Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रबन्धचिन्तामणिः।
[ तृतीयः १२०) श्रीसिद्धराजेन मालवमण्डलाद्यशोवर्मा नृपतिर्निबध्यानीतः । अवसरे क्रियमाणे सीलणाभिधानेन कोतुकिना 'बेडायां समुद्रो मग्न' इति तत्पृष्ठगायनेनापशब्दं ब्रूषे इति तर्जितो बेडासमानायां गूर्जरधरित्र्यां मालवकनृपतिसमुद्रो मग्न इति विरोधालङ्कारमर्थापत्त्या परिहरन् प्रभोहेममयीं जिहां प्राप।।
॥ इति कौतुकीसीलणप्रबन्धः॥ १२१) कदाचित्सिद्धराजस्य वाग्ग्मी कश्चित्सान्धिविग्रहिको जयचन्द्रनाम्ना कासिपुरीश्वरेण श्रीमदणहिल्लपुरस्य प्रासादप्रपानिपानादिखरूपाणि पृच्छतेति दूषणमुक्तम्-'यत्सहस्रलिङ्गसरोवरवारि शिवनिर्माल्यतयाऽस्पृश्यतया सेवमानो लोकद्वयविरोधेन तत्र वास्तव्यो लोकः कथमुदितोदितप्रभावः स्याद् ?। सिद्धाधिपेन सहस्रलिङ्गसरः कारयताऽनुचितमिदमाचरितमिति तस्य 10 नृपतेर्वचसाऽन्तः कुपितः स नृपं पप्रच्छ-'अस्यां वाणारस्यां कुतस्त्यं पयः पीयते ?' नृपेण 'त्रिपथगाजलमित्यभिहिते "किं नाम सुरसरिन्नीरं शिवनिर्माल्यं न ? यतः शिवोत्तमाङ्गमेव गङ्गानिवासभूमिः।'
॥ इति जयचन्द्रराज्ञा समं गूर्जरप्रधानस्योक्तिप्रत्युक्तिप्रबन्धः॥ - १२२) कस्मिन्नप्यवसरे कर्णाटविषयादागतेन सान्धिविग्रहिकेण' श्रीमयणल्लदेव्या पितुर्जय15 केशिराज्ञः कुशलोदन्ते पृष्टेऽश्रुमिश्रलोचन इति विज्ञपयामास-खामिनि! मुगृहीतनामा श्रीजय
केशिमहीमहीन्द्रोऽशनावसरे पञ्जरात्क्रीडाशुकमाकारयन् , तेन मार्जार इत्युचरिते नृपः परितो विलोक्य निजभोजनभाजनाधो"भागवर्तिनमोतुमपश्यन् , “यदि तव बिडालबालेन" विनाशः स्यात्तदाहं त्वया सहगमनं करवाणी"ति प्रतिज्ञाते स यावत्पञ्जरादुड्डीय तस्मिन्काञ्चनभाजने निषीदति तावदकस्मात्तेन वृकदंशेन तं विनाशितमवलोक्य परित्यक्ताशनकवलः, उक्तियुक्ति20 वेदिना राजवर्गेण निषिद्ध्यमानोऽपि... १६९. राज्यं यातु श्रियो यान्तु यान्तु प्राणा अपि क्षणात् । या मया स्वयमेवोक्ता वाचा मा यातु शाश्वती ॥ इतीष्टदैवतमिव तामेव गिरं जैस्तेनैव शुकेन सह दारुनिचितां चितां विवेश।' इति वाक्याकर्णनाच्छोकाम्भोधिमग्नां श्रीमयणल्लदेवीं विशेषधर्मोपदेशहस्तावलम्बनेन विद्वज्जनः समभ्युद्दधार ।
१२३) अथ पितुः श्रेयसे श्रीसोमेश्वरपत्तने यात्रां गता सती सा" सती त्रिवेदीवेदिनं कमपि 25 ब्राह्मणमाकार्य तदञ्जलौ जलन्यासावसरे 'यदि भवत्रयपातकं ददासि" तदा आददामि नान्य
थेति तद्वचनविशेषपरितोषभाक् गजाश्वकाञ्चनादिभिर्दानैर्युत पापघटमाददौ । स च तत्सर्व विप्रेभ्यो ददानः किमिति देव्या पृष्टः प्राह-प्राक्तनपुण्योपचयादस्मिन् जन्मनि नृपप्रिया नृपतिजननी भूत्वा लोकोत्तरैरेभिर्दानैः सुकृतैर्भावी भवोऽपि श्रेयस्कर इति विमृश्य भवत्रयपातकं मया जगृहे । भवत्या पापघटदाने उपक्रान्ते कश्चिदधमद्विजोऽपि पापघटं नीत्वा, खं भवतीं च
1 P अथ श्री०। 2 P धरायां। 3 P नृपात्सुवर्णमयीं। 4 P जयन्तचन्द्र०। एतदन्तर्गतपाठस्थाने D पुस्तके 'शिवनिर्माल्यं तदस्पृशतया तत्सेवका अतो लोकद्वयविरोधिनस्तत्रत्यलोकः' एतादृशः पाठः। 5 P क्रुद्धः। 6 D राजेन । 7 D नास्ति 'प्रत्युक्ति'। 8 P .आगतान् । 9P विग्रहिकान् । 10 D लोचनेनेति सा। 11D भोजनान्धोऽधो। 12 AD बिडालेन। 13 B नास्ति । 14 P सरन् । 15 AD नास्ति 'सा सती'। 16 D त्रिवेदिनं । 17 AD लासि । 18 D ददामि। 19 D दिभिर्युतं। 20 AP पुण्योदयात्; D पुण्यात् ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164