Book Title: Prabandha Chintamani
Author(s): Merutungacharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रकाशः]
सिद्धराजादिप्रबन्धः। अनन्तरं तु श्रीसिद्धराजः प्रमोदमेदुरमना देवाचार्यप्रभावप्रभावनाचिकीर्मूर्ध्नि धारितसितात. पत्रचतुष्टयः प्रकीर्णकप्रकरवीज्यमानः स्वयं दत्तहस्तावलम्बः पूर्यमाणेषु यमलशोषु रोदाकुक्षि
भरिविभ्रमं बिभ्रति निखान निखनैः स्फूर्जद्वर्यतूर्यपूर्यमाणदिगन्तराले वाहर्डनानोपासकेन लक्षत्रयप्रमितद्रव्यव्ययकृतार्थीकृतार्थिसार्थे 'वादिचक्रवर्तिन् ! पादावधार्यतामिति स्तुतिवातैरमन्दजगदानन्दकन्दकन्दलानुकारिणि मङ्गले मुहुर्मुहुरुच्यमाने श्रीदेवाचार्यान् वाहडेन तेनैव कारित- 5 प्रासादे श्रीमन्महावीरनमस्करणपूर्व वसतौ प्रावेशयत् । तत्पारितोषिके च नृपतिः सूरिभ्योऽनिच्छयोपि छालाप्रभृति ग्रामद्वादशकं ददौ । तदुपश्लोकनश्लोका एवम् -
१६१. वस्त्रप्रतिष्ठाचार्याय नमः श्रीदेवसूरये । यत्प्रसादमिवाख्याति सुखप्रश्नेषु दर्शनम् ॥
-इति श्रीप्रद्युम्नाचार्यः। 10 १६२. यदि नाम कुमुदचन्द्रं नाजेष्यद्देवसूरिरहिमरुचिः। कटिपरिधानमधास्यत्कतमः श्वेताम्बरो जगति ॥* ।
. -इति हेमाचार्यः। १६३. मेजेऽवकीर्णतां नमः कीर्तिकन्थामुपायं यः । तां देवसरिराच्छिद्य तं निर्ग्रन्थं पुनर्व्यधात् ॥
15
-इति श्रीउदयप्रभदेवः । १६४. वादविद्यावतोऽद्यापि लेखशालामनुज्झताम् । देवसरिप्रभोः साम्यं कथं स्याद्देवसरिणा ॥
-इति श्रीमुनिदेवाचार्यः । १६५. ननो यत्प्रतिभाधर्मात्कीर्तियोगपटं त्यजन् । हियेवात्याजि भारत्या देवसूरिसुदेऽस्तु वः ॥ १६६. सत्रागारमशेषकेवलभृतां भुक्तिं तथा स्थापयन्नारीणामपि मोक्षतीर्थमभवत्तन्मुक्तियुक्तोत्तरैः। या श्वेताम्बरशासनस्य विजिते नमे प्रतिष्ठागुरुस्तद्देवाद्गुरुतोऽप्यमेयमहिमा श्रीदेवरिप्रभुः ॥
-इति मेरुतुङ्गसूरीणां द्वयम् । ॥ इति देवसूरीणां प्रबन्धः*॥ ११०) अथ श्रीपत्तनवास्तव्य उच्छिन्नवंशकः आभडनामा वणिकपुत्रः कांस्यकारकह।" घर्घर-25 कघर्षणं कुर्वस्तत्र पश्च विंशोपकानर्जयित्वा दिनव्ययं कुर्वाणो द्विसन्ध्यमपि प्रभुश्रीहेमसूरीणां चरणमूले प्रतिक्रामन् प्रकृतिचतुरतयाऽधीतागस्त्यबौद्धमतादिरत्नपरीक्षाग्रन्थो रत्नपरीक्षकाणां सान्निध्यात् तत्परीक्षादक्षा कदाचिच्छ्रीहेमचन्द्रमुनीन्द्रसन्निधौ धनाभावात्परिग्रहप्रमाणनियमान्सङ्कुचितान् गृह्णन् सामुद्रिकवेदिभिः प्रभुमिरायतौ तद्भाग्यवैभवप्रसरं विमृशद्भिस्तस्य लक्षत्रयद्रम्माणां परिग्रहप्रमाणं कारयद्भिः सन्तुष्टतया व्यवहरन् , कस्मिन्नप्यवसरे कापि ग्रामे यिया-30 सुरन्तरालेऽजावजं व्रजन्तमालोक्यैकस्या अजायाः कण्ठे पाषाणखण्डं रत्नपरीक्षकतया रत्नजातीयं
1 DCP प्रभावनां चिकीर्षुः। 2 Dd पूर्यमाणेषु दिगन्तरालेषु। 3 Dd चाहड; B थाहड। 4 AD कन्दलनकारिणि । 5 B थाहडेन; Da-b चाहडेन। 6 BP यथा। *D विहाय नास्त्यन्यत्रेदं पद्यम् । 7D मुपार्जयन् । 8P वादविद्याविदो। 9P .शालाममुञ्चता। 10P .गुरोः। 11 BP धर्मात्। 12 B सः। 13 D तद्युक्ति। * BP इति प्रभुश्रीदेवसरिप्रबन्धः। 14 BP हट्टेषु । 15 BP 'प्रभु' नास्ति । 16 BP विचक्षणः। 17 'मुनीन्द्र' D नास्ति। 18 P वैभवं । 19 AD ●मानं; B निबन्ध। 20 ABP कुर्वद्भिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164