त्ती अभ्यमित्रीणतया स्कन्धावारसमीपे निजं चमूसमूहं निवेशयामास । निर्णीते समरवासरे निष्कण्टके क्रियमाणे सीमनि सज्जीक्रियमाणायां चतुरङ्गसेनायां चउलिंगनामा पट्टहस्तिनो हस्तिपकः कस्मिन्नप्यागर्सि' नृपेणाक्रुश्यमाणः क्रोधादङ्कुशं तत्याज । अथ सामलनामा मात्रगुणपात्रं महामात्र 15 दुकूलं वसुदानपूर्वकं तत्पदे नियोजितः सन् राज्ञा, स कलहूपञ्चानननामानमनेकपं प्रक्षरितं कृत्वा तदुपरि नृपासनं निवेश्य तत्र षट्त्रिंशदायुधानि नियोजयन्सकलकलाकलापसम्पूर्ण: " कलापके चरणौ नियोज्य स्वयमारूढवान् । तदासनस्थचालुक्यभूपालोऽपि सङ्ग्रामाधिकृत पुरुपैरुत्थापनिकां कार्यमाणेषु सामन्तेषु " चाहडकुमार भेदादाज्ञा भङ्गकारिषु - इति सैन्यविप्लवमाकलय्य तं निषादिमादिदेश । सम्मुख सेनायां सपादलक्षक्षितिपतिर्मतङ्गजछत्र सङ्केतादुप- 20 लक्ष्य विघटिते कटकबन्धे मयैवैकाकिना योद्धव्यमिति निर्णीय तेनाधोरणेन खं सिन्धुरं तत्सनिधौ नेतुमादिशन्नपि तमपि तथाऽकुर्वाणं विलोक्य 'कथं त्वमपि विघटितोऽसीत्यादिशंस्तेन विज्ञपयांचक्रे - 'स्वामिन्! कलहपञ्चाननो हस्ती सामलनामा हस्तिपकश्च द्वयं युगान्तेऽपि न विघटते, परं परस्मिन्कुम्भिकुम्भे चाहडनामाकुमारस्तारध्वनिरधिरूढोऽस्ति यस्य हक्कया हस्तिनोऽपि भज्यन्ते ।' अर्तें उत्तरीयाञ्चलयुगलेनै सिन्धुरश्रवणौ " पिधाय स निजं गजं प्रतिगजेन समं" संघ - 25 द्वयामास । अथ चाहडः पूर्वमात्मसात्कृतं चउलिगनामानमारोहकं जानन् कृपाणिकापाणिः श्रीकुमारपालविनाशाशया, निजगजात्कलहपञ्चाननकुम्भे पदं ददानः तेन यत्रा पश्चात्कृते गजे स भूमीपतितस्तलवर्गीयपदातिभिरधारि । तदनु चौलुक्यभूपतिना श्रीमदानाकनामा सपादलक्षनृपः" ' शस्त्रसज्जो भवेत्यभिहितस्तन्मुखकमलं प्रति औचित्याच्छिलीमुखं व्यापारयन् 'प्रधानः क्षत्रियोसी 'ति सोपहासश्लाघया तं वञ्चयित्वा नाराचेन निर्भिद्य कुम्भीन्द्रकुम्भे पातयित्वा 30 1 P अपन्हुत्य । 2 P नयनयुगलं । 3D ततः । 4 A उदयनदेवस्य पुत्र ( D पुत्रो ) चाहड० । 5 P क्षितिपतेः । 6 D दानैः । 7 BP केनापि आगसा नृपतिना । 8 BP उज्झांचकार । 9 D पुष्कल० । 10 BP • परिपूर्ण । 11. B बाहड० | 12 BP सादिनं । 13 D• आदिदेश पुरो गन्तुं । 14 D इत्युक्तः । 17 BP • युगलं । 18 BP . श्रवणयोरधिरोप्य । 19 AD नास्ति • छत्रचामर० । 15 D नास्ति । 16 D । 20 BP 'नृपतिः' इत्येव । For Private Personal Use Only 5 www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164