Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 102
________________ ७५ प्रकाशः] सिद्धराजादिप्रबन्धः। भवाम्भोधौ मज्जयिष्यतीति मया तु संन्यस्तसमस्तवित्तेन वित्तमेतदादाय पुनर्ददता लब्धादष्टगुणं पुण्यं लब्धमिति श्रेयः सञ्जगृहे ।' ॥ इति पापघटस्य प्रबन्धः॥ १२४) अथ कदाचिन्मालवकमण्डलं विगृह्य खदेशनिवेशं प्रति प्रचलितः श्रीसिद्धाधिपोऽन्तराले स अप्रतिमल्लैर्भिल्लैर्निरुद्धमध्वानमवधार्य तस्मिन्वृत्तान्ते ज्ञाते सति मन्त्री सान्तूनामा 5 प्रतिग्राम प्रतिनगरं घोटकमुद्राह्य प्रतिवृषं पर्याणानि विन्यस्य मेलितातिदलस्तबलेनं भिल्लावित्रास्य श्रीसिद्धराजं सुखेन खदेशं समानीतवान् । ॥ इति सान्तूमन्त्रिबुद्धिप्रबन्धः ॥ १२५) अथ कस्याश्चिनिशि द्वावकुण्ठौ वण्ठौ श्रीसिद्धनरेश्वरस्य चरणसंवाहनाव्याप्ती तं निद्रामुद्रितलोचनं विचिन्त्य, तदाद्यो निग्रहानुग्रहसमर्थ श्रीसिद्धराज सेवकजनकल्पवृक्षं सर्वरा-10 जगुणनिलयं प्रशशंस । अपरस्त्वस्यापि भूपतेः प्राज्यराज्यप्रदं प्राक्तनं कर्मैव श्लाधितवान् । एवमाकर्णितेन राज्ञा' तस्मिन्वृत्तान्ते तत्कर्मणः प्रशंसां विफलीका स्वप्रशंसाकारिणः प्रेष्यस्यापरस्मिन्नहन्यऽनिवेदिततत्त्वस्य प्रसादलेखमार्पयत्-'यदस्मै वण्ठाय तुरङ्गमशतस्य सामन्तता देया' इत्यालिख्य तं महामात्यश्रीसान्तूपाचे प्राहिणोत् । अथ स यावच्चन्द्रशालाया निःश्रेण्यामवरोहति तावत्प्रस्खलितपदः पृथिव्यां पतदीषदङ्गभङ्गमङ्गीकृतवान् । तत्पृष्ठानुगामिनाऽपरेण 15 वण्ठेन किमेतदिति पृष्टस्तेन स्वस्वरूपे निवेदिते स मञ्चकन्यस्तो गृहं गत्वा तं प्रसादलेखमपरस्मै समर्पितवान् । तत्प्रमाणेन महामात्यस्तस्मै शततुरङ्गमसामन्ततां ददौ । अथानयोर्यथावद्वृत्तान्तेऽवधारिते नृपतिः कर्मैव बलीय इति तत्प्रतिमेने । १७०. नैवाकृतिः फलति नैव कुलं न शीलं विद्या न चापि मनुजेषु कृता न सेवा । पुण्यानि पूर्वतपसा किल" सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ 20 ॥ इति वण्ठकर्मप्राधान्यप्रबन्धः॥ १७१. सो जयउ कूडबरडो" तिहुयणमज्झम्मि जेसलनरिन्दो । छित्तूण रायवंसे" इक छत्तं कयं जेण ॥ १७२. *महालयो महायात्रा महास्थानं महासरः । यत्कृतं सिद्धराजेन क्रियते तन्न केनचित् ॥ १७३. मात्रयाप्यधिकं किञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥ १७४. मानं मुश्च सरस्वति त्रिपथगे सौभाग्यभङ्गीस्त्यज रे कालिन्दि तवाफला कुटिलता रेवे रयस्त्यज्यताम् |25 श्रीसिद्धेशकृपाणपाटितरिपुस्कन्धोच्छलच्छोणितस्रोतोजातनदीनवीनवनितारक्तोऽम्बुधिर्वर्तते ॥ १७५. श्रीमजैत्रमृगारिदेवनृपते सत्यं प्रयाणोत्सवे पानीयाशयशोषणैः करटतो वीरव्रणाकाङ्क्षया । खीयस्वीयपतेर्विनाशसमयं सञ्चिन्त्य चिन्तातुरा मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वामं स्त्रियः॥ 1 B 'सान्तू' इत्येव; P सान्तू इति नामा। 2 AD दलबलेन । 3D 'स्वदेश' नास्ति । 4 P सान्तूबुद्धिप्रबन्धः; D बुद्धिवैभवः। 5 P भूभुजा। 6 P सामन्तपदं देयं । 7 P तावत्तत्र स्खलितः। 8 AD नास्ति 'प्रसादलेख। 9 P विद्यापि नैव नहि यन्न कृतापि सेवा; B विद्या न चापि न च जन्मकृतापि सेवा। 10 B भाग्यानि; P कर्माणि। 11 P चिर। 12. A. कूडगंछो; D कूडछरडो; Dd नरडो। 13 P पहुवीमझि। 14 AD. रायवंसं । 15 P एक। * D पुस्तके नैतत्पद्यमत्र लभ्यते। 16 A 'कृतं नान्यनृपेण तत्' एतादृशोऽयं पादः। D पुस्तक एवेदं पद्यं प्राप्यते। ...... .... Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164