Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रबन्धचिन्तामणिः ।
[ चतुर्थः प्राह-'लोकोत्तराण्यस्याङ्गलक्षणानि । सार्वभौमोऽयं नृपतिर्भावीति । आजन्म दरिद्रोपद्रुततया तां वाचं यथार्थाममन्यमानेन तेन क्षत्रियेणासम्भाव्यमेतदिति विज्ञप्ते, 'सं०११९९ वर्षे कार्तिकवदि (BP सुदि)२ रवौ हस्तनक्षत्रे यदि भवतः पट्टाभिषेको न भवति तदाऽतःपरं निमित्तावलोकनसंन्यासः' इति पत्रकमालिख्यैकं मन्त्रिणेऽपरं तस्मै समार्पयत् । अथ स क्षत्रियस्तत्क5 लाकौशलचमत्कृतमानसः 'यद्यदः सत्यं तदा भवानेव नृपतिः, अहं तु त्वचरणरेणुः' इति प्रतिश्रवं श्रावयन् 'किं नो नरकान्तराज्यलिप्सया भवतु, कृतज्ञेन भवता वाक्यमिदमविस्मरता जिनशासनभक्तेन सततमेव भाव्यमिति तदनुशास्तिं शिरःशेखरीकृत्यापृच्छय च मन्त्रिणा सह गृहं प्राप्तः । लानपानाशनादिभिः सत्कृतः यथायाचितं पाथेयं समर्प्य प्रस्थापितो मालवकदेशं गतः। कुडङ्गेश्वरप्रासादे प्रशस्तिपट्टिकायाम्10 १७७. पुण्णे वाससहस्से सयम्मि वरिसाण नवनवइअअहिए । होही कुमरनरिन्दो तुह विक्कमराय ! सारिच्छो ।
इमां गाथामालोक्य विस्मयापन्नमानसो गूर्जरनाथं सिद्धाधिपं परलोकगतमवगम्य ततः प्रत्यावृत्तो विलीनशम्बलस्तस्मिन्नपि नगरे कस्यापि विपणिनो विपणौऽशनानन्तरं । तमेव बन्दीचकार । स तु व्याकुलतयाऽऽक्रन्दन्मिलिते नगरलोके द्वयोरपि निधनं निश्चित्य मम कृतकमूच्छा भवानपनयतु इत्यभिहितस्तेन मतिवैभवेन प्रत्युज्जीवितमन्यस्तत्तथा कृत्वा तस्मादुपायाद्' व्यपेतोऽ15 पाय: श्रीमदणहिल्लपुरमुपेत्य निशि कान्दविकापणे धनाभावाद्भुक्ततदशनो भगिनीपते राजकुलश्रीकान्हडदेवस्य सदनमासाद्य राजमन्दिरादागतेन तेन पुरस्कृत्यान्तीतः। सद्भोजनादिभिः सुहितीभूतः सुष्वाप ।
१२९) प्रातस्तेन भावुकेन स्वसैन्यं सन्नह्य नृपसौधमानीयाभिषेकपरीक्षानिमित्तं प्रथममेका कुमारः पट्टे निवेशितः । तमुत्तरीयाञ्चलानप्यनावृण्वन्तमालोक्य तदपरो निवेशितः। ततस्तं यो20 जितकरसम्पुटं वीक्ष्य तस्मिन्नप्यप्रमाणीकृते श्रीकान्हडदेवानुज्ञातः कुमारपालः संवृतवसन ऊर्द्ध पवनं गृह्णन् सिंहासने उपविश्य कृपाणं पाणिना कम्पयन् पुरोधसा कृतमङ्गलः पश्चाशद्वर्षदेश्यः सनिखाननिस्वनं श्रीमता कान्हडदेवेन पञ्चाङ्गचुम्बितभूतलं नमोऽकारि ।
१३०) स प्रौढतया देशान्तरपरिभ्रमणनैपुण्येन राज्यशास्तिं स्वयं कुर्वन् राजवृद्धानामरोचमानस्तैः सम्भूय व्यापादयितुं व्यवसितः। सान्धकारगोपुरेषु न्यस्तेषु घातकेषु प्राक्तनशुभक25 र्मणा प्रेरितेन केनाप्यासेन ज्ञापितवृत्तान्तस्तं प्रवेशं विहाय द्वारान्तरेण वर्ग" प्रविश्य तानि प्रधानान्यन्तकपुरी प्राहिणोत् । स भावुकमण्डलेश्वरः शालकसम्बन्धाद्राज्यस्थापनाचार्यत्वाच्च राज्ञो दुरवस्थामर्माणि जल्पति । पश्चाद्राज्ञोक्तं-'हे भावुक ! राजपाटिकायां सर्वावसरे च प्राक्तनदुरवस्थामर्मनर्म न भाषणीयं त्वया । अतः परमेवंविधं सभासमक्षं नो वाच्यं विजने तु यदृच्छया वाच्यमिति राज्ञोपरुद्ध उत्कटतयाऽवज्ञावशाच रे अनात्मज्ञ! इदानीमेव पदी
!.. 1 AD लोकोत्तराणि तदङ्गलक्षणानि वीक्ष्य। 2 AD भावीत्यादिदेश। 3D सन्दिग्धतया मन्यः। 4 BP विज्ञप्तः । 5 D अस्मिन्नगरे। 1 एतदन्तर्गतः पाठः D पुस्तके मूले नोपलभ्यते, पृष्ठाधोभागे पाठान्तरेण संगृहीतो विद्यते; परमस्मदीयेषु सर्वेष्वादशेषु मूल एवैष पाठः समुपलभ्यते। 6P निध्यानं निध्याय। 7 Da तसादपायात्पलायमानः। 8 AD राजश्री। 9.AD सौधे सह नीत्वा। 10 P प्रदेश; B देशं। 11 P च। एतदन्तर्गतपाठस्थाने P आदर्श 'राजपाटिकायां सर्वावसरे च प्राक्तनदुरवस्थामर्मभाषणेन उपांशुदेशे त्वया' एतादृशः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164