Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
७२
प्रबन्धचिन्तामणिः ।
[तृतीया तेस्तस्य षण्णवतिराजगुणान् प्रशंसंस्तत्पार्श्वे च गूर्जराधीश्वरगुणदोषान् पृच्छन् 'श्रीसिद्धराजस्य प्रजापालनपाण्डित्यं सेवकेष्वप्यतुल्यवात्सल्यत्वं चे'त्यादीन गुणान् वर्णयंस्तेन कृत्रिमदोषे उद्घाव्यमाने स 'अस्माकं मन्दभाग्यतया नृपतेरपुत्रतालक्षण एव दोषः' इत्यभूणि मुश्चन्नृपति निकैतववृत्त्या परितोषयामास । अथ प्रभातकाले सम्भूय सर्वेऽपि मिलिता नृपदर्शनोत्कण्ठिताः 5 सौधमध्यास्य प्रभोः प्रणामानन्तरं तदतुल्यपल्यके निविष्टाः। आसनदाननियोगिभिः प्रदत्तेऽपि पृथगासने तत्पर्यङ्कसौकुमार्य करस्पर्शेन विचिन्त्य 'वयमिह सुखसुखेन निषण्णास्तिष्ठामा' इति तुपे स्मितमुखाम्भोजे तस्थुः।
॥ इति उञ्झावास्तव्यग्रामणीनां प्रबन्धः॥ ११७) अथ कदाचिज्झालाज्ञातीयमाङ्गनामा क्षत्रियः श्रीसिद्धराजसेवार्थ सभा समागच्छन् 10 प्रत्यहं पाराचीद्वयं भूमौ निहत्योपविशति । उद्धरन् तवयमुत्तिष्ठति । तस्य च भोजने घृतपरिपूर्णः कुतुप एवं व्यये याति । तस्य तु घृताभ्यक्तदाढिकानिर्मार्जने घृतषोडशोऽवशिष्यते। कदाचिद्धपुरपाटवे पथ्यावसरे पञ्चमाणकप्रमितयवागूपथ्यप्रान्ते आयुर्वेदविदाऽमृतोदकमद्धाहारे किमिति न पीतमुपालब्धः । यतः
१६८. पिबेद्धटसहस्रं तु यावनाभ्युदितो रविः । उदिते तु सहस्रांशौ विन्दुरेको घटायते ॥ 15. रजन्याः पाश्चात्यघटिकाचतुष्टये सूर्यस्यानुदयावधि यत्पयः पीयते, जलयोगः क्रियते, तद्वजोदकम् , [तदमृतोदकं] सूर्योदये समुत्पन्ने निरन्नैः प्रातर्यदुदकं पीयते तद्विषम् । ततः बिन्दुरेकोऽपि घटशतायते । भोजनार्दै यजलं पीयते तदमृतम्, भोजनान्ते तत्कालपीतं पयः छत्रं "छत्रोदकमिति भण्यते । तेन प्रोक्तं पुनः पूर्वान्नं भुक्तमाहारं परिकल्प्य सम्प्रति पयः पीत्वा पुनर - हारं करिष्यामी'त्युपक्रममाणस्तेनैव वैद्येन निषिद्धः। कदाचिदै नृपतिना निरायुधकारणं पृष्टः 20 'समयोचितं मे प्रहरणमिति विज्ञपयन्नऽन्यदा मजनावसरे हस्तिपकप्रेर्यमाणं हस्तिनमालोक्य
सन्निहितश्चानेन शुण्डादण्डे निहत्य मर्मस्थाननिपीडितस्य गजस्य पुच्छभागं गृह्णन् तदीयातुलेन बलेनान्तस्त्रुटितस्य करटिन उत्तारिते हस्तिपके भूपतितः सोऽसुभिर्व्ययुज्यत । स तु गूर्जरदेशभूपाले पलायिते समायातम्लेच्छान् समरे खेच्छयोच्छेदयन् यत्र दिवं प्राप्तस्तत्र श्रीपत्तने माङ्गस्थण्डिलमिति प्रसिद्धिः।
॥ इति "माङ्गप्रवन्धः॥ ११८) अन्यदाम्लेच्छेशप्रधानेषु समायतेषु मध्यदेशादागतान् वेषकारकानाहूय रहस्य किश्चिदादिश्य विससर्ज । अथापरस्मिन्सायाह्नावसरे" समागते प्रलयकालप्रचण्डपवनप्रादुर्भावे नृपः सुधमासधर्माणमास्थानीमास्थाय यावदवलोकते तावदन्तरिक्षादवतरन्तं मस्तकन्यस्तकाञ्चनेष्टिकायुगेन काञ्चनशोभा बिभ्राणं पलादयुगलमालोक्य भयभ्रान्ते समाजलोके नृपचरणपीठे तदु30 पायनं विमुच्य भूपीठलुठनपूर्व प्रणिपत्येति विज्ञपयामास-'यदद्य देवतार्चनावसरे लङ्कानगयों
1AD उत्पाद्यमाने। 2P उम्झाग्रामणी। 3 P सभायां। 4A कुम्भ। 5 D एक एव। 6D पोडशांशो। 7P 'प्रमित' नास्ति। 8 De जास्तमितः। 9 De अस्तं याते। 10 De बिन्दुर्घटशतायते। 11 केवलं D पुस्तके इदं पदं दृश्यते। 12 PDo छन् छनोदक। 13D पूर्वभुक्तः। 14 P विहाय नान्यत्र। 15 BP 'उत्तारिते भूपतौ' इत्येव । 16 D माजझाला। 17 BD म्लेच्छा। 18 AD देशागतान् । 19BP रहसि । 20 D सायावेच।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164